पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५०७ अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कालात्ययापदिष्टश्व हेत्वाभासाश्च पञ्चधा ।। ७१॥ हेत्वाभासान् विभजते ॥ अनैकान्त इत्यादि । तल्लक्षणं तु यद्विषयकत्वेन ज्ञान- प्रभा. मानतया तब्रटितान्यतरत्वावच्छिन्नस्थैकसंबन्धेन प्रतिबन्धकत्वासंभवेन प्रतिबन्धकतावच्छेदकसंबन्धाप्रसि- द्धया तत्संबन्धावच्छिन्नान्यतरनिष्ठप्रतियोगिताकाभावस्य सुतरामप्रसिद्धत्वेन तस्य पक्षतात्वासंभवाच्च तस्मा. ताशाभावस्य पक्षतात्वं नोपाध्यायमतासिद्धं तथात्वेऽप्रसिद्धयादिदूषणं परित्यज्य सिद्धी सामय्यां च एकरूपेण सिसाधयिषाया उत्तेजकत्वासंभवरूपदोषकथनमुभयत्र सिसाधयिषाविरहस्य एकसंबन्धेन विशेषणत्वासं. भवरूपदोषकथनं च तन्मते उक्तदोषास्फूर्तिप्रयुक्तमेव तथात्वे वा इदंतु बोध्यमित्यादिमुक्तावलीअन्धस्यो- पाध्यायमतखण्डनपरत्वं न संभवति इति तन्मते विश्वनाथपञ्चाननेन तादृशदोषाभावानामप्यनुक्तत्वेन तन्म- सखण्डनज्ञापकाभावात् । नच पक्षताकुक्ष्यप्रविष्टत्वेनेत्यर्थः स्वातन्त्र्येणेति प्रन्थ एवं ज्ञापक इति वाच्यं स्वातन्त्र्येणेति ग्रन्थस्य तदर्थकत्वे बाधबुद्धिवदित्यपहाय कामिनी जिज्ञासावदिति सामग्या: कामिनीजि- ज्ञासासाम्यप्रतिपादनवैयापत्तेः । तस्मादिदन्तु वोध्यमित्यादिप्रन्धस्य उकरीत्यार्थवर्णनं संप्रदायविरुद्धमिति प्रतिभाति । ननु तनिष्टविधेयताकानुमिति प्रति अनुमित्याविरहृविशिष्टतनिष्टलौकिकविषयताशालिप्रत्यक्षस. मनीत्वेन प्रतिबन्धकत्वं न संभवति कार्याधिकरणे आत्मनि पक्षे वा सामप्रीत्वावच्छिन्नम्यासत्त्वादत आह ॥ संक्षेप इति । तथाच कालिकसंबन्धेन तत्पुरुषीयतादृशानुमिति प्रति तत्पुरुषीयतादृशप्रत्यक्षजनकसामग्री- स्वावच्छिन्नस्य कालिकसंबन्धेन प्रतिबन्धकत्व संभवान्न काप्यनुपपत्तिरिति भाव इत्यास्तां विस्तरः ॥ ७० ॥ हेत्वाभासानिति ॥ सद्धेतुनिरूपणानन्तरं विजयलक्षणैककार्यकारित्वसङ्गत्या प्रसङ्ग सङ्गत्या वे. त्यादिः । ननु सद्धत्वसदेत्वोव्याप्तिपक्षधर्मत्वरूपसत्त्वदोषरूपासत्त्वयोः कथमेककार्यकारित्वमिति चेन्न व्याप्ति- पक्षधर्मतावत्त्वरूपसत्त्वेन हेतुनिरूपणे तेन रूपेण हेतोाने जाते तदनन्तरं सभायां तादृश हेतुप्रयोगेन यथा विजयः दिनकरीयम् . सामग्यभावघटितप्रत्यक्षसामन्यास्तत्राभावान पूर्वोक्तस्थलेऽनुमित्यनुपपत्तिरिति भावः । यद्वाऽनमितिसा. मप्री प्रतिबन्धिका अनुमितिसामम्येव प्रतिबन्धिका न तु भिन्ने विषये प्रत्यक्षसामन्यनुमितौ प्रतिबन्धिके. त्यर्थः । तथा च प्रत्यक्षसामग्याः समानविषयकानुमिति प्रत्येव प्रतिवन्धकतया न पूर्वोक्तानमित्यनुपपत्ति. रिति भावः ॥ ७० ॥ हेत्वाभासानिति ॥ विजयलक्षणककार्यकारित्वमत सङ्गतिर्बोध्या । ननु लक्षणात्मकसाधारण- धर्मज्ञानं विना विशेषे जिज्ञासानुदयाद्विभागी निष्प्रयोजक इत्यतो लक्षणमाह ॥ तल्लक्षण विति ॥ रामरुद्रीयम्. मित्युपधायकातिरिकासिद्धयुपधायकान्यतरत्वेन प्रतिवन्ध कत्वादिति पर्यवसितोऽर्थः । यथाश्रुते सचक्षुषोऽनु- मित्यनुपपत्तेरिति बोध्यम् । ननु प्रत्यक्षसामग्री यथा भिन्नविषयकानुमितिसामप्रथभावधदिता तथा भिन्नवि- घयकानुमितिसाममयपि प्रत्यक्षसामनयभावघटितेति भिन्नविषयकप्रत्यक्षानुमित्योस्सामग्रीसमवधानदशाया- मनुमित्यनुपपत्तिरशक्यसमाधिरेवानुमिति अति प्रत्यक्षसामप्रीत्वेन प्रतिबन्धकतया तदभावघटितभिन्न विषय- कानुमितिसामप्रयभाषादित्यंत आह ॥ यद्वेति ॥ ७० ॥ विजयलक्षणेत्यादेः सद्धेतुनिरूपणानन्तरमसद्धे तुनिरूपण इत्यादिः । वादिनो विजयस्वरूपं यदेकं कार्य तत्का. रित्वं तत्प्रयोजकत्वमित्यर्थः । स्वोकहेतोस्सद्धेतृत्वप्रतिपादनेनेव परोक्तप्रतिहेतो?ष्टत्वप्रतिपादनेनापि कथा- या वादिनी विजयादिति भावः । विजयेत्युपलक्षणमनुमितिलक्षणतत्वनिर्णयोः यतैकं कार्यमित्यपि बोध्यम् ॥ साधारणधर्मज्ञानं विनेति ॥ तद्धर्मावान्तरधर्मप्रकारकज्ञानगोचरेच्छां प्रति तद्धर्मज्ञानस्य हेतुत्वादिति भावः ॥ नियोजक इति ॥ नास्ति प्रयोजको यस्मिन्निति व्युत्पत्त्या प्रयोजकशून्य इत्यर्थः । विभागे शि.