पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः नं पद्मस्य - न्धीयते तत्र लक्षणया कुमुदादेबोधः । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञा- च बाधस्तत्र चावयवशक्तिमात्रेण निर्वाह इत्याहुः । यत्र स्थलपद्मादा- प्रमा दार्थेनेत्यादिः अन्वयासंभव इत्यर्थः ॥ प्रसिसन्धीयत इति ॥ निणीयत इत्यर्थः । कुमुद- स्वादिना चोधतात्पर्यमिति शेषः । तत्रेति ॥ सादृश वाक्यघटकपकअपद इत्यर्थः । सप्तम्यर्थो निरूपितत्वं तस्य लक्षणायामन्वयः ॥ लक्षणयति ।। कुमुदत्त्वावच्छिन्नविशेष्य कलक्षणाज्ञानजन्य- कुमुदत्वप्रकारकस्मरणेनेत्यर्थः ॥ कुमुदादेवोध इति ॥ कुमुदत्वादिप्रकारकशाब्दबोध इत्यर्थः ।। यत्नेति ॥ यादृशवास्यघटकपङ्कजपद इत्यर्थः । सप्तम्यर्थो विशेष्यत्वं तस्य ज्ञानेऽन्वयः ॥ कुमुदत्त्ये- नेति ।। कुमुदत्वावच्छिन्नविषयताशालिप्रतीतीच्छयो चरितत्वप्रकारकज्ञानाभाव इत्यर्थः ॥ पद्मस्येति ॥ पश- स्वावच्छिन्नस्येत्यर्थः । अप्यर्थकचशब्दः बाध इत्युत्तरं योऽयः ॥ वाध इति ॥ समभिव्याहृतपदार्थेन सहे. त्यादिः । अन्वया संगनिर्णयोऽपीत्यर्थः ॥ तत्रावयवशक्तिमात्रेणेति ताइवाक्यघटकपङ्कजपदनि- रूपितावयवशक्तिज्ञानजन्यकुमुदविशेष्यकप जनि कर्तृत्वप्रकारकस्मृ यैवेत्यर्थः ॥ निर्वाह इति ॥ पजनिक • र्तृत्वप्रकारककुमुदविशेष्य कशाब्दबोध संभव इत्यर्थः । कुचदत्व प्रकारकबोधजनक तात्पर्यज्ञानघटितसामय्यभा- वादिति भावः । एवंचोक्तदिशा सर्वत्र निर्वाहे रूविज्ञानस्य मणिमन्त्रादिन्यायेन निरुक्तविषयताशालिशाब्द प्रति प्रतिवन्धकत्वमप्रामाणिकमेवेत्याशयः । अत्र पङ्कजमानयेतिवाक्यविशेषघटकपङ्कज पहायोगरूढिभ्यां प- नत्वपङ्कजनिकर्तृयोगय प्रकारेण पद्मगृत्यनन्तरं पड़ो सममिव्याहृनपदार्थान्वयानुपपत्तिप्रति सन्धानस्थले कुमु- दत्वप्रकारकबोधतात्पर्येण ज्ञानकालेऽपि पुनःस्मृतपङ्कजपदात् लक्षणाज्ञानाधीनकुभुदत्वप्रकार कस्मरणशाब्दबो- धयोः उपपादनवत् तादृशस्थले तादृशतात्पर्य ज्ञानाभावकालेऽपि पुन स्मृतपङ्कजपदान लक्षणाज्ञानाधीन दिनकरीयम्. रत्वनियमादिति भावः । व्यक्तिवचनानां कि व्यक्ति तात्पर्य काणां सन्निहितपरत्वं उपस्थित विशेषपरत्व- मित्यर्थः । तथाच पद्मे तात्पर्यसत्त्वेन रूट्यप्रयोगार्थयोः परस्परान्वयवोधजनकसामध्यन्तरसत्वेन च रू. व्यर्थ एव योगार्थान्धयो न चुमुदादाविति न रूटिज्ञानस्य यौगिकार्थबुद्रौ प्रतिबन्धकत्वम् । एवं रूट्यर्थयो. गार्थयो; परस्परान्वयवोधसामग्रीस्थल एवं न कुमुदादः पनजपदात् बोधः । यत्र तु तयोः परस्परमन्वय बोधसामग्रीविरहस्तत्र कुमुदादेबोधो भवत्येव । परं तु कुमुदत्वेन रूपेण कुमुदत्वविशिष्टपङ्कजनिकर्तृत्वेन दा लक्षणया शुद्धपङ्कजानिकर्तृत्वेन तु शक्तयैवेसाह ॥ यत्र तु रूद्ध्यर्थेत्यादिना ॥ प्रतिसन्धीयत इत्यनन्तरं कु. मुदत्वेन बोधे च तात्पर्यमिति पूरणीयम् ॥ लक्षणयेत्ति ।। पङ्कजनिकर्तृकुमुदत्वेन बोधो लक्षणयेत्यर्थः । रूढ्यर्थयोगार्थयोः परस्परसामग्रीविरहोपलक्षणभेतत् । न रूट्यर्थवाधप्रति सन्धानासत्वेऽपि यत्र सामग्य- न्तरविरहस्तचापि लक्षणया कुमुदादेवोंधो भवसेव ॥ अवयवशक्तिमानेणेति ॥ मात्रपदेन लक्षणाना- रामरुद्रीयम्. मत्वावच्छिन्नपरत्वे पङ्कजपदस्य तात्पर्यविषयीभूतस्य पङ्कजनिकर्तुः पझेऽप्यभेदान्वयबोधे योग्यतासत्त्वा. तत्र भवति तादृशान्वयबोधः । यत्र तु कुमुदतात्पर्यणैव अल पङ्कजमस्तीति प्रयुज्यते तत्र पझे एत. द्देशवृत्तित्वत्य बाधितत्वेन कुमुद एव तात्पर्यनिश्चयसत्त्वात् तात्पर्यविषयस्य पङ्कजनिकर्तुः कुमुदस्य प. से भेदसत्वाद्योग्यताया विरहेण तत्र न तादृशान्वयबोध इति भावः । नन्वेतद्देशे रूढ्यर्थस्य पद्मस्य बा- धनिश्चयेऽपि पद्मकुमुदातिरिक्तपङ्कजनिकर्तृपदार्थतात्पर्यण पङ्कजनिकर्तृत्वमावतात्पर्येण वा कुमुदस्यैव वा बोधे तात्पर्य तत्र लक्षणया कुमुदबोधाभावात्तदन्थासङ्गतिरित्यतः पूरयति ॥ कुमुदत्वेनेति ॥ ते- नेति ॥ बाधः प्रतिसन्धीयत इत्यस्य सामग्रीविरहोपलक्षणत्वेनेत्यर्थः ॥ सामग्रयन्तरेति ॥ प्रामादि- कोऽयं पाठः । कारणान्तरविरह इत्येद बक्तुमुचितत्वात् । सामग्रीपदं सामनीघटककारणमात्रपरमल द्र. व्यम् । अन्तरपदं बाधाभावभिन्नपरं तच कारणं स्वर्थस्मरणादिकमेवेत्ति ध्येयम् । ननु योगरूढस्थले