पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् न्धिका एवं परामर्शानन्तरं विना प्रत्यक्षेच्छा पक्षादेः प्रत्यक्षानुत्पत्तेः प्रत्यक्षेच्छाविरहविशि. टानुमितिसामग्री भिन्नविषयकप्रत्यक्षे प्रतिबन्धिकेति संक्षेपः ॥ ७० ॥ प्रभा. एवमित्यादि ॥ अनुमितिसामग्रीति । अनुमितिसामध्येवेत्यर्थः । तन्निष्टलौकिकविषयताशालिप्रत्यक्ष प्रति प्रत्यक्षेच्छाविरहविशिष्टतदन्यनिष्ठविधेयताशाल्यनुमिति सामग्री प्रतिबन्धिका नत्वनुमितीच्छाविरहावशि- टतदन्यनिष्ठलौकिकविषयत्ताशालिप्रत्यक्षसामग्री तन्निछविधेयत्ताशाल्यनुमितौ प्रतिबन्धिकेत्ति फलितार्थः । सथाच तनिष्ठविधेयताकानुमिति प्रति अनुमित्साविरहविशिष्टतन्निष्ठलौकिकविषयताशालिप्रत्यक्षसामन्याः प्र. सिवन्धकत्वानोक्तानुपपत्तिरिति भावः । केचित्तु तादृश सिद्धथभावस्य पक्षताले समान विषयक प्रत्यक्षसामग्री- फाले कुप्तकारणबला दनुमित्यापत्तिवारणाय उपाध्यायाः सिद्धिसमानविषयकप्रत्यक्षसामन्योरन्यतरत्वेन प्रति- बन्धकत्वं तादृशान्यतरत्वावच्छिन्न प्रतियोगिताकाभावस्य पक्षतावं चाहीकुर्वन्ति तन्मतं दूषयितुं समानवि. षयकप्रत्यक्षतामयाः पृथक् प्रतिबन्धकत्वमाह अत्रेदं वोध्यमित्यादिना ॥ स्वातन्येति ॥ पक्षताकु- क्ष्यप्रविष्टत्वेनेत्यर्थः । शाब्दसिद्धौ सयामशाब्दज्ञानं जायतामितीच्छायामनुमितेहपादासिद्धावनुमितिगोचरे. च्छारखेन तादृशेच्छाकाले प्रत्यक्षसामग्रीसत्वेऽनुमित्यनुत्पादान सामग्यामनुमितित्वप्रकारकेच्छात्पेन उत्तेजकत्वस्यावश्यकतया एकरूपेण उत्तेजकत्वासंभवात् एवं सिसाधयिषाविरहस्य सिद्धौ समवायघटित- सामानाधिकरण्यप्रत्यासत्त्या विशेषणत्वं वक्तव्यं चक्षुस्संयोगरूपसामन्यां तु स्वाश्रयचक्षुसंयुक्तमनःप्रति. योगिकविजातीयसंयोगघटितवामानाधिकरण्येनेकरूपेण तयोः प्रतिबन्धकत्वासंभवादित्याहुः तदसत् अनु. मितिसामान्य प्रति सिसाधयिषाचिरविशिष्टसिद्धिप्रत्यक्षसामप्यन्यतरत्वावच्छिन्नाभावस्य कारणत्वं तदा स्यात् सर्वत्र यदि तादृशान्यतरत्वावच्छिन्नाभावः प्रसिद्धस्यात् तदेव न । तथाहि गुरुत्वाद्यतीन्द्रियविधेय- कानुमिता गुरुत्वादिनिष्टलौकिकविषयताशालिप्रत्यक्षाप्रसिद्धया तादृशप्रत्यक्षजनकसामग्रीसिद्धयन्यतरत्वाव- छिन्नप्रतियोगिताकाभावरूपपक्षतायाः सुतरामप्रसिद्धत्वेन तनानुमित्य नुत्पत्तेः । नच तादृशप्रत्यक्षाप्रसिद्धावपि घटादिनिष्टलांकिकविषयताशालिप्रत्यक्षसामन्याः प्रसिद्धत्वेन तादृशसामग्रीगुरुत्वादिसिद्धयन्यतरस्यावच्चि- भाभावरूपपक्षसायाः प्रसिद्धत्वेन तद्वलादेव गुरुत्वायनुमित्युत्पत्तिसंभव इति वाच्यम् । अनुमितिसामान्या. प्रतिबन्धकप्रत्यक्षसामग्याः अनुमितिसामान्य कारणपक्षताप्रतियोगिकोटौ निवेशे मानाभावादन्यथानुमिति- सामान्याप्रतिवन्धकत्वेन तादृशसामप्रीतुल्यगगनादि प्रतियोगिकोटौ निवेश्य तादृशान्यतमत्वावच्छिन्नाभाव- स्यापि पक्षताविधया कारणत्वापत्तेः । नचानुमितिसामान्ये ईदृशपक्षतायाः अकारणत्वेऽपि सेन्द्रियपदार्था- नुमितो ईदृशपक्षता हेतुरास्तामिति वाच्यं । अतीन्द्रियपदार्थानुमितौ एकस्याः पक्षताया: कारणत्वावश्यकतया कार्यकारणभावद्वयापत्तेः तादृशानुमितौ कारणत्वेन कृतपक्षतयैव सेन्द्रियपदार्थानुमितेरुत्पत्तिसंभवेन निरुका. न्यतराभावस्य पक्षतावे मानाभावात कारणसमुदायत्वरूपसामग्रीत्वावच्छिन्नस्यैकसंबन्धेनात्मनि पक्षे चावर्त. दिनकरीयम् सिद्धौ समवायघटितसामानाधिकरण्येन चक्षुःसंयोगादिरूपसामय्यां तु स्वाश्रय चक्षुःसंयुक्तमनःप्रतियोगि. कृविजातीयसंयोगघटितसामानाधिकरण्येनेत्येकरूपेण तयोः प्रतिबन्धकत्वासम्भवादित्याशय इति दिक् । नन्वनुमिति प्रति प्रत्यक्षसामन्याः स्वातन्त्र्येण प्रतिबन्धकत्वे भिन्नविषयेऽपि प्रत्यक्षसामग्रीकालेऽनुमि- मपत्तिः । मन्मते तु अनुमानातिरिक्तप्रकृतसाध्यसाधकमानत्वेन पक्षताकुक्षौ तस्याःप्रवेशेनोकापत्त्यनव. काशादत आह ॥ एवमिति ॥ अनुमितिसामग्री प्रतिबन्धिकेति । तथा च भिन्नविषयकानुमिति- रामरुद्रीयम्. स्वस्य कल्पनीयत्वाददोषः ॥ चक्षुस्संयोगादिरूपेति ॥ यद्यपि चक्षुस्संयोगमात्रं न सामग्री तथाप्येक. क्षणवृत्तित्वसम्बन्धेन तत्पुरुषीयविशेषणज्ञानादिविशिष्टचक्षुःसंयोगस्य सामग्रीत्वसम्भवो बोध्यः ॥ विजा.. तीयेति ॥ परात्ममनःसंयोगव्यावृत्तवैजात्यावच्छिन्नेत्यर्थः ॥ स्वातन्त्र येणेति ॥ पक्षताकुक्ष्यप्रविष्टस्येने- त्यर्थः । प्रत्यक्षसामप्रीत्वमात्रेणेति यावत् ॥ अनुमानातिरिक्तेति ॥ निषाधयिषाविरहविशिष्टसिद्धपन.