पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । रभावात च बहिरिन्द्रियस्थले बोध्यम् । मानसस्थले तु ज्ञानप्रकारीभूतं सामान्य प्रत्यासात्तिः ॥६३ ।। प्रभा. नोकदोपः तत्र तादृशौकिकसंवन्धवनिष्ठलौकिकविशेष्यताकत्वं न लौकिकसंवन्धोपलक्षितव्यक्तिनिष्टलौकि- कविशेष्यताकत्वरूपं विनश्यवस्थचक्षुस्संयोगजन्यायंघटइयाकारकज्ञानस्यापि तादृशलौकिकविशेष्यताकत- या तदुत्तर सकलघटविषयकचाक्षुषापत्तेः । नापि तादृशलौकिकसंबन्धविशिष्टनिष्ठलौकिकविशेष्यताकत्वरूप अयं घट इत्याकारकज्ञानस्य चक्षुस्संयोगाविषयकतया तज्ज्ञानीयघटनिष्टलौकिककविशेष्यतायाः च. क्षुस्संयोगरूपविशेषणानवच्छिन्नत्वेन विशिष्टयत्ति वासंभवात्तादृशज्ञानोत्तरं सकलघटविषयकचाक्षुषानुपपत्तेः किन्तु स्वसामानाधिकरण्यस्वस मानकालीनत्वोभयसंवन्धेन तादृशलौकिकसंबन्धविशिष्टलौकिकविशेष्यता- कत्वरूपमेव वाच्यं अतो नोक्तदोपलेश इति प्रतिभाति । नचैवमपि तादृशलौकिकविषयताशाल्य- यंघट इति स्पार्शनोत्तरं सकलविषयकस्पार्श नवत् सकलघटविषयकचाक्षुपस्याप्यापत्तिः सामरया अ. विशिष्टत्वात् इति वाच्यं । सकल घटविषयकचाक्षुषत्वावच्छिन्नं प्रति तादृशलौकिकविशेष्यताशालि. चाक्षुषप्रकारताविशिष्टघटत्वस्यैव प्रत्यासत्तित्वस्वीकारेणैतादृशस्पार्शनस्योत्तरं सकल घटविषय कचाक्षुषापत्ते. 1 ननु गुरुत्वत्वेन यत्किचिद्गुरुत्वीपस्थित्यनन्तरं सकलगुरुत्वविषयकमानसप्रत्यक्षानुषपत्तिः गुरुत्वेन सह मनसः लौकिकसन्निकर्षस्य गुरुले लौकिकविशेध्यतायाशाभावात् तादृशलौकिकविशे- ध्यताशालिमानवप्रकारताविशिष्टगुरुत्वत्वरूपसामान्यस्याप्रसिद्धत्वादत शाह ॥ इदं चेति । निरुतप्रकार- ताविशिष्ट सामान्यमित्यर्थः अबधारणार्थकश्चशब्दः बहिरिन्द्रियस्थल इत्युत्तरं योज्यः बहिरिन्द्रियजन्यसकलघ- टविषयकप्रत्यक्ष एवेत्यर्थः ॥ बोध्यमिति । प्रत्यासत्तिविधया कारणामिति बोध्यमित्यर्थः ॥मानसस्थल इति ॥ मनःकरणकसकल घटादिविषयकमराक्ष इत्यर्थः अवधारणार्थकतुशब्दस्सामान्यमित्युत्तरं योज्यः ज्ञा- नप्रकारीभूतसामान्यमेव सन्निकर्ष इत्यन्वयः तथाच केवलज्ञानप्रकारताविशिष्ट सामान्यमेव सन्निकर्षः नतु निरुतप्रकारताविशिष्टसामान्य प्रत्यासत्तिरिति एव कारघटितवाक्यार्थः ॥ ६३ ! दिनकरीयम्. वाच्यम् । तन्मूलकज्ञानधारापत्तेचार त्यादित्यत आह ॥ लौकिको ग्राह्य इति । अत्र लौकिकसनिकर्षस्य वि. शेषणविधया घटकत्वं बोध्यम् अन्यथा तत्र धूमे पूर्वकालीनचक्षुःसंयोगमादाय त होपवादवस्थ्यामिति ध्येयम् । इदमुपलक्षणं यत्र चक्षुःसंयोगे विद्यमानेऽपि दोषशान धूमचाक्षुपं किन्तु धूमत्वप्रकारकं स्मरणं तत्र धूम- स्वसामान्यलक्षणाजन्यज्ञानापत्तिवारणाय सामान्यलक्षणांघटकज्ञाने तदिन्द्रियजन्यत्वस्य वाच्यत्वात् । नन्धि- न्द्रियसम्बद्धेत्यत्र लौकिकसम्बन्धः ज्ञानप्रकारेत्यत्र ज्ञानस्य तदिन्द्रियजन्यत्वं चेद्विवक्षितं तदाणुत्वेन यत्कि-- श्चिदणूपस्थिताचणुत्वसामान्यलक्षणया सकलागुगोचरो मानसबोधो न स्यात् तदाणी मनसो लौकिकसम्बन्ध. स्य ज्ञाने मनोजन्यत्वस्य चाभावादन आह ॥ इदं चेति ॥ तथा च वहिरिन्द्रयेण सामान्यलक्षणया ज्ञाने जननीये तद्विवक्षितं न तु मानससामान्यलक्षणाजन्यज्ञान इति नोक्तदोष इति भावः ॥ ६३ ॥ रामरुद्रीयम्. क्यत्वादिति भावः ॥ तन्मूलकति ॥आपाद्यमानज्ञानव्यक्तिमूलकेत्यर्थः । ज्ञानधारेति ॥ सामान्यलक्षण- या प्रत्यक्ष लौकिकसन्निकर्षस्य अहेतुत्वेन पूर्वपूर्वज्ञानव्य तेरेव सन्निकर्षसम्पादकत्वादिति भावः । यद्यपि सि- द्धान्तेऽपि घट इति ज्ञानानन्तरं मनसा सामान्य प्रत्यासत्तिजन्यज्ञानधारा इष्टैच तथाप्यत्र चाक्षुषसामान्यप्र-- सासत्तिजन्यज्ञानस्य यत्किञ्चित्सामान्याश्रयांशे लौकिकत्वनियमेन इष्टापत्त्यसम्भवेन चानुषतादृशज्ञानधारा- या एवापादनान्नानुपपत्तिरित्यवधेयम् ॥ विशेषणविधयेति ॥ विशेषणत्वेनेत्यर्थः । विशेषणत्वं च चि. शेष्यान्वयित्वं सन्निकर्षविशेष्यभूतसन्निकर्पवता विशेष्यतासम्बन्धेन अन्वयिनि ज्ञाने समानकालीनत्वसम्बन्धेन सन्निकर्षस्य विवक्षणाद्विशेषणत्वामिति भावः । वाच्यवादित्यस्त्र विशेषणतयेत्यादिः । तथा च तदिन्द्रियण सामान्यलक्षणया ज्ञाने जननीये तदिन्द्रियजन्यतदिन्द्रियलौकिकसन्निकर्षवद्विशेष्यकज्ञानप्रकारीभूतं सामान्य सन्निकर्ष इति भावः । मनोजन्यत्वस्य चेति ।। यद्यपि ज्ञानसामान्यस्यैव मनोजन्यतया उपस्थिती म-