पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते । तदिन्द्रियजतद्धर्मबोधसामग्रयपेक्षिता ॥ ६४ ॥ परन्तु समानानां भावः सामान्यं तच्च कचिन्नित्यं धूमत्वादि कचिचानित्यं घटादि य- त्रैको घट: संयोगेन भूतले समवायेन कपाले वा ज्ञातस्तदनन्तरं च सर्वेषामेव तद्बटादिमतां भूतलादीनां कपालादीनां वा ज्ञानं भवति । तत्रेदं बोध्यं परन्तु सामान्यं येन स- म्बन्धेन ज्ञायते तेन सम्बन्धेनाधिकरणानां प्रत्यासात्तिः किन्तु यल तद्धटनाशानन्तरं त- प्रभा. ननु संयोगसंबन्धेन घटादिव्यक्तिमकारक भूतलविशेष्यकचाक्षुषोत्तरं संयोगसंबन्धेन तद्धटप्रकारकत. द्धाश्रययावयक्तिविशेष्यकं सर्वानुभवसिद्धं चाक्षुषं न स्यात् तद्धटादेः तादृशप्रकारतरवत्त्वेऽपि तस्य सामा• न्यरूपत्वाभावात्तादृशप्रकारताविशिष्टसामान्यस्यैव सामान्यलक्षणापदार्थत्वादित्याशङ्कां तद्धटादेरपि योगव्यु- पत्त्या सामान्यपदार्थत्वमशीकृत्य पारहरति ॥ परं त्वित्यादिना । समानानां भाव इति ॥ एकधर्म- चनिष्ठसाधारणधर्म इत्यर्थः ॥ तच्चेति ॥ निरुक्तसामान्यं चेत्यर्थः ।। क्वचिदिति ॥ किंचिदित्यर्थः एव - मग्रेऽपि धूमत्वादिरूपयत्किचित्सामान्य नित्यमित्यर्थः ॥ तद्धटवतामिति ॥ संयोगेन तद्धटवतां सम- वायेन तटवतामित्यर्थः ।। भूतलादीनामिति ॥ आदिना संयोगेन तद्धटाधिकरणद्रव्यान्तरस्य समवा. येन तद्धटाधिकरणकपालानां च परिग्रहः ॥ तत्रेदं बोध्यमिति ॥ तादृशस्थले निरुकप्रकारताविशिष्टघटा- दिरूपमनित्य सामान्य प्रत्यासत्तिरिति वक्तव्यमित्यर्थः । तथाच नोक्ताश लेति भावः । ननु समवायसंबन्धेन घटत्वप्रकारकचाक्षुषोत्तर कालिकरांवन्धेन घटत्वाश्रययावद्विषयकचाक्षुषापत्ति: निरुक प्रकारताविशिष्टघटत्व- स्य कालिकसंबन्धेन जन्ये महाकाले च सत्वादत आह ॥ परं त्विति ॥ येन संबन्धेनेति ॥ इन्द्रिय संवद्धविशेष्यकज्ञानाययत्संवन्धावच्छिन्न प्रकारताविशिष्टं भवतीत्यर्थः ॥ तेन संबन्धेन अधिकर- दिनकरीयम्. आसत्तिराश्रयाणान्वित्यादिमूलमवतारयितुं भूमिका रचयति ॥ परनिवत्यादिना ॥ भूतल इत्य- स्य ज्ञात इत्यनेनान्वयः । भूतलादीनामित्यादिना संयोगेन तवटाधिकरणद्रव्यान्तरपरिग्रहः ॥ तत्रेदं वो. ध्यमिति ॥ ज्ञायमानमनित्यं सामान्यं तत्र प्रत्यासत्तिरिति बोध्यमित्यर्थः । परम्परया प्रत्यासन्नस्य घटत्वा- देरेव प्रत्यासत्तित्वसम्भवात् किंस्वित्यादिना वक्ष्यमाणदोपासङ्गतिरत आह ॥ परन्त्विति ॥ तथा च घ- टत्वस्य परम्परया कपालादावज्ञानाद्वक्ष्यमाणदोपसङ्गतिः ॥ तेन सम्बन्धेनेति ॥ अन्यथा समवायेन ज्ञा. नप्रकारीभूतघदत्वादिसामान्य प्रत्यासत्या कालादिशानापत्तरिति भावः ॥ किन्विति । एवं चेत्यर्थः ॥ कि- रामरुद्रीयम् . मोजन्यत्वमस्येव तथापि स्मरणस्यापि कालोपाधिविधया इन्द्रियजन्यवेन तद्वारणाय तदिन्द्रियनिष्ठजनकता. निरूपिततत्प्रत्यक्षविभाजकोपाध्यवच्छिन्नजन्यताया एव विवक्षणीयतया तादृशमनोजभ्यतायाः सुखादिज्ञान एव सत्त्वान्नासङ्गतिः ॥ भूमिकामिति ॥ अवतारणानुकूला युक्तिरेव तद्भमिका । ज्ञायमानसामान्यमित्य- जातेरेव सामान्यपदार्थत्वे अनित्यसामान्यस्यैव अप्रसिद्धया तत्र दोषदानानुपपत्त्या तद्वारणार्थ सामान्य मुपेक्ष्य तज्ज्ञानस्य प्रत्यासत्तित्वोपगमवैयर्थ्यमित्यानित्यस्य सामान्यत्वव्यवस्थापनमुत्तरग्रन्धावतारणोपयुक्तमि- ति बोध्यम् ॥ मूले समानानामिति ॥ तथा च प्रकृते सामान्यपदं यौगिकमेव न तु पारिभाषिकमिति भावः ॥ परिग्रह इति ॥ यद्यपि समवायेन तद्धटाधिकरणं कपाल एवेति मूले कपालादीनागित्यसङ्गतं त- थापि तद्भटादिमतामिति पूर्ववाक्यस्थादिपदेन पटादेरपि परिग्रहात्तदनुरोधेन यत्रैको घट इति तत्पूर्ववाक्य- स्थघटपदस्यापि पटाधुपलक्षकत्वेन आदिपदेन तन्त्वादिसङ्ग्रहसम्भवानासङ्गतिः । कालादीत्यादिना विषयतया धूमत्यादिमतो ज्ञानादीनां परिप्रहः । अव्यवहितपूर्वोक्तयुक्त्यैवोत्तरत्र आपादनीयतया किन्त्वित्यसतमतस्तस्यै- वं चेत्यर्थकतामाह ॥ एषनेत्यर्थ इति ॥ यद्यप्यत्रैतहटवान् कपाल इति प्रत्यक्षे परम्परासम्बन्धेन कपा.