पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मरुजूषा-दिनकरीय-रामरूद्रीयसमन्विता । इत्थं च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरित वंसः स्वतःसिद्धविनात्यन्ता- प्रभा. पन्यासाय, तेन ग्रथा समवायसम्बन्धेन घटत्वाधवकिछन्नं प्रति समवायसम्बन्धन घटत्वादिना घटादेः प्रति- बन्धकत्वात , समवायसम्बन्धावच्छिन्नघटत्वाद्यवच्छिन्न प्रतियोगिताकाभावस्य हेतुत्वं, तथा समाप्ति प्रति समवाय सम्बन्धेन विघ्नत्वेन प्रतिबन्धकत्वात् , समवायसम्बन्धावच्छिन्नविघ्नत्वावच्छिन्नप्रतियोगिताका- भावस्य हेतुत्वमावश्यकमित्यर्थो लभ्यते । तथाच विघ्नध्वंसविघ्नप्रागभावयोः तादृशाभावरूपत्वाभावात् तत्साधारणनिरुक्तान्यतमत्वेन हेतुत्वे मानाभाव इति भावः । न च विन्नध्वंसतत्प्रागभावाभ्यां अत्यन्ताभा- वस्य विरोधात , ध्वंसाधिकरणे अत्यन्ताभावासत्त्वेन समाप्त्यनुपपत्त्या बंसादिसाधारणनिरुक्तरूपेण है- तुत्वमावश्यक्रमिति वाच्यम् । विरोधे मानाभावात् , ध्वंसाद्यधिकरणेऽप्यत्यन्ताभावस्वीकारात् । एतत्तत्त्वं 'ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम्' इति मुक्तावळीव्याख्यानावसरे विवंचयिष्यामः । विघ्नात्यन्ताभावस्य समाप्तिहेतुतापक्षे निरुक्तव्यतिरेकव्यभिचारो नास्तीत्याह-इत्थं चेति ॥ समाप्ति प्रति विघ्नात्यन्ताभावस्य निरुक्तरूपेण हेतुत्वे चेत्यर्थः । जन्मान्तरीयमङ्गळजन्येति ॥ विन्मध्वं- सजनकजन्मान्तरी यमङ्गळप्रयोज्यविघ्नात्यन्ताभाव इत्यर्थः । नास्तिकात्मनि विघ्नव्वंसकल्पने, तजनक्रम- अल कल्पने च गौरवादाह-स्वतस्सिद्धेति ॥ दुरितकारणाभावप्रयुक्तविघ्नात्यन्ताभाव इत्यर्थः । दिनकरीयम् , भावकटत्वेन, विघ्नप्रागभावादीनामेकत्रासंभवेन समाप्तिनं स्यादिति बोध्यम् । यत्र व मंगलं विनापि समाप्तिस्तत्र विघ्नध्वंसाभाववति समाप्तेदशनात् व्यतिरेकव्यभिचारमाशय निषेधति-इत्थं चेति ।। दुरितध्वंसकल्पने तजनकीभूतमंगलकल्पने च गारवादाह-स्वतःसिद्धति ॥ यत्र च मंगळे सत्यपिन समाप्तिस्तत्र मंगळाद्विघ्नध्वंसो भवत्येव, समाप्त्यभावस्तु विघ्नभुयस्त्वात् , तन्मंगळानन्तरोत्पन्नाद्विघ्नाद्वत्यव- धेयम् । अथ समाप्तिविघ्नध्वंसयोराकाशात्मनिष्टयोः कथं कार्यकारणभाव इति चेदुच्यते । स्वप्रतियोगिप्रयो- जकत्वसम्बन्धन चरमवर्णवसरूपसमाप्ति प्रति विशेषणतासम्बन्धेन विघ्नसंसर्गाभावत्वेन हेतुत्वमिति ॥ वस्तु. तस्तु आहुरित्यनेन सृचितामन्यथासिद्धि प्रकटयति--क्वचिच्चेति ॥ विघ्नात्यन्ताभाव एवेत्येवकारेण रामरुद्रीयम्. ताक वाङ्गीकारे तु तद्विप्नत्वावच्छिन्न प्रतियोगिताकसंसर्गाभावत्वेनेत्यर्थकरणेऽपि न क्षतिरिति मन्तव्यम् । वित खसाभावचीति ॥ विश्नसंसर्गाभावसामान्याभाववतीत्यर्थः । अन्यथा यथाश्रुते विध्नध्वंसाभाव- वत्यपि विघ्नात्यन्ताभावसम्भवेन विघ्नसंसर्गाभावत्वेन हेतुत्वे व्यतिरंकव्यभिचारासम्भवेनासंलग्नकतापत्तेः । तथा च यत्र मङ्गळं विनव समाप्तिस्तत्र विघ्ननाशकमङ्गळासत्त्वेन विघ्नस्यैव सत्त्वात् , निरुक्ततद्विघ्नप्रतियोगि- कस्य कस्यापि संसर्गाभावस्यासत्त्वेन तद्विघ्नसंसर्गाभावस्य व्यतिरेकव्यभिचारो दुर एवेति भावः । ननु यत्र सत्यपि मन न समाप्तिदश्यते, तत्र मङ्गकाद्विन्नध्वंस एव न जात इत्यवश्य मङ्गीकरणीयं, अन्यथा तत्तद्रि- नसंसाभावानां सत्वेन समाप्तिविरहस्योपपादथितुमशक्यत्वात् , तथा चावयव्यभिचारेण माळस्य विध्नध्वंसफलकत्वं न शक्यते वक्तुमित्याशङ्कां निराकुरुते-यत्र चति । विधनभूयस्त्वादिति ॥ ननु मङ्गलानन्तरोत्पन्नाविधनादपि तत्र समाप्त्यभावसम्भवेन नानाविघ्नव्यक्तीनां तत्कारणीभूतप्रागभावादीनां च कल्पने गौरवमतस्तथैवाह-मङ्गळानन्तरेति । स्वप्रतियोगिप्रयोजकत्वेति ॥ स्वप्रतियोगिचरमवर्णा- नुकूलकृतिमत्त्वसम्बन्धेनेत्यर्थः । न च स्वप्रयोजकत्वसम्बन्धेनेत्येव कुतो नोक्त, जीवात्मनि स्वानुकूलकृति- मत्त्वासम्भवेऽपि स्वजनकचरमवर्णजनककृतिजनकत्वरूपस्य स्वप्रयोजकत्वम्य सम्भवादिति वाच्यं, निरक्त- प्रयोजकत्वस्य नानाजनकताघटितत्वेन गौरवादिति भावः । कचिनचेत्यादि प्रकारान्तरेण व्याचष्टे- वस्तुतस्त्वित्यादिना ॥ समाप्तिसाधनमित्यस्य समाप्तिकारणमित्यर्थक्रत्वे कचिदिन्यस्यासङ्गतिः, तत्तद्विध्न- संसर्गाभावत्वेन हेतुताया व्यवस्थापिततया सर्वत्रैवाभावत्रयस्यापि कारणत्वात् , नियतपूर्ववर्तितावच्छे-