पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। वयवयवार्थस्य बाधस्तत्र समुदायशक्त्या पद्मत्वेन रूपेण बोधः । यदितु स्थलपमं विजाती- यमेव तदा लक्षणयैवेति ! यत्र तु यौगिकार्थरूढयर्थयोः स्वातन्त्र्येण बोधस्तद्यौगिकरूढम् । प्रभा. नकुमुदत्वप्रकारकस्मरणशाब्दबोधयोरुपपत्त्युपपादन वोचितं कुमुदत्वस्य पङ्कजनिकर्तृत्वापेक्षया शीघ्रोप- स्थितिविषयत्वात् । एवञ्च तादृशतात्पर्य ज्ञानाभावस्थलेऽपि पङ्कजनिकर्तृत्वप्रकारकस्मृतिशाब्दबोधयोरसंभवात् तत्रावयवशक्तिमात्रेण निर्वाह इत्युक्तिरसाता । किञ्च कुमुदं पङ्कजमानथेत्यादौ व्यक्तिवचनानां स- निहितविशेषपरवामिति न्यायेन कुमुदत्वावच्छिनस्यैव परत्वावच्छिन्नापेक्षया प्रथममुपस्थितत्वेन तत्रैव योगार्थान्य यापत्तेः । नच सन्निहितविशेषपरत्यमिति माध्यम्य एकपदेन प्रथमोपस्थितपरत्वमित्यर्थः ए. वंच प्रकृते कुमुदस्य भिन्नपदोपस्थाप्यत्वान्न तत्र योमान्चियापत्तिरिति वाच्यं भाष्यस्य उक्कार्थत्वे पर जपदसमुदायापेक्षया तद्धटकपक्षपदजनिधातुडप्रत्ययानां भिन्नपदत्वेग पोऽपि योगार्थानम्बयापत्ति. प्रसशात् । तस्मादनायत्या अनुमितौ सिद्धेरिच हडिज्ञानस्य मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वमङ्गी- कृत्यैव उक्तस्थले प्रथमोपस्थितकुमुदपदार्थे पङ्कजपदयोगार्थान्वयवोधो वारणीय इत्याचे हदि विधायाहु- रित्युक्ताभिति ध्येयम् ॥ यत्र स्थलएमादावपीति ॥ अवयवशक्त्यनाश्रयपद्मवोधतात्पर्येण प्रयुक्त- पङ्कजपदरूट्यर्थस्थलाद्मादावित्यर्थः । आदिपदाचिसितपनपरिग्रहः ॥ अनयवार्थस्येति ॥ तादृशपङ्कज. पदनिरूपितावयवशक्त्याश्रयस्येत्यर्थः । बाधः अन्क्यानुपपत्तिप्रतिसन्धानं । वर्तत इति शेषः ॥ तत्र समुदायशक्त येति ॥ ताशपङ्कजपदनिरूपितसमुदायशात ज्ञानजन्यपद्मवप्रकारकर मृत्येत्यर्थः ॥ पद्म. स्वेन रूपेण बोध इति ॥ पद्मवप्रकारेणैव शाब्दबोध इत्यर्थः । नतु पङ्कजनिकर्तृत्व प्रकारेणापि शाब्दबोधः निरुक्तानुपपत्तिप्रतिसन्धानरूपप्रतिवन्धकसत्त्वेन तदभावघटितसामय्यभावादिति भावः । ननु पकनिष्ठकारणतानिरूपितपद्मनिष्टकार्यतावच्छेदकतया सिद्धपद्माव जातेः ताशकार्यताशुन्यस्थलपादिवृत्तित्वे मानाभावः अन्यथा घटादावपि तादृशजातिस्वीकारापत्तेः नच ताशकार्य ताशून्यत्वस्य घटादिसाधा. रणत्वेऽपि व्यवहारवलात् स्थलपद्मादावेव तादृशजालिः खीक्रियते न घटादौ तादृशव्यवहाराभावादिति वाच्यम् । तथा सत्ति पादं पङ्कजं मुखं पङ्कजमिति व्यवहारबलात् पादमुखादावपि तादृशजातिखी- कारापत्तेः । नचेष्टापत्तिः तेजश्शरीरावयवपादमुखादावपि तादृशपात्वसत्वेन पृथिवीत्यादिना सङ्करप्र- सङ्गात् स्थलपद्मादौ तादृशजातिने स्वीकार्येत्याशयेनाह ॥ यदि विति। विभाव्यत इति शेषः । इत्यर्थकः तुशब्दः विजातीयमेवेत्युत्तरं योज्यः । तथाच स्थलपनं विजातीयमेव इति यदि विभाव्यत इत्यर्थ: फलितः ॥ लक्षणयैवेति ॥ पद्मसादृश्यप्रकारेला स्थलपद्मबोध इति शेषः । तात्पर्यानुपपत्तिप्रयोज्यप. असादृश्यावच्छिन्नविशेष्यकपङ्कजपदनिरूपितलक्षणाप्रकारकज्ञानजन्यपञ्चसादृश्यप्रकारकस्थलपद्मविशेष्यकस्म- रणेनैवेत्यर्थः । यौगिकरूढलक्षणामाह ॥ यत्रेति ॥ यादशपदनिरूपितावयवशक्त्याश्रयस्य यादृशपदनि- रूपितरूढिशक्त्याश्रयस्य चेत्यर्थः ॥ स्वातन्उयेणेति ॥ तादात्म्यानवगादिवोध इत्यर्थः । इदंच रूद्ध्यर्थयोगार्थयोरनैश्ये प्रमाणोपन्यासाय न तस्यापि लक्षणघटकता व्यर्थत्वात् । लक्षणंतु रूढिनिरूपक- दिनकरीयम्. दरः सूचितः ॥ निर्वाहः पङ्कजनिकर्तृत्वेन कुमुदशाब्दबोधनिर्वाह इत्यर्थः ॥ पद्मत्वेन बोधः पद्मत्वे- नैव बोधः ॥ लक्षणयेवेति ॥ रून्यथतावच्छेदकपद्मत्वजातेस्तत्राभावेन रूट्या तद्बोधनासम्भवादिति भावः ॥८१ ॥ रामसदीयम् . पङ्कजनिकनभिन्नं पद्ममिति बोधस्योपगमो नोचितः । सकृदुश्चरित इति न्यायविरोधादत एव यौगिक रूढस्थले एकार्थबोध इति चेन्न । एकपदोपस्थाप्ययोगरू व्यर्थयोरभेदेनान्वयबोधे आकाङ्क्षावैचित्र्यस्येव यो. गरूढस्थले तादृशव्युत्पत्तिसकोचस्यावश्यकत्वादिति भावः ॥ मूले यत्र विति || यादृशैकानुपूयंचच्छि, न इत्यर्थः । सेनोचारणभेदेन उद्भित्पदस्य भेदेऽपि न क्षतिः । उच्चरित इति शेषः पूरणीयः ॥ स्वा.