पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: - - एव कल्पनात । लाघवेन मुख्यार्थस्यान्वये सदनुपपत्त्या कल्पनीयाः फलमुखगौरवतयाऽदो- पत्यादिति । उपकुम्भमर्धपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा पूर्वपदार्थप्रधानतया प्रसा. यागकतत्वप्राप्तित एवेत्यर्थः ।। कल्पनादिति । अन्यथानुपपत्त्या कल्पनीयत्वादित्यर्थः । ननु कर्मधारय- पक्षमाश्रित्य निपादस्य यागाधिकार कल्पनं वेदाधिकार कल्पकमिति प्रक्षाळनाद्धीति न्यायकवलितत्वात् कर्म धारयपक्षो नाश्रयणीय इत्यत आह ॥ लाधवनेति ॥ लक्षणाया अभावप्रयुक्तलाघवेनेत्यर्थः ॥ मुख्या-- र्थान्वय इति ॥ निषादस्येत्यादिः । कर्मधारयपक्षावलम्बनेन यागकर्तृत्वसिद्धावित्यर्थः ॥ तदनुपपत्त्ये. ति || प्रमाणसिद्धग्रागकर्तृत्वानुपपत्त्येत्यर्थः ।। कल्पनाया इति ॥ यागोपयुक्तवेदाध्ययनकल्पनाया इत्यर्थः ॥ फलमुखगौरवतयेति ॥ फलं निषादस्य सागकर्तृत्वसिद्धिः तन्मुखं तत्प्रयोज्यं तत्सत्ताधीनसत्ताकमिति यावत् गौरवं वेदाध्ययनकानारूपं तस्थेत्यर्थः । अदोषत्वादिति ॥ यागकर्तृत्वविघटकत्वाभाचादित्य र्थः । तथाच निषादस्य यागकर्तृत्वानी कारे तनिर्वाहकदेदाध्ययन कल्पनाया अप्यनावश्यकतया तत्कल्पनाया यागकर्तस्वनिर्णयाधीनत्वेन यागकर्तृत्वविघटक याभावात् तसिद्धग्रुपजीव्यस्य तद्विघटकत्वाभावादिति भावः । नन्वेवं न स्त्रीशूद्रावित्यादिश्रुतिविरोधापत्तिः । नच श्रुतिघट कमृद्धदस्य निषादेतरशूदपरत्वस्वीकारात् न वि. रोध इति वाच्यं तथा साते निपादस्य कृत्स्नवेदाधिकारापत्ते: । नच अध्ययनपदस्यैव यागोपयुक्ताध्ययने- तराध्ययनपरत्वात् नोक्तदोष इति वाच्यं तथा सति शुशान्तरस्यापि यागोपयुक्ताभ्ययनापत्तिरिति चेन्न अ- ध्ययनपदस्य प्रमाणान्तरेण प्राप्ताध्यपनेतराध्यय नपरत्वात् निषादस्य श्रुतिबोधितयागकर्तृत्वनिर्वाहकयागोप . दिनकरीयम्. श्रुतिबोधितयाजनानुपपत्यवेत्यर्थः । ननु निषादस्य विद्याकल्पने गौरवमत आह ॥ लाघवेनेति ॥ ननु स्रोशुदौ नाधीयातामिति ध्रुतेरनामाण्यापत्तिभियः लाघवमकिषित्करम् । शुद्धपदस्य निषादेतरशूदपरत्वे निपादस्य वेदान्तराध्ययनप्रसङ्गः । अध्ययनपदस्य यागोपचुकाध्ययनेतर,ध्ययनपरत्वे च शुद्धान्तरस्यापि यागोपयुक्ताध्ययन प्रसङ्ग इति चेन्न । तत्र विशेषतः प्राप्ताध्ययनेतराध्ययनपरत्वादध्ययनप दस्य । तेन निधादस्य यागोपयुक्ताध्ययनेतराध्ययनानयेधः शूदान्तरस्य त्वध्ययनमालनिषेधः सिध्यतीति ॥ अदोषत्वादिति ॥ ननु लक्षणा कल्पनेऽपि न दोपः । शक्य सम्बन्ध रूपलक्षणायाः क्लप्तत्वात् । न च शाब्दयोधं प्राले लक्षणा. रामद्रीयम् . जनस्याप्यसम्भव इति भावः ।। गौरवं कल्पनागौरवमित्यर्थः ॥ लाघवमकिञ्चित्करामिति ॥ लक्षणाक- ल्पनाप्रयुक्तलाघवं दोपावहमित्यर्थः । उकयुतेरमामा पापत्या शस्यार्थान्वये लाश्वेपि तदनादरणीयमि- ति भावः । ननु मा हिंस्यात् सर्वा भूतानीति निषेधविधिना हिंसामात्रस्य निपिद्धत्वे वायव्यं श्वेतमालभे- त भूतिकाम इति यागे पशुहिंसाविधानवलाद्विहितहिंसातिरिक्तहिंसानिषेधपरत्वमेव यथोक्तनिषेधविधेः स्त्रीक्रियते तथात्रापि निषादस्थपतिमिति विधान बलान स्त्रीशूदाचित्लादिनिषेधवाक्ये शूदपदं वा निषा- दातिरिक्तशूद्रपरमाधिपूर्वकायधात्वर्थो वा यागोपयुत्ताध्ययन भिन्नाध्ययनार्थकोऽङ्गीकरणीयः यथाश्रुतेऽनामा- ज्यापतेरित्याशङ्का निराकुरुते ॥ तत्रेति । विशेषतः विशेषविधानेन प्राप्तं यध्ययनं तदतिरिक्ताध्ययनभे. व उक्तश्रुतेस्तात्पर्धिः । तथाच निषादस्थपतिमिति विधिना प्राप्तं निषादस्य यागोपयुक्तवेदाध्ययनं तदति- रिक्तवेदाध्ययनमात्रं शूदमालस्य निषिद्धमिति भावः ॥ अदोपत्वादिति ॥ ननु निषादस्थपतिमित्यत्र कर्मधारयोपगमे लाव तत्पुरुषोपगो निपादपदस्य निषादसम्वन्धिनि लक्षणायाः कल्पनीयतया गौरवात् । एवञ्च विधितो निषादस्य याजने प्राप्ते तदनुरोधेन निषादस्याध्ययनकल्पनेऽपि न कल्पना गौरवम् । फलमु- खगौरवस्यादोपत्वादित्युत्ताम् । तदिदमसङ्गतम् । शक्यसम्बन्धरूपलक्षणायाः सर्वसिद्धतया तस्या अकल्प. नीयत्वादिति तत्पुरुषोपगमेऽपि न किञ्चिद्गौरवं अतः कर्मधारयमुपगम्य निषादस्याध्ययनकल्पनमेव गौरवग्रस्तामति शहते ॥ नन्विति ॥ लक्षणायाः क्लुप्तत्वेऽपि तज्ज्ञानस्य वेदजन्यशाब्दं प्रति हेतुत्वकल्प. ने गौरवमक्षुण्णमेवेति शङ्कते ॥न चेति ॥ लौकिकशाब्दबोधानुरोधेन लक्षणाज्ञानस्यापि लाक्षणिकार्थवि-