पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥१॥ संसारमहीरुहस्य बीजायेति ।। संसार एव महीरुहो वृक्षस्तस्य बीजाय निमित्तकारणायत्य- प्रभा. - संसारमहीरुहस्यति मूलस्य संसारे महीमह इति सप्तमीतत्पुरुषाश्रयणे प्रपञ्चतिक्षकार णत्वमाश्वर लभ्यते, तश्चानुषपन्नं अस्मदादिसाधारणत्वात् अतः कर्मधार यमाह मुक्तावल्या-संसार एवति ॥ कार्यमानं प्रति ईश्वरस्य साधारणकारणत्वमेवेति सूचयति-निमित्तेति ॥ तथा च समनायिकारणत्वासम- वायिकारणत्वयोस्साधारणरूपत्वासंभवेन तद्वधुदासेन निमित्तकारणत्वस्य उभयरूपत्वेन एतस्य लाभसम्भवा- दिति भावः । ननु ईश्वरे मानाभावात् ईश्वरनमस्काररूपमङ्गलाचरणमयुक्तम् । तथा हि, न हि तन्न बाह्यप्रत्यक्ष प्रमाणं, अरूपिद्रव्यत्वात् । नापि मानसं, स्वात्मभिन्नद्रव्यत्वात् । नापि श्रुतिः, तत्प्रामाण्यस्येश्वराधीनत्वेन ईश्वर- दिनकरीयम् . तेषां चारायेत्यर्थः-तस्मा इति ॥ तच्छब्दः सामान्यतः सकलजनप्रसिद्धत्वसूचनाय । अनेन भगवत्ति नमस्कारप्रकारीभूतापकर्षावधित्वमुक्तं तदयुक्त, भगवति मानाभावादिलाशश्य नैयायिकमतनेश्वरसाधकानु- मानयूचनायाह-संसारेति ॥ संसारस्य महीरुह इति षष्ठीतत्पुरुषभ्रान्ति व्यावर्तयितुं कर्मधारयमाह--- मुक्तावल्यां संसार एवेति ।। बीजत्वं समवायिकारणत्वं तच्चेश्वरे बाधितमत आह-निमित्तेति ॥ नन्वीश्वरे मानाभावात् नमस्काररूपमंगलाचरणमयुक्त, नहि तत्र प्रत्यक्षं प्रमाणमरूपिदव्यत्वेन बायप्रत्यक्षा- विषयत्वात् । नापि मानस, परात्मनः परेण मनसा प्रत्यक्षवारणायात्मप्रत्यक्ष प्रति परात्मव्यावृत्तविजाती- यात्ममनःसंयोगत्वेन हेतुत्वस्यावश्यकतया ईश्वरे तस्याभावात् , नाप्यनुमानं लिङ्गाभावात् , नच द्यावाभूमी जनयन्नित्यादिश्रुतिरेव प्रमाण, श्रुतीनामीश्वरोच्चरितत्वेन प्रामाण्यादीश्वरसन्देहे श्रुतिप्रामाण्यस्यापि सन्दि- रामरुद्रीयम् . द्धार्थकतथा न यत्पदापेक्षेति समाधत्ते–तच्छब्द इति । नमस्कारप्रकारीभूतेति ॥ पकर्षबोधानुकूलव्यापारो नमःशब्दार्थः, अपकर्षान्वय्मबधित्वं कृष्णपदोत्तरचतुर्थ्यथ इति भावः । यथ- यवधित्वस्यापादानतारूपतया तदर्थका पञ्चम्येव न तु चतुर्थी । तथापि क्रियान्वय्यवधिलस्यै- वापादानत्वरूपतया नात्र पञ्चमीप्रसाक्तः, परन्तु निरुक्तापकर्षावधित्वविवक्षायां नमःस्वस्तीत्यादिसूत्रेण चतुयेव विहितेति भावः । एवं च श्रीकृष्णावधिकस्वापकर्षबांधानुकूलो मदीया व्यापार इत्युक्त. वाक्याच्छाब्दबोधः, उच्चारयितव्यापारस्थैव नमश्शब्दार्थत्वात् । यद्यः भवं सति नारायणं नमस्कृ- त्येत्यादावधि नारायणपदोत्तरं चतुर्यवापेक्षिता न द्वितीया, कनिकमत्वस्य नारायणेऽसम्भवेन नमः- पदार्थस्यैव तत्कर्मकतया नमःपदार्थघटकापकांवधित्वस्यैव द्वितीयया योधनीयत्वात् । तथापि तत्र लक्षणया नमस्कारानुकूलकृतिपर्यन्तं करोत्यर्थः नमःपदं तात्पर्य ग्राहकम् अतो नमःपदयोगाभावान चतुर्थी । अपकर्षचोधनिरूपितापकर्षनिष्ठप्रकारतानिरूपितावधित्वनिष्ठाकारतानिरूपितप्रकारतारूपा विषयतेव द्वितीयार्थः । अत एव नमःपदस्य सार्थकत्वविवक्षया 'स्वयंभुवे नमस्कृत्य ब्रह्मणेऽमिततेजस' इत्यादी चतुर्येव न द्वितीयेति मन्तव्यम् । षष्ठीतत्पुरुषभ्रान्तिमिति । सकलप्रपञ्चहेतोरीश्वरस्य महीरुहबीजल. मात्र कथनस्यानुचितत्वेन षष्ठीतत्पुरुषस्य भ्रममूलकत्वमिति भावः । समवायिकारणमिति ॥ वृक्षादि- समवायिकारण एव वृक्षादेबोजव्यवहारादिति भावः । यद्यपि बीजं वृक्षादेन समवायिकारणं, बोजनाशानन्त- रमेव तदवयवैरङ्कुरारम्भात् तथापि समवायि कारणवमत समवाथिकारणावयवकत्वमेव विवक्षितमती ना- सङ्गतिः । ईश्वरे पूर्वोक्तप्रमाणाभावमेव व्युत्पादयन्नाह-नहीति ॥ लिङ्गाभावादिति ।। ईश्वरसाधक- लिङ्गाभावादित्यर्थः । उपमानस्य शक्तिमात्रसाधकत्वेन तनिराकरणं न कृतमित्यवधेयम् । तथा क्षित्यकुरा- दिकमपीति मूले क्षित्यंकुरादीनां पक्षत्वं सूचितं, तथाच क्षित्यकुरादावनुगतं पक्षतावच्छेदकं किमित्याशङ्कते । स्वा-