पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता ४७५ व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ॥ व्याप्यस्येति ॥ व्याप्तिविशिष्टस्य पक्षण सह वैशिष्टयावगाहिज्ञानमनुमितिजनक तच्च पक्षे व्याप्य इति ज्ञानं पक्षो व्याप्यवानिति ज्ञानं च अनुमितिस्तु पक्षे व्याप्य इति प्रभा. प्यनपायात् । एवंच तादृशमानसप्रत्यक्षात्मकपरामर्शरूपव्यापारसंबन्धेन तदानी तादृशलिङ्गस्यापि सत्वेन व्यभिचाराप्रसक्ति: अतीतादिलिङ्गविषयकस्मरणात्मकपरामर्शात अनुमितिस्थलेऽपि नवीनैः संस्कारसाधारण- व्याप्तिप्रकारकलिङ्गविशेष्यकत्वमालेणैव करणत्वस्य स्वीकृतत्वेन तत्र ज्याप्तिप्रकारकसंस्कारस्यैव तन्मते करणत- या तादृशपरामर्शस्य तादृशसंस्कारजन्यत्वे सिद्धे तादृशव्याप्तिप्रकारतानिरूपितविशेष्यताविशिष्टातीतादिलिङ्ग- जन्यत्वस्याप्यक्षतत्वेन तादृशस्मरणस्य व्यापारत्वसिद्धौ तदारातीतादिलिङ्गस्यापि सत्त्वमस्त्येवेति तादृशालि. अस्य करणतायां न कुत्रापि व्यभिचारस्य प्रसक्तिः । यचोक चैतस्य परामर्शदशायां पक्षे मैत्रस्य विशेष्य. तासंबन्धेन अनुमित्यापत्तिः चैत्रीयपरामर्शद्वारा ज्ञायमानलिङ्गस्य पक्षे सत्त्वात विशेष्यतासंबन्धेन तत्पुरु- षीयानुमितित्वावच्छिन्नं प्रति तत्पुरुषीयपरामर्शद्वारा ज्ञायमानलिङ्गस्यानुमितिकरणत्वमशीकृत्य तादृशाति. प्रसङ्गवारणे तत्पुरुषभेदेन कार्यकारणबाहुल्यं कारणतावच्छेदकगौरवं च । मन्मतेतु समवायेनानुमिति प्रति समवायेन परामर्शस्य हेतुत्वेन तद्दारा व्याप्तिज्ञानस्य हेतुत्वेन च तत्पुरुषीयत्वनिवेशाप्रसक्त्या न गौरवावकाश इति तदपि न । समवायघटितसामानाधिकरण्यनत्यासत्त्या हेतुत्वपक्षे पर्वतविशेष्य कवहिविधेयकानुमिति प्रति वाहिव्याप्यधूमादिप्रकारकपर्वतावशेष्यकनिश्चयत्वेन पर्वतादिरूपविषय विशेषनिवेश्यैव कार्यकारणभावो वाच्यः अन्यथा महानसादिविशेष्यकतादृशपरामर्शात्पर्वतादिविशेष्यकानुमित्यापत्तेः । एवंच पर्वतादिरूपविषयविंशे- पनिवेशत्यावश्यकत्वे विषयापेक्षया पुरुषाणामस्वत्वेन तत्पुरुषीयत्वनिवेशप्रयुक्तगौरवाभावात् त- स्मात् ज्ञायमानलिङ्गस्य अनुमितिकरणतापक्षे संयोगसमवायादिरूपनानासंबन्धानां कारणतावच्छेदकसंबन्ध- त्वकल्पनेन वर्तमानप्रतिशेष्यताविशिष्टधूमादेरेव करणतथा अनेकवर्तमानकालानां कारणतावच्छेदकत्वकल्प. नेन च मौरवामित्येच तन्मते दूपणमिति प्रतिभाति ॥६६॥ ॥ ६ ॥ मूले परामर्शलक्षणमाह ॥ व्याप्यस्येत्यादि पक्षवृत्तित्वधीरिति । पक्षसंबन्धज्ञानमित्यर्थः । तथा च व्याप्तिविशिष्टस्य पक्षसंबन्धविषयकनिश्चयः परामर्श इति फालेतम्। तदेवाह ॥ मुक्तावळ्यां व्याप्ति- विशिस्येति ॥ अनुमितिजनकमिति ॥ व्यापारविधया अनुमितिकारणमित्यर्थः । तथाच व्याप्य- वच्छिन्ननिषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वं परामर्शत्वमिति भावः । नच वह्नि- व्यायधूमे पर्वतः वहिव्याप्यधूमः पर्वतवान् इलाकारकनिश्चयस्यापि तादृशलक्षणाक्रान्ततया तज्ज्ञानादपि अनुमित्यापत्तिरिति वाच्य व्याप्यवच्छिन्नविषयताभिरूपितपक्षनिरूपिताधेयत्वनिष्ठसांसर्गिकविषयत्वहे. तुतावच्छेदकसंबन्धनिष्ठसांसमिकविषयत्वान्यतरनिरूपित्तपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वस्यैव लक्षणत्वेन उक्तज्ञानयोधूमादिरूपहेतुनिरूपिताधेयत्वनिष्ठसांसर्गिकविषयत्वपर्वतादिप्रतियोगिकसंयोगादिनिष्टसां. सर्गिकविषयत्वान्यतरशालित्वेऽपि पक्षनिरूपिताधेयत्वविषयताघटितपरामर्शलक्षणाभावात् न ताभ्यामनुमित्या- पत्तिरिति । उक्तार्थमेव प्रकाशयति ॥ तच्चेति ॥ पक्षनिरूपिताधेयत्वविषयताघटितलक्षणलक्षितं चेत्यर्थः ।। सानं चेति ॥ चेत्यवधारणे । तथाच उक्तज्ञानद्वयमेव तादृशलक्षणलाक्षतं नतु व्याप्ये पक्षो व्याप्यः पक्षवा- दिनकरीयम्. तच व्याप्यस्य पक्षेण सह वैशिष्ट्यावगाहिज्ञानं च । ननु परस्परं व्यभिचार इत्यत आह ॥ अनु- मितिस्विति ॥ कार्यतावच्छेदकस्य परस्परानुमितिव्यावृत्तत्वान्न व्यभिचारः । पक्षविशेष्यकत्वमेव सर्वत्रा- रामरुन्द्रीयम्. परस्परति ॥ पक्षविशेष्यकपरामर्शीत्तरानुमितो व्याप्यविशेष्यकपरामर्शस्य तदुत्तराजुमिती पक्षवि- शष्यकपरामर्शस्य व्यभिचार इत्यर्थः ॥ सर्घत्रानुमिताविति ॥ प्रसिद्धनाध्यकसकलानुमिताविस्वर्थः ।