पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । ३९ प्रभा. लभ्यते, यथा वृक्षप्रयोजकस्य बीजादुत्पन्नस्य प्राथमिकदर्शनविषयस्याङ्कुरत्वं तथा संसारवृक्षप्रयोजकस्य परमाणु- भ्यां उत्पन्नधणुकस्यापि प्रसिद्धारसाम्यात् अङ्करशब्देन द्वयणुक लक्ष्यते । तथा च द्वशणुक सकर्तृकं कार्यवादि- त्यनुमानं फलितमिति नोक्तदोषः । ननु द्वयणुकत्वं न जाति: पृथिवीत्वादिना सार्यात् किन्तु नित्यसमवेतद्रव्य - त्वमेव । एवं च नित्यसमवेतत्वविशिष्टद्रव्यत्वं द्रव्यत्वविशिष्टनित्यसमवेतत्वं वेत्यत्र विनिगमनाविरहात गारवा. मवेत्यत आह-आदीति ॥ आदिना मेधादिपरिग्रहः । तथा च मेघस्सककः इत्यायनुमानं लब्धं । तब भेषत्व जातेः समवायेन पक्षतावच्हेन्दकत्वानोक्तदोषावकाश इति भावः । माध्यं सककत्वं, न कर्तजन्य - दिनकरीयम्. त्वात् । प्रागभावप्रतियोगित्वरूपकार्यत्वस्यैव हेतुत्वेन तयोरेक्याभावात् । सा यं च न म्योपादानगोचरापरोक्ष- रामरुद्रीयम् . रैयादिति दृषणाभिधानादिति श्येयम्-स्वरूपसम्बन्धरूपेति ॥ यद्यपि स्वरूपसम्बन्धरूपकार्यता- व्यक्तानां तत्तद्रयक्तिमात्रपर्यवसितत्वेन नानुगतपक्षतावच्छेद कलाभस्तथाप्यन्यतमत्वेनानुगतीकृतानों पक्षता- वच्छेदकत्वमिति भावः । --प्रागभावप्रतियोगित्वेति ॥ न च प्रतियोगित्वस्यापि स्वरूपसम्बन्धस्वरूपतया तत्तद्धमिव्यक्तानामवयन पक्षनायच्छेदकहेत्वोरक्यापरिहार इति वाच्यम् । 'अभावविरहात्मत्वं वस्तुनः प्रति- योगिता' इत्याचार्यमताभिप्रागानुभारेण, संयोगेन घटाभावात्समवायेन घटाभावस्य भेदः प्रतियोगिताभेदादेव समर्थनीयः प्रतियोगिप्रतियोगितावच्छेदकयोस्क्यान , स्वरूपसम्बन्धरूपप्रतियोगितायाः प्रतियोगिघट- व्यक्तेरे क्येन भेदो दुरुपपाद एवेति तयोर्भेदो न स्यादतो विपयत्वस्येव प्रतियोगित्वस्यापि पदार्थान्तरत्वमे- वाङ्गीकरणीयं सप्तपदार्थविभागम्तु तत्त्वज्ञानोपयोगिज्ञानविषयाणामेवेति न तद्विरोधोऽपीति नवीन गताभिप्राये- पतिदभिधानम् । वस्तुतस्तु प्रागभावप्रतियोगित्वरूप कार्यत्वस्य हेतुत्वादिति प्रन्थस्य प्रतियोगिताख्यस्वरूप. सम्बन्धन प्रागभावस्य हेतुत्वादित्यर्थ तात्पर्यान्न कोऽपि दोष इति ध्येयम् । वस्तुतस्तु क्षित्यकुरादिकमिति मूलस्य क्षितित्वस्याङ्कुरत्वस्य तद्धटत्वस्य पक्षतावच्छेदकले तात्पर्य, तत्र क्षितिस्सकर्तृकेति प्रथमप्रयोगे क्षिति- त्वसामानाधिकरण्येन साध्यसिद्धेरुद्देदयत्वे घटादाबंशतः सिद्धमाधनं, पक्षतावच्छेदकावच्छेदेन तथाल्वे तु परमाणो बाध इत्यतोऽङ्गुरत्वस्य पक्षतावच्छेदकत्वानुधावनम् । तत्र च सामानाधिकरण्येन साध्यसिद्धरुद्देश्यत्वे वाप्यकुरे जीवीय कृतिसाध्यत्वाभावेन नांशतः सिद्धसाधनं न वा बाधो नित्याङ्करस्याभावादिति भावः । ननु क्षितित्वावच्छेदेनाङ्कुरत्वावच्छेदेन चा कार्यत्वहेतुना सकर्तृकत्वानुमितिर्न सम्भवति, कार्यल्वरूपहेतोरप्र- योजकत्वात् । न च कार्यत्वं यदि कृतिजन्यत्वव्यभिचारि स्यात्तदा कृतिजन्यतावच्छेदकं न स्यादि. त्यनुकूलतर्कसत्त्वान्नाप्रयोजकत्वमिति वाच्यम् । कृतित्वेन कार्यत्वेन कार्यकारणभावे मानाभावेनोक्ततका- नवतारात् । न चान्वयव्यतिरेकावेव मानमिति वाच्यम् । कुलालकृतिसत्त्वे घटस्तदभावे घटाभाव इति विशिघ्यवान्वयव्यतिरेकग्रहात् , तन्तुवायकृतिकाले घटापत्तिवारणाय कुलालकृतित्वेन घटत्वेन विशिष्य कार्य- कारणभावस्यावश्यकत्वेन सामान्यतः कृतित्वेन कार्यत्वेन कार्यकारणभाचे मानाभावात् । न च यदिशेषयो- रिति नियम एवं मानमिति वाच्यम् , तस्याप्यप्रयोजकत्वात् । न च कार्यसामान्याभावे कुलालादिकृत्यभाव- कूटस्य प्रयोजकत्वे गौरवं, कृतित्वावच्छिन्नाभावस्यैकस्य तथावे लायचं, तच्च कृतित्वस्य कारणतावच्छेद- कत्वमन्तरा न सम्भवति, कारणतावच्छेदकधर्मावच्छिन्नाभावस्यैव कार्यतावच्छेदकधर्मावच्छिन्नाभावप्रयोज- कत्वात् तथा च लाघवमूलक एव यद्विशेषयोरित्यादिन्याय इति वाच्यम् । कारणतावच्छेदकधर्मावच्छिन्नाभाव एव कार्याभावे प्रयोजक इति न नियमः, किं तु स्वरूपसम्बन्धम्पप्रयोजकत्वं प्रतीत्यनुरोधेन लध्वनतिप्रसत्ता- धर्मावच्छेदेन कल्प्यत इति नियमः, तथा च लाघवादेव कारणतानवच्छेदककृतित्वावच्छिन्न प्रतियोगिताकैका- भावस्य कार्याभावप्रयोजकत्वं, कृतित्वेन कार्यत्वेन कार्यकारणभावमन्तरापि सूपपादमेवेति तत्र प्रमाणाभाव एवेत्यभिप्रेत्यादिपदमुपात्तम् । तेन सर्गाद्यकालीनघटनिष्टतद्व्यक्तित्वावच्छिन्नस्योपसंग्रहात्तद्वयक्ती कुलालकृति- जन्यत्वस्य साधनीयत्वात , कुलालकृतित्वेन घटत्वेन कार्यकारणभावसत्त्वेन तत्राप्नयोजकत्वाशङ्काविरहादिति