पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् मानं लिङ्गमनुमितिकरणमिति वदन्ति तद्पयति ।। ज्ञायमानमिति | लिङ्गम्यानुगिन्यकरण- स्वे युक्तिमाह ।। अनागतादीति । यद्यनुमितो लिङ्गं करणं स्यात्तदाऽनागतेन लिङ्गेन वि- नष्टेन चानुमितिर्न स्यादनुमिति करणस्य लिङ्गस्य तदानीमभावादिति ॥६६॥ ६७ ॥ प्रसा. ध्यकज्ञानप्रकारताविशिष्टव्याप्तेः करणत्वं न संभवति तस्याः साक्षात्संबन्धेन पक्षनिष्ठत्वाभावान किन्तु व्या- प्तिप्रकारकलिङ्गविशेष्यकज्ञानस्य व्याप्तिप्रकारकवर्तमानग्रहविशेष्यताविशिलिस्य वेत्यत्र विनिगमकाभा- वान तादृशालिङ्गस्यापि करणत्वमक्षतामति भावः ॥ लिस्य तदानीमभावादिति ।। अत्रातीतादिलि. अकानुमितेरेय तैरनभ्युपगमात् अतीतादिलिसकस्थलेऽनुमित्यनुत्पत्ती तेयामिष्टापत्तिरेव । किंच वर्तमान ग्रह विशेष्यताविशिष्टालिकस्यैव तेषां मते करणतया परामर्शस्त मानसप्रत्यक्षात्मकस्य लिङ्गजन्यत्त्वाभावेऽपि वि. शेषणतावच्छेदकप्रकारकनिर्णयविधया विशेषणीभूतव्यातिप्रकार कज्ञान जन्यत्वेन तादृशविशिष्टलिजन्यत्वस्या. दिनकरीयम्. स्मरणात्मकारामर्श व्याप्तिज्ञानस्य व्यभिचार इत्यपि न । संस्कारसम्बन्धेन पूर्व व्याप्तिज्ञानस्य सत्त्वात् । अन्न नव्याः व्याप्तिज्ञानत्वस्य परामर्शत्वव्यापकतथाऽनुमिति प्रति हेतुत्वमेव नास्ति कुतः करणत्वं अन्यथा कपालादेर्घटं प्रति द्रव्यत्वेन हेतुतापत्तिः तस्मादनुमिति प्रति मनस्त्वनैव कारणत्वमित्याहुः ॥ लिगमनुमिः तिकरणमिति ॥ अनुमितौ परामर्शमात्रं न हेतुरपि तु लिमपरामर्शः । तथा च विशिष्टस्य कारणताग्रहे विशेषणस्यापि कारताग्रहात् परागृश्यमानलिक्ष्य लिङ्ग परामर्शस्य वा हेतुत्य विनिगगनाविरहादुभयो- तुतासिद्धौ तत्र च व्यापाराभावान परामर्शस्य करणता किं तु लिस्यैवेत्याशयः ॥ लिङ्गस्य तदानी- मभावादिति ॥ न च परामर्शरूपव्यापारसम्बन्धेन तदानी लिझमस्येवेति वाच्यम् । अतीतादिलिङ्गस्य परामर्शाजनकतया परामर्शस्य तद्वयापारत्यासम्भवात् । इदमुपलक्षणं लिकस्य हेतुत्वे वैवीयपरामर्शविष- यालिङ्गान्मैत्रस्यानुमितिप्रसङ्गः तत्तत्पुरुषीयत्वनिवेशे गौरवं अस्मन्मते सामानाधिकरण्यनत्यासत्त्या हेतुढे- तुमद्धावेनैवातिप्रसभावान्न तत्पुरुषीयत्वानिश इति लाघवमित्यपि वोध्यम् ॥६६॥ ६ ॥ रामरुद्रीयम्. पणतावच्छेदकप्रकारकनिश्चयेन प्रतिबन्धादेव व्याप्स्यशे संशयासम्भवेन तन्निवेशे प्रयोजनाभावादिति भावः ।। संस्कारसम्बन्धेनेति ॥ स्वजन्यसंस्कारसम्बन्धेनेत्यर्थः । स्वजन्यसंस्कारसमवायान्यतरसम्बन्धेन व्या. प्तिज्ञानस्य परामर्शहेतुत्वान्न कुनापि व्यभिचार इति भावः ॥ परामर्शत्वव्यापकतयेति ॥ तादात्म्येन परामर्शस्याव्याप्यत्वं प्राह्यं ॥कारणत्वमेव नास्तीति ॥नियतपूर्ववर्तितावच्छेदकव्याप्यसत्त्वे व्यापकधर्मण हेतुतायामन्यथासिद्धेरिति भावः ॥ परामर्शमात्रमिति ॥ ज्ञानमात्रमित्यर्थः । परापूर्वकगृशधातोः ज्ञा. नार्थकत्वादिति भावः ॥ लिङ्गति ॥ व्याप्तिविशिष्टपक्षधर्मताविशिष्टहेतुलि विषयितासम्बन्धेन तद्विशिष्ट- ज्ञानमेव अनुमितिहेतुर्वोध्यमित्यर्थः ॥ कारणदाग्रहादिति ॥ असति बाधके विशिष्टस्य कारणतामाह कप्रमाणेन विशेषणांशेऽपि कारणताग्रहात् अत एवारुणया पिताश्यकहायन्या गवा सोमं क्रीणातीत्यत्र तृतीय- या गोविशेषणीभूतानामारुण्यादीनामपि सोमक्रयणसाधनता प्रतीयत इति मीमांसकानां सिद्धान्तोऽपि सङ्ग- च्छत इति भावः । विनिगमनाविरहेपापि लिङ्गस्य कारणता सिध्यतीत्साह ॥ परामृश्यमानेति ॥ किन्विति ॥ परामर्शस्यैव विषयविधया लिङ्गजन्यत्वसम्भवादिति भावः ॥ तद्वयापारत्वासम्भवा- दिति ॥ शाब्दादिपरामर्शस्थ अतीतादिलिङ्गाजन्यतया लिङ्गव्यापारत्यासम्भवादित्यर्थः ॥ अनुमितिप्रस- ङ्ग इति ॥ पक्षनिष्ठस्य लिङ्गस्य समवायेनानुमिति प्रति हेतुत्वासम्भवेनोद्देश्यतासम्बन्धेनानुमिति प्रति हेतु तावच्छेदकसम्बन्धेन लिमस्य कारणतायाः स्वीकरणीयत्वादिति भावः ॥ अस्मन्मते परामर्श हेतुतावा- दिमते ॥ सामानाधिकरण्यप्रत्यासत्या ॥ एकात्मानुयोगिकसमवायसम्बन्धेन कार्यकारणभावान्नैकपु- रुषीयपरामर्शादयस्थानुमित्यापत्तिरिति भावः ॥६६॥ ७ ॥