पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम यदा पक्षे साध्यानिश्चयस्तदा नासाधारण्य तत्र हेतोनिश्चयादिति वदन्ति । अनुपसंहारी घ अत्यन्ताभावाप्रतियोगिसाध्यकादिः अनेन च व्यतिरेकव्याप्तिज्ञानप्रतिबन्धः क्रियते । वि- रुद्धस्तु साध्यव्यापकीभूताभावप्रतियोगी अयं च साध्याभावपहसामप्रीत्वेन प्रतिबन्धकः । सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभावसाधकः अत्र हेतुरेक एवेति विशेष: साध्याभावसा- प्रभा. भासत्वे प्रमाणसत्त्व एव एकहेत्वाभासत्वानुपपत्तेर्दोषत्वं तत्रैव प्रमाणाभावात् तस्य प्रागुफ्पादितत्वात् । साध्य. कादिरित्यादिपदात अत्यन्ताभावाप्रतियोगिसाधनपरिप्रहः । तत्र सर्वपक्षकस्थले पक्षकदेशदृष्टान्तेन घटपक्ष. कस्थले पटादिदृष्टान्तेनान्वयव्याप्तिप्रसंभवादाह ॥ अनेन चेति ॥ केचित्तु साधारणेनाव्याभिचारांशप्रह- स्यासाधारणेन सामानाधिकरण्यांशप्रहस्यानुपसंहारिणा च व्यतिरेकव्याप्तिज्ञानस्य प्रतिबन्धात् व्याप्तिहानप्र. तिबन्धकत्वरूपदूषकताबीजैक्येन त्रयाणामेकहेत्वाभासत्वमुपपद्यत इत्याहुः तदसत् दूषकताबीजैक्यमात्रेण एकहेत्वाभासत्वे बाधसत्प्रतिपक्षविरुद्धानामपि दूधकताबी जैक्येन एकहेत्वाभासत्वापत्तेः साध्याप्रसिदपादेरपि व्यातिज्ञान प्रतिबन्धकत्वरूप दूषकताबीजैक्येनानकान्तिकत्वापत्तेश्च तस्माद्दूषकताबीजैक्यं नैकहेत्वाभासत्वनि. यामकं परन्तु स्वतन्वेच्छेन महर्षिणा गौतमादिना बाधादीनां दूधकताबीजैक्येऽपि पृधात्वाभासत्वमलीक: तम् । एवं साध्याप्रसिद्धयादरप्यनैकान्तिकानन्तर्गतत्वमङ्गीकृतं साधारणादित्रयाणां च एकहेलाभासत्वमे- वाङ्गीकृतमिति तदनुरोध एव एकहेत्वाभासले हेत्वाभासान्तरत्वे वा बीजमिति युक्तम् ॥साध्यव्यापकी. भूतेति ॥ साध्याभावनिरूपितव्यतिरेकव्याप्तिविशिष्टहेतुरित्यर्थः । तथाच साध्याभावव्याप्तिविशिधहेतुमत्प- क्षस्यैव साप्रतिपक्षतया तयोर्भेद इति भावः । नन्वेतस्य विरुद्धत्वे तस्य साध्यामाववत्पक्षरूपत्वाभावात् साध्याभावव्याप्यहेतुविशिष्टपक्षरूपत्वाभावाञ्च तज्ञानस्य प्रतिबन्धकत्वासंभवेन कथं दोषत्वमत आह ।। अयं चेति ॥ तथाच निरुतविरुद्धविषयकज्ञानस्य साध्याभावनिरूपितध्याप्तिप्रकारकहेतुविशेष्यकज्ञानरूपत- या तत्प्रकारकानुमितिकरणत्वेन तादृशव्याप्तिज्ञानघटितसमुदायस्य तत्साभप्रीत्वेन प्रतिवन्धकत्वं उपपद्यन इति भावः । नन्वेवं साध्याभावव्याप्तिविशिष्टहेतुरेव सत्प्रतिपक्षोऽस्तु लाघवात् नतु तादृशहेतुविशिष्टपक्षः गौरवात् उक्तरीत्या तज्ज्ञानस्य परस्परानुमितिप्रतिबन्धकत्वसंभवात् एवं च सति कथमन यो द इति यदि ब्रूयात्तदायाह || सत्प्रतिपक्षे त्विति ॥ ननु विरुद्धज्ञानस्य साध्याभाव प्रहसामप्रीत्वेन प्रतिबन्धकत्वेऽपि विरुद्धत्वावच्छिन्नविषयताशालिनिश्चयत्वेनाप्रतिबन्धकत्वात् तस्य हेत्वाभासत्वानुपपत्तिः तदवस्थैव । नच साव्याभावनिरूपितव्याप्तिविशिष्टहेतुविशिष्टपक्ष एव विरुद्धः तज्ज्ञानस्य तादृशनिश्चयत्वेन प्रतिबन्धकत्वासंभ- बात् न तस्य हेत्वाभासत्वानुपपत्तिरिति वाच्यम् तथा सति सत्प्रतिपक्षविरुद्धयोः एकहेत्वाभासरूपत्वेन भि. नहेत्वाभासत्वानुपपत्तिरित्याशङ्कय भेदकान्तरं प्रदर्य पारहरति । प्रतिहेतुरिति ॥ स्वसाध्यविरुद्धसाध्या दिनकरीयम् . ध्यवति पक्षे । साधारणादित्रयाणामेकहेत्वाभासत्वानुपपत्तिरस्वरयो वदन्तीत्यनेन सूचितः ॥ व्यतिरेकव्या. प्तिग्रहप्रतिबन्ध इति ॥ केवलान्वयिसाध्य के चान्वयव्याप्तिज्ञानादेवानुमितिरिति भावः । नन्वेवं सा- ध्याभावसाधकातू सत्प्रतिपक्षाविरुद्धस्य भेदो न स्यादत आह ॥ सत्प्रतिपक्षे स्विति ॥ प्रतिहेतुः प्र. रामरुद्रीयम्. धारणा बोध्यः तदभावज्ञानस्यैव तज्ज्ञान प्रतिबन्धकत्वादिति ध्येयम् ॥ एकहेत्वाभासत्वानुपपत्तिरि- ति ॥ निश्चितसाध्यवदवृत्तित्वज्ञानस्य नीलघटाभावज्ञानस्य घटवत्ताज्ञान इव साध्यसामानाधिकरण्यज्ञाने प्रति. बन्धकताविरहेण दूषकताबीजाभावेनासाधारणस्य हेत्वाभासत्वानुफ्पत्तिरिति भावः । ननु केवलान्वायसाध्य. कहेतोर्दुटत्वे तत्साध्यकानुमित्युपपत्तये व्यापकसामानाधिकरण्यमेव व्याप्तिरिति नैयायिकसिद्धान्तो विरुध्यत इत्याशङ्कयाह ॥ व्यतिरेकेति ॥ प्रतिबन्धकपदं प्रतिबन्धकप्रहविषयार्थकं तस्य च केवलान्वयिसाध्यशब्दा. र्थेऽत्यन्ताभावाप्रतियोगिसाध्येऽन्वयः ॥ भेदो न स्यादिति ।। यद्यपि साध्याभावव्याध्यवान्पक्षः सत्प्रति.