पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावळी-प्रभा-दिनकरीय-रामरुद्रीयसमांन्वता । षणता हेतुः। वैशेषिक्रमते तु सप्रवायो न प्रत्यक्षः । अत्र यद्यपि विशेषणता नानाविधा तथा हि भूतलादौ घटाद्यभावः संयुक्तविशेषणतया गृह्यते । सङ्ख्यादौ रूपाद्यभावः संयुक्तसमवेत. विशेषणतया सङ्ख्यात्वादी रूपाधभावः संयुक्तसमवेतसमवेतविशेषणतया शब्दाभावः के- वलनोलावच्छिन्नविशेषणतया कादौ खत्वाद्यभावः श्रोलावच्छिन्नसमवेतीवशेषणतया कत्वा- दौ घत्वायभावः श्रोत्रावच्छिन्नसमवेतसमवेतविशेषणतया ( एवं त्वाद्यवच्छिन्नाभावे गत्वा- भावादिकं श्रोत्रावच्छिन्नविशेषणाविशेषणतया घटाभावादौ पटाभावः चक्षुःसंयुक्तविशेषण- विशेषणतया एवमन्यत्राप्यूह्यं ) तथापि विशेषणतात्वेन एकैव सा गण्यते अन्यथा पोटा सन्निकर्ष इति प्राचां प्रवाद व्याहन्येतेति ॥ प्रभा. च्छस्य नियन्तुमशक्यत्वात् ॥ वैशेषिकमत इति । पृथिव्यां गन्धस्य समवायो न जल इति प्रतीत्या समवायस्य नानात्ववादिनव्यमते अतीन्द्रिय वृत्तिसमवायस्या प्रत्यक्षत्वेऽपि योग्यवृत्तिसमवायस्य प्रत्यक्षत्वान्नवीनमत इत्यनुक्त्वा वैशेषिकमत इत्युक्तमिति ध्येयम् ॥ समवायो न प्रत्यक्ष इति ॥ संबन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वादिति भावः । नच तादृशकार्यकारणभावे मानाभाव इति वाच्यं तथा सति घटपटसंयोगवटाकाशसंयोगस्यापि प्रत्यक्षापत्तः । नच संयोगप्रत्यक्षे यावदाश्रय प्रत्यक्षस्य हेतुत्वाङ्गीकारेणैव' उक्तदोषवारणे तादृश कार्यकारणभावे मानाभाव एवेति वाच्यं तथासति भूतले आकाशा- त्यन्ताभावचिशेषणताप्रत्यक्षापत्तेः भूतलस्य प्रत्यक्षविषयत्वात् । नचाकाशात्यन्ताभावविशेषणतायाः आका- शाभावत्वेनातीन्द्रियतया न तदापत्तिरिति वाच्यं विशेषणताया अभावरूपत्वे घटात्यन्ताभावस्य विशेषणतायाः अभावरूपायाः योग्यतया आकाशादौ तस्याः प्रत्यक्षापत्तेवारत्वात् तस्मात्संबन्धप्रत्यक्षे यावदाश्रय प्रत्यक्ष- दिनकरीयम्. समवायत्वेन चतुर्णामनुगमनसङ्गः परिभाषाया अपर्यनुयोज्यत्वात् ॥ समवायो न प्रत्यक्ष इति ॥ सम्बन्धनलक्ष यावदाश्रयप्रत्यक्षस्य हेतुत्वादिति भावः । ननु विशेषणतया तद्वदित्या- यसहतं विशेषणताप्रत्यासत्तेर भावात् । नच तत्प्रत्यासत्तेरनभ्युपगमेऽभावप्रत्यक्षानुपपत्तिरिति वा- च्यं इष्टापत्तेरनुपलम्भस्यैव तत्प्रत्यक्षस्योपगमात् । नच समवाय प्रत्यक्षानुरोधात विशेषणताप्रत्या सत्तिम्चीकारः तस्यानुपगमादत एवाभावप्रत्यक्षे इन्द्रियं न करणं किं तु योग्यानुपलांब्धरेवेति भाटा रामरुद्रीयम्. लकृता तादृशसमाधानोपयंनिराकृततया तन्निरासायैव मूलोक्तार्थस्यानुवाद इति विभावनीयम् ॥प- रिभाषायाः षड्डिधस्सन्निकर्ष इति शास्त्रकारीयसङ्केत्तस्य ॥ अपर्यनुयोज्यत्वादिति ॥ संयो.. गादिभेदेन विविधः सन्निकर्ष इत्येव कुतो नोक्तमित्याक्षेपानहत्त्वादित्यर्थः तथा बिभागेऽपि क्षति. विरहादिति भावः । मूले वैशेषिकमते समवायो न प्रत्यक्ष इत्युक्तं तत्र युकेरनुक्तत्वात्तत्र यु- क्तिमाह ॥ सम्बन्धप्रत्यक्ष इति ॥. समवायस्यैकतया एकदा भाविभूतसकलाश्रयध्यक्तीनां ज्ञा- नासम्भवादिति भावः । न्यायमते तु सम्बन्धप्रत्यक्षत्वं न कार्यतावच्छेदकं सम्बन्धत्वस्य अनुग-- तस्य निर्वक्तुमशक्यत्वात् सांसर्गिकविषयतावत्त्वस्य कथञ्चित्सुवचत्वेऽपि तादृशसम्बन्धत्वस्य घटत्वादि. साधारणतया तत्प्रत्यक्षे व्यभिचारापत्तेः अपि तु संयोगप्रत्यक्षत्वमेव कार्यतावच्छेदकमतः समवायस्य तन्मते न प्रत्यक्षत्वानुपपत्तिरिति भावः । समवायप्रत्यक्षानुरोधादित्यस्य विशेषणतायास्सन्निकर्षत्व- मिति शेषः ॥ तस्य समवायप्रत्यक्षस्य ॥ अनुपगमादखीकारादित्यर्थः । भरिति शेषः । तैः समवायस्यैवानङ्गीकारादवयवावयध्यादीनां स्वरूपस्यैव तन्मते सम्बन्धत्वादिति भावः ॥ अत एव ॥ विशेषणताप्रत्यासत्तेरभावादेवेत्यर्थः । ननु यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्य-