पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्कावली प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । राहिमानयामिति ज्ञानं तलासत्यामनुमित्सायां पुरुषत्वस्य प्रत्यक्षं भवति न त्वनुमितिः अतोऽ, नुमित्साविरह विशिष्टसमानविषयकप्रत्यक्षसामग्री कामिनीजिज्ञासावत्स्वातन्त्र्येण प्रतिब- प्रभा. शालितादृशनिश्चयः प्रतिबन्धक इति भावः ।। सिद्धिमात्र विरोधीति ॥ तथाच प्राचीनमते पर्वतत्वाव- च्छिन्नयत्किंचित्पर्वतान्यावृत्तिविशेष्यताशालितादृशानुमिति प्रति पर्वतत्वावच्छिन्नपर्वतनिष्ठविशेष्यताशालिता. दृशनिश्चयः प्रतिबन्धकः नवीनमते पर्वतत्वावच्छिन्नविशेष्यतानिरूपितसंयोगपर्याप्तसांसर्गिकविषयताशा. लितादृशानुमिति प्रति पर्वतत्वावच्छिन्नविशेष्यतानिरूपितसंयोगनिष्ठसांसर्गिकविषयताशालितादृशनिश्चयः प्रतिबन्धक इति भावः । नन्वयं पुरुषो न वेति सशंयोत्सरं पुरुषत्वध्यायकरादिमानयमिति विशेषदर्शने पु- रुषत्वविधेयकानुमितिः कथं न जायते पुरुषत्वप्रत्यक्षसामच्या इव पुरुषत्वानुमितिसामग्र्या अपि सत्त्वादि- त्याशङ्कायां पक्षतादिरूपकारणसत्त्वेऽपि प्रतिबन्धकान्तरसत्वान्नानुमितिः किंतु प्रत्यक्षमेवेति समाधत्ते ॥ इदन्तु बोध्यमित्यादिना ॥ पुरुषत्वस्य प्रत्यक्षं संभवतीति । अयं पुरुषो वा न वेति संशयो- सरकालीन पुरुषत्वप्रत्यक्षानुसरणं तत्काले अनुमितिसामय कल्पनाप्रयुक्तलाघवाय तत्प्रत्यक्ष विशेष दर्शनतया हेतुभूतस्य व्याप्यदर्शनस्यैव परामर्शरूपत्वात् वह्नयादिप्रत्यक्षे तु वहिसंयोगादिरूपवहिप्रत्यक्षसामग्रीकाले वहिव्याप्यधूमवान् पर्वत इति परामर्शस्य कल्पनीयतया प्रयासाधिक्यापत्तेः ॥ कामिनीजिज्ञासावदिति ॥ कामिनीजिज्ञासाया प्राह्याभावाद्यनवगाहित्वेऽपि तादृशजिज्ञासात्वेन यथा प्रतिबन्धकता तथा तादृशप्रत्यक्ष- सामथ्या अपि प्राधाभावाद्यनवगाहित्वेऽपि तादृशसामग्रीत्वेन प्रतिबन्धकतेत्यर्थः । ननु अनुमितौ प्रत्यक्ष- सामय्याः प्रतिबन्धकत्वे भिन्न विषयेऽपि घटादिप्रत्यक्षसामग्रीकाले वयाचनुमितिरपि न स्यादत आह ।। दिनकरीयम्. टूषयितुं प्रत्यक्षसामग्रयभावस्य पक्षताकुक्ष्यप्रवेशे प्रत्यक्षसामग्रीकाले कथं नानुमित्तिरित्युत्कटशिष्यजिज्ञा- सानुत्पादार्थ प्रथमतः स्वसिद्धान्तमाह ॥ इदं तु बोध्यमित्यादिना ॥ संशयोत्तरप्रत्यक्षं प्रति हेतुभूतस्य विशेषदर्शनस्य सत्त्वादिति भावः । एतादृशप्रत्यक्षसामश्रीविशेषपर्यन्तानुधावनं च तद्विषयेऽनुमितिसामग्री- सम्पत्तिदर्शनार्थं अन्यथा स्वातन्त्र्येणानुमितिसामग्रीप्रदर्शनेन प्रयासाएत्तेः ।। स्वातन्त्र्येणेति ॥ पक्षताकु- ध्यप्रविष्टत्वेनेत्यर्थः । शाब्दसिद्धौ सत्यामशाब्दज्ञानं जायतामितीच्छायामनुमितरुत्पादासिद्धावनुमितिगोचरे- च्छात्वेन तादृशेच्छाकाले प्रत्यक्षसामग्रीकालेऽनुमित्यनुत्पादेन सामय्यामनुमितिःवनकारकेच्छात्वेनोत्तेजक- लस्यावश्यकतया एकरूपेणोत्तेजकत्वासम्भवात् एवमुभयन सिषाधयिषाविरहस्य नैकसम्बन्धेन विशेषणत्वं रामरुद्रीयम् . ति ॥ तेनेति ॥ ननु वड्यादौ चक्षुःसन्निकर्षदशायां वहिव्याप्यधूमवान्पर्वत इति ज्ञानवतो वहे प्रत्यक्षं नानु- मितिरित्येव मूले कुतो नोक्तं किं संशयोत्तरप्रत्यक्षस्थलानुरोधेनेत्याशङ्कानिरसितुमाह ॥ एतादृशेति ॥ तद्वि. षये प्रत्यक्षविषये । विषयित्वं सप्तम्यर्थः तस्य चानुमितावन्धयःतथा च प्रत्यक्षविषयसाध्यविषयकानुमिति. सामग्रीप्रदर्शनार्थमित्यर्थः ॥ स्वातन्त्र्येणेति ॥ प्रत्यक्षसामग्दनन्तर्गतत्वेनेत्यर्थः ॥ प्रयासापत्तरिति ॥ एकसामग्रीप्रदर्शनेनैवोभयसामग्रीप्रदर्शनोपपत्तौ पृथक् पृथक् सामग्रीप्रदर्शनस्यानुचितत्वादिति भावः । ननु पक्षताकुक्ष्यप्रविष्टत्वेन प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वे किं लाघवं प्रत्युत पक्षताकुक्षिप्रविष्टत्वेन प्रतिबन्धक- त्व एव लाघवं एकप्रतिबन्धकतयैवोपपरित्याशङ्कानिराकर्तुमकप्रतिबन्धकतैन न सम्भवति भिन्नभिन्न भणैवे. च्छायाः सिद्धौ सामग्याञ्चोत्तेजकत्वस्य वाच्यत्वादित्याह ॥ शाब्देत्यादि ।। नील इत्यादिवाक्यजन्यशा : त्यर्थः ॥ पर्वतो वहिमानित्यादिवाक्यजन्यसिद्धेः अप्रतिबन्धकत्वादिति बोध्यम् ॥ अनुमितिगोचरेच्छा- त्वेनेति ॥ यथोक्तानुमितिगोचरेच्छानिष्ठतष्यक्तित्वेनेत्यर्थः । उक्ताननुगतेच्छानां तब्यक्तित्वेनैवोत्तेजकतायाः पू. वमुक्तत्वादिति ध्येयम् ॥ अनुमित्यनुत्पादेनेति ॥ प्रत्यक्षेणैव तादृशेच्छाया विषयसिद्धिसम्भवादिति भा. वः ॥ अनुमितित्वप्रकारकेच्छात्वनेति ॥ यद्यप्येवं सति वहिप्रत्यक्षसामग्रीकाले प्रत्यक्षातिरिकं ज्ञान जायतामितीच्छया बहेरनुमितिर्न स्यात् तथापि प्रत्यक्षान्यत्वप्रकारके छात्वेनापि प्रत्यक्षसामप्रथा उत्तेजक 64