पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळा-प्रभा-दिनकरीय-रामरुद्रौयसमन्विता । प्रभा. दिति भावः ॥ आपादयितुं शक्यत्वादिति । तथाच समानेन्द्रियजन्योपलम्भव्याप्यत्वस्य योग्यताघट कत्वात् न तत्र चाक्षुषमिति भावः । ननु जातित्वादिविशिष्टस्य तेजोवृत्तित्वस्योपलम्भव्याप्यत्वात्तेजसि मुरु- स्वाभावप्रत्यक्षापत्तिः एवं स्तम्भे पिशाचत्वाभावप्रत्यक्षबत् पिशाचाभावप्रत्याक्ष पत्तिरत आह || गुरुत्वा दिकमिति ॥ आदिपदेन पिशाचादिपरिग्रह : अयोग्यपिशाचत्वादिजातेरभावस्य प्रत्यक्षत्वात् गुरुत्वादि- दिनकरीयम्, आपादयितुं शक्यत्वादिति ॥ तथा च समानेन्द्रियजन्योपलम्भव्याप्यत्वस्य योग्यताघटकत्वान्न तन्न चाक्षुषामति भावः । ननु जातित्वादिविशिष्टस्य तेजोवृत्तित्वस्थोपलम्भव्याप्यत्वात् तेजसि गुरुत्वाभाषप्रत्यक्षापत्तिः एवं स्तम्भे पिशाचत्वाभावस्यापि प्रत्यक्षापत्तिरत आह ॥ गुरुत्वादि. कमिति ॥ आदिपदन पिशाचादिपरिग्रहः | अयोग्यस्य पिशाचत्वादिजातरभावस्य प्रत्यक्ष- रामरुद्रीयम्. सम्भवेन पिशाचत्वाभावप्रत्यक्षस्यैव असम्भवादिति चन्न । प्रत्यक्षप्रतिबन्ध कत्वाभावविशिष्टत्वेन जातित्वस्य विशेषणीयत्वात् तादृशजातीनां च तादात्म्येन प्रत्यक्ष प्रतिवन्धकत्वात् न तासु व्याप्तिभङ्गः पिशाचत्वं तु न प्रत्यक्षप्रतिबन्धकं योग्यावृत्तित्वेनैव तस्यायोग्यतया तत्प्रत्यक्षापादनासम्भवात् तत्प्रतिबन्धकताकल्पने वी- जाभावात ॥ न पिशाचादाविति ॥ यद्यपि पिशाचे स्तम्भत्वाभाव प्रत्यक्षापत्तिोंक्तयोग्यानुपलम्भेन स- म्भवति अयोग्य प्रतियोगिकाभाषप्रत्यक्ष एव तस्य कारणतायाः पूर्वभुक्तत्वादेतत्कथनमफलं तथापि स्तम्भ- स्वस्योपलक्षणतया मनस्त्वायभावप्रत्यक्षापत्तिनिरासपरत्वान्न वैयमिति ध्येयम् । ननु योग्यवृत्तिजातरेव यथा योग्यत्वं तथा योग्यजात्यन्यतरप्रतियोगिकाभावस्यैव योग्यत्वमित्युक्यैव पिशाचाद्यभावप्रत्यक्षवारणं सम्भवति अन्धकारे घटाद्यभावस्य जलपरमाणौ पृथिवीस्वाभावस्य च प्रत्यक्षवारणाय महत्त्वोद्भूतरूपावच्छि- त्रालोकसंयोगावच्छिन्नेन्द्रियसंयुक्तविशेषणताया एवाभावग्राहकत्वमास्थीयतां किमुक्तगुरुतरयोग्यानुपलब्धिव- यस्य कारणतयेत्याशङ्कानिरासायाह । एवमिति ॥ तथा चोकरीत्या स्तम्भे पिशाच भेदप्रत्यक्षोपपादनस्या- सम्भवादेन गुरुभूताया योग्यानुपलब्धेः कारणताङ्गीकृतेति भावः ॥ शक्यत्वादितीति । ननु यवन्धकारेऽ. पि घटादेः स्पार्शनोपलम्भापादनसम्भवेन घटाद्यभावस्य स्पार्शनं जायने तदा चाक्षुषमपि स्यात् अन्धकारे घटसत्त्वे स्पार्शनोत्पत्त्या प्रतियोगिसत्वातिरिक्त प्रतियोमिप्रकारतानिरूपितचाक्षुषनिरूपितलौकिकवि- शेष्यत्वाभावप्रयोजकाभावप्रतियोगितावच्छेदकावच्छिन्नकूटतथाविधस्पार्शननिरूपितलौकिकविशेष्यत्वाभाव-. योजकाभावप्रतियोगितावच्छेदकावच्छिन्नकूटैतदन्यतरविशिष्टप्रतियोगिसत्त्वनिष्टव्याप्तिनिरूपकत्वस्य यत्कि- चिदिन्द्रियजन्यघटोपलम्भे सत्त्वेन प्रतियोग्युपलम्भाभावे योग्यतासत्त्वात् । यादे च प्रतियोग्युपलम्भे प्रमे- यत्वादिना व्याप्तिनिरूपकता सर्वत्रैव सम्भवतीति किञ्चिदिन्द्रियजन्य प्रतियोग्युपलम्भत्वाभावे योग्यतास- त्वात् व्याप्तिनिरूपकत्वावच्छिन्नैव व्याप्तिनिरूपकता योग्यतालक्षणे निवेशनीया तथा चान्धकारे घाभावचा- भुषवारणाय प्रतियोग्युपलम्मा यद्यदिन्द्रियजन्याः प्रसिद्धाः प्रत्येकं तत्तदिन्द्रियजन्यप्रतियोग्युपलम्भत्याव- च्छिन्ना व्याप्तिनिरूपकता विवक्षणीयेति विभाव्यते तदा घटाभावस्य पार्शनमपि न स्यादित्याशको भाववर्ण- नेन निराकरोति ॥ तथा चेति ॥ समानेति ॥ तथा च तदभावचाक्षुषत्वाचवच्छिन्नं प्रति तत्प्रतियोगि- चाक्षुषाद्यभावत्वेन विशिष्यैव हेतुता योग्यताघटकव्याप्तिनिरूपकतापि प्रतियोगिचाक्षुषत्वाद्यवच्छिन्नैव निवे. क्या । एवं च व्याप्तावपि चाक्षुषाशुपलम्भकारणकूटविशिष्टप्रतियोगिसत्त्वनिष्ठत्वमेव निवेशनीयमिति न पू. र्वोक्तान्यतरघटनापीति लाघवमिति भावः । नचैवभिन्द्रियान्तरजन्योपलम्भसत्त्वेऽपरन्द्रियान्तरेणाभावप्रत्य- क्षापत्तिरिति वाच्यम् इष्टत्वात् । लौकिकसन्निकर्षजन्यबुद्धौ समानेन्द्रियजन्यविरोधिनिश्चयस्यैव प्रतिबन्धक- स्वादिति भावः । पिशाचादीत्यादिना परमाण्वायतीन्द्रियसङ्ग्रहः । नन्येवं गुरुत्वादिकमिति व्यर्थं यदयोग्य तदभावस्तु न योग्य इत्यस्यैव वक्तुमुचितत्वादित्यत आह ॥ अयोग्यस्येत्यादि । तथा च गुरुत्वादिक- मिति पदं तादात्म्येन प्रत्यक्षप्रतिवन्धकजातिभिन्नसामान्यपरमेव तेन वहिनि वैजात्यामा वस्य स्तम्भादौ म