पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-समझद्रीयसमन्विता । नच तत्कर्तृत्वमम्मदादीनां सम्भवतीत्यतस्तत्कर्तृत्वनश्वरसिद्धिः । नच शरीराजन्यत्वेन कत्र- जन्यत्वसाधकेन सत्प्रतिपक्ष इति वाच्यं, अप्रयोजकत्वात् । मम तु कर्तृत्वेन कार्यत्वेन प्रभा. एवं इश्वरच्छाकृत्यारपीति नोक्तदोष इति बोध्यम् । उक्तानुमानेन एतादशज्ञानादिसिद्धौ तत्र गुणत्वेन द्रव्य- समवेतत्वसाधन आश्रयान्तरबाधात् तदाश्रयतया ईश्वरसिद्धिरित्यभिप्रायः । सत्प्रतिपक्ष इतीति । तथा च तला दनुमितरेषानुत्पत्या कायस्वहेतुकानुमान नेश्वरसाधकमिति भावः । अप्रयोजकत्वादिति ॥ व्यभिचारशङ्कानिवतकाभावादित्यर्थः । केचित्त इदमपलक्षणं, शरीराजन्यत्वहेतो शरीररूपविशेषणस्यासिद्धि- दिनकरीयम् . व्यम् । अप्रयोजकत्वादिति । अनुकूलताभावादिति भावः । इदमुपलक्षणम् । शरीराजन्यत्वहेतोश्शरीर- रूपविशेषणस्यासिद्धिवारकस्यापि व्यभिचारावारकत्वेन व्यर्थतया, तद्विशेषणावच्छेदन व्याप्तिग्रहासंभवेन व्या- प्यत्वासिद्धेश्श्रेत्यपि इष्टव्यम् । न च व्यर्थविशेषणत्वस्याधिकोयत्या निग्रहस्थानत्वेऽपि तज्ज्ञानस्य व्याप्ति- ज्ञानप्रतिबन्धकल्वे मानाभाव इति वान्यं, तथापि गुरुधर्भस्यानवच्छेदकतया साध्यसम्बन्धितावच्छेदका- रामरूद्रीयम्. तस्तद्वयक्तित्वेन वा तस्य प्रकारत्वमसम्भवि, स्वरूपतस्तत्प्रकारकक्षाने स्वरूपतस्तद्विषयकज्ञानस्य, तव्यक्तित्व- विशिष्टप्रकारकज्ञामे च तद्वयक्तित्वविशिष्टज्ञानस्य हेतुतया, सामान्य लक्षणाजन्य ज्ञानस्य च प्रमेयत्वादिसामान्य- प्रकारकत्वनियमेन नित्यज्ञानानुमितेः पूर्व तथाविधतस्यक्तिज्ञानासम्भवेन नित्यज्ञानानुमितो भेदप्रतियोगिता- बच्छेदकतया तव्यक्तित्वभानासम्भवस्य दुष्परिह रत्वादिति । मैवम् । एकव्यक्तिमात्रवृत्तिधर्म एव प्रकृते स्वत्वम् । एकमात्रवृत्तित्वं च स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धन भेदविशिष्टान्यत्वम् । अनेन च रूपेण नित्यज्ञानानुमितेः पूर्वमपि तनिष्ठतव्यक्तित्वस्य सामान्यलक्षणया सुग्रहत्वात् । न चैवमपि तद्व्यक्ति- भेदस्य प्रतियोगिताबच्छेदक लाघवाच्छुदतद्वयक्तित्वमेव,तस्य स्वरूपतो भानानङ्गीकारे तु तद्वयक्तीतरावृत्तित्ववि शिष्टमेव तत् तथा, नतक्तोभयसम्बन्धेन भेदविशिष्टभेदवत गौरवात् , तथा च तादृशभेदाप्रसिद्धिरिति वाच्यम् । तादृशभेदस्योपलक्षणतया प्रतियोगितावच्छेदकव्यावर्तकत्वापगमात् । न चाभावप्रतियोगितावच्छेदक कोटा- चुपलक्षणतया भानानङ्गीकारात् न तथोपगमसम्भव इति वाच्यम् । प्रतियोगितासंसर्गकवुद्धावेव तथाभाना- नङ्गीकारात् , प्रकृते च तथाविधभेदविशिष्टभेदवदवच्छिन्न प्रतियोगिताकाभावस्खेनेव नित्यज्ञानभेदस्य निवेश नीय- त्वादिति सर्वमनाकुलम् । केचित्तूक्तवाक्यस्य स्वसमानाधिकरणस्वभिन्नज्ञानकं यद्यत्तदन्यत्वमेवार्थ इति नोक्ता नुपपत्तिः। नच समासान्तर्गतनां उत्तरपदार्थमात्रान्वयित्वं, न तु पूर्वपदार्थविशिष्टोत्तरपदार्थान्वयित्वं, तथासति नीलोऽप्रमेय इति वाक्यानीलप्रमेयभेदबोधापत्तिः । तथा च स्वाधिकरणावृत्तीत्यादिवाक्याटुक्तार्थलाभासम्भव इति वाच्यम् , घटानधिकरणमित्यादी घटाधिकरणभिन्नप्रतीत्यर्थ ममासान्तर्गतनजोऽपि यत्रत्तरपदं ससम्बन्धि- कपदघटितं (पदात्मक) तत्र पूर्वपदार्थान्वितस्वार्थवोधकत्वस्या यङ्गीकरणीयत्वात् , अन्यथाऽधिकरणसामान्य- भिन्नस्याग्रसिद्धया घटानधिकरणमित्यतः शाब्दबोधस्यैवानुपपत्तरित्यपि वदन्ति । एवमिति ॥ स्वाधि- करणावृत्तिस्वभिन्नेच्छाकत्वं स्वाधिकरणावृत्तिवभिन्नकृतिकत्यभिच्छाकृत्योरेकत्वमिति भावः । नन्वेवमनुमा नेन नित्यैकज्ञानेच्छाकृतिव्यक्तीनां सिद्धावपि नेश्वरसिद्धिरित्याशङ्कायामाह-एवं चेति । द्रव्यान्तरस्थ चाधादिति ॥ ज्ञानादिकं न पृथिव्यादिवृत्ति चेतनगुणत्वात् । नापि जीवात्मवृत्ति नित्यज्ञानादि- स्वात् , जीवात्मनि तु नित्यज्ञानायभावादित्येवं रीत्या व्यान्तरला बाधादिति भावः । अनुकृल. तीत ॥ शरीराजन्यत्वकृत्यजन्यत्वयारत्यन्ताभावरूपत्वेन नित्ययोव्याप्तिप्राहककार्यकारणभावरूपानुकूल- तर्काभावादित्यर्थः । तद्विशेषणावच्छेदेनेति ॥ व्यभिचारवार कविशेषणावच्छेदेनैव हेतो व्याप्तिरङ्गी- क्रियते न तु तदवारकविशेषणावच्छेदेनेति भावः । ननु साध्यवदन्यावृत्तित्वादिकमेव व्याप्तिः, तेषां च धूम धूमत्वावच्छेदेनेव नीलधूमत्वावच्छेदेनापि सत्त्वे न किंचिद्बाधकम् । वस्तुतस्तु भेदस्य सामानाधिकरण्यस्य बा