पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । द्वटवतः स्मरणं जातं तत्र सामान्यलक्षणया सर्वेषां तद्धटवतां भानं न स्यात् सामा- न्यस्य तदानीमभावात् । किञ्चन्द्रियसम्बद्धाविशेष्यकं बट इति ज्ञानं यत्र जातं तत्र परदिने इन्द्रियसम्बन्ध विनापि तादृशज्ञानप्रकारीभूतसामान्यस्य सत्त्वात् तादृशज्ञान फुतो न ज- न्यते तस्मात्सामान्यविषयकं ज्ञानं प्रत्यासत्तिः न तु सामान्यमित्याह ।। आसत्तिरिति ।। प्रमा. पानां प्रत्यासत्तिरिति ॥ बोध्यामिति शेषः । तथाच विशेष्यतासंबन्धन निरुक्तप्रकारतावच्छेदकसंवन्धा. वच्छिन्नघटत्वादिनिष्ठप्रकारतानिरूपिततत्संबन्धावच्छिन्नतान्नष्ठाधेयतानिरूपिताधिकरणताश्रययावनिष्ठविशेष- णताशालिचाक्षुषत्वाद्यवच्छिनं प्रति तादृशलौकिकविशेष्यताशालिचाक्षुषत्वाधवच्छिन्ननिरूपिततत्संवन्धाव- च्छिन्नप्रकारताविशिष्टघटत्वादेः तादृशा प्रकारतावच्छेदकसंवन्धेन हेतुत्वमिति कार्यकारणभावो लब्ध इति न पूर्वोक्तदोषावकाश इति भावः । एतावता प्रबन्धन प्राचीचमतसिद्ध ज्ञायमानसामान्यस्य प्रत्या- सत्तित्वमुपपाय इदानी आसत्तिराश्रयाणां इत्यादिमूलोक्तं नवीनमतसिद्धसामान्यज्ञान प्रत्यासत्तित्वं सि . द्धान्तयितुं प्राचीनमतं दूषयति ॥ किंस्वित्यादिना ॥ कुतो न जन्यत इति ॥ अत्रातीता- दिलिङ्गकानुमिति प्राचीना यथा नाङ्गीकुर्वन्ति तथा अतीतसामान्यप्रत्यासत्तिजन्यालौकिकनत्यक्षस्याप्य- नङ्गीकारात् तन्मते आधदूषणमलग्नकं द्वितीये विनश्यवस्थचक्षुस्संयोगजन्यघटादिचाक्षुषमादाय न तदापत्तिः तज्ज्ञानीयघटादिनिष्टलौकिकविशेष्यतायाः सामानाधिकरण्यैककालीनत्वोभयसंवन्धेन चक्षुस्सं. योगविशिष्टत्वाभावेन विशिष्टलौकिकविशेष्यताशालिचाक्षुपनिरूपितप्रकारताविशिष्टसामान्यस्याभावात् । यदितु साहशप्रकारताश्रयसामान्यस्य केवलसामान्यानतिरिकतया घटत्वप्रकारकचाक्षुषशून्य कालेऽपि केवलसामान्यमाहम्ना सकलपटविषयकचाक्षुषापत्तिारत्युच्यते तन्न प्रकारतासंबन्धन तादशज्ञानविशिष्टसामा. न्यस्यैव प्रत्यासत्तित्वोपगमेन चाक्षुषशून्यकाले प्रकारतासंवन्धेन तादृशज्ञानविशिष्टसामान्यत्वरूपप्रत्यासत्तिता- वच्छेदकावच्छिन्नस्याभावाद्विकल्पद्वयघटिताद्वतीयदूधशमध्यलक्षं । यदपि चैत्रीयतादृशज्ञानप्रकारीभूतसामान्य प्रत्यासत्या मैत्रस्य तद्धर्माश्रयसकलघटविषयकप्रत्यक्षापत्तिवारणाय तत्पुरुषीयत्वस्य निवेशनीयतया पुरुष- भेदेना नन्तकार्यकारणभावः सामान्यज्ञानस्य प्रत्यासत्तिचे तु आत्मनिष्ठप्रत्यासत्त्या हेतुत्वान्न तत्पुरुषीयत्व- निवेशनामिति तदपि न । नवीनमतेऽपि तत्पुरुषायत्तनिवेशावश्यकत्वस्य अनुपदं वक्ष्यमाणत्वात् तस्मात्या- चीनमते इन्द्रियभेदेन कार्यकारणकल्पनागौरवं च दोषः । नवीनमतें तल्लाघवमेव गुण इति प्रतिभाति ॥ तस्मादिति ॥ उक्तदोषादित्यर्थः ॥ सामान्यज्ञानमित्यादि ॥ किंस्वित्यादिः नतु सामान्यं प्रत्यासात्तिः दिनकरीयम्. नेति ॥ कुतो न जन्यत इति ॥ इदमापाततः सामान्यलक्षणाघटकीभूतलौकिक सन्निकर्षस्य विशेषगत्व- विवक्षणेनं कालान्तरीय संयोगमादाययोकातिप्रसङ्गस्याभावादिति । तस्मात् पूर्वोक्तदोष एवान कल्पे वोध्यः । रामरुद्रीयम्. लांशे घटत्वस्यापि प्रकारता कल्पयितुं शक्यते तन्नाशानन्तरं कपालादिप्रत्यक्षस्यैव तत्कल्पकस्य सत्त्वात् । न चैवमपि तादृशशान्दादिस्थले का गतिरिति वाच्यम् । तत्रापि विशिष्टवैशिष्ट्यबोधमर्यादया मतुबर्थसम्ब. न्धे निरूपितत्वसम्बन्धेन घटस्येव तद्विशेषणतापनघटत्वस्यापि अन्वयसम्भवात्समवायसंयोगयोरिव स्वाश्र. या श्रयत्वस्यापि मतुपा बोधयितुं शक्यत्वाच्च तथापि यत्र तद्वयतिमानिलाकारकशाब्दादिज्ञानं तत्र घटत्व- स्य कथञ्चित्प्रकारत्वासम्भवेन अनुपपत्तिद्रष्टव्या ॥ कुतो न जन्यत इतीति ॥ अत्र यद्यपि परदिनेऽयं घट इति ज्ञानं यदि स्मरणादिरूपं तदा तदिन्द्रियजन्यवाभावादेव नापत्तियदि चाक्षुषं तदा चक्षुःसंयोगावश्य- कतेति नापत्तिसम्भवः तथापि अलौकिकचाक्षुषमादाय आपत्तिर्योध्या ॥ विशेषणत्वविचक्षणेनेति ॥ विशेष्यतासमानकालीनतद्विशेष्यताब्यावर्तकत्वेनेत्यर्थः अन्यथा यत्र धूभचक्षुःसंयोगे सत्यपि धूमस्मरणमूल. कं धूमकालीनो घट इति धूमांशे अलौकिकचाक्षुषं तदा धूमवप्रत्यासत्या चक्षुषा सकलधूमविषयकचाक्षुषा.