पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ कारिकावली रणं करणम् । असाधारणत्वं व्यापारवत्त्वम ।। ५८ ।। विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि पड्विधः । द्रव्यग्रहस्तु संयोगात् संयुक्तसमवायतः ।। ५५ ।। द्रव्येषु समवेतानां तथा तत्समवायतः । तत्रापि समवेतानां शब्दस्य समवायतः ।। ६० ॥ तवृत्तीनां समवेतसमवायेन तु ग्रहः विशेषणतया तदभावानां ग्रहो भवेत् ।। ६१ ।। यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते । प्रत्यक्षं समवायस्य विशेपणतया भवत् ।। ६२ ॥ व्यापारः सन्निकर्षः । पड्डिधं सन्निकर्षमुदाहरणद्वारा प्रदर्शयति ।। द्रव्यग्रह इति ॥ प्रभा. कार्यत्वानवच्छिन्न कार्यतानिरूपितकारणतारूपासाधारणत्वस्य व्यापारऽपि सत्त्वादतिव्याप्तिरत आह् ॥ अ- साधारणत्वं चति । तथाच व्यापारे व्यापार नत्वाभावात् नातिव्याप्तिरिति भावः । नच तथापि घटादेरपि चक्षुसंयोगरूपव्यापारवत्वेन विषयविधया कारणत्वेन च करणत्वापत्तिरिति वाच्यं । व्यापा, रवत्कारणमित्यस्य व्यापरसंबन्धावच्छिन्नकारणताश्रयस्य विवक्षितत्वेन घटादेरतादृशत्वेन करण- स्वापत्त्यभावात् । परेतु प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणत्वरूपप्रत्यक्षकरणत्वस्य सन्निकर्षेऽपि स- त्वात् तत्रातिव्याप्तिवारणाय व्यापारवत्वे सतीति घटादेापारवत्त्वेऽपि सकलविषयवृत्त्यनुगतविषय- स्वाप्रसिद्धया विषयत्वेन प्रत्यक्षत्वन कार्यकारणभावे मानाभावात् तत्रातिव्याप्त्यप्रसक्त्या व्यापारवत्त्वे सति कारणत्वभित्यस्य यथाश्रुतार्थ एवं निर्दु इत्याहुः । अन्येतु प्रत्यक्षकारणत्वं प्रत्यक्षप्रमितिविभा- जकोपाव्यवच्छिन्नकार्यतानिरूपितकार णत्वं नतु प्रत्यक्षत्वावच्छिन्ननिरूपितकारणत्वं इन्द्रियावस्यानुगतत्वा. भावन प्रत्यक्षत्वेनन्द्रियत्वेन कार्यकारणभावाप्रसिद्धया तादृशकारणताघटित करणत्वस्याप्यप्रसिद्धः । एवं च चाक्षुषत्वाद्यवच्छिन्ननिरूपितकारणत्वस्य चक्षुस्संयोगादावपि सत्त्वनातिव्याप्तिवारणाय व्यापारवत्त्वे सु. ताति विशेषणं घटादः तादृशकारणत्वाभावात्तत्रातिव्याप्त्यप्रसक्तथा रवत्वे सतीत्यस्य यथाश्रुतार्थ एवं निर्दुष्ट इति पाहुः ॥ ५८ ॥ ननु जन्यत्वघटितव्यापारत्वस्य शब्दनिटश्रोत्रसमवाये अमानादाह ॥ ब्यापारस्सन्नि- दिनकरीयम्. तत्प्रत्यक्ष योग्यानुपलब्धेरभावादतो रूपाभावपर्यन्तानुधावनम् ॥ तद्वारणायेति ॥ कालादारणायेत्य- यः॥५८॥ रामरदीयम् ज्ञानिकारणतया तमादान्द्रियावयवे अतिव्याप्तिवारणाय मनःपदामिति भावः ॥ योग्यानुपलब्धे. रिति ॥ यदि काले घरः स्यात्तदा घटवत्तया उपलभ्येतेयापरीः कालस्यायोग्य त्वेग असम्भषा- दिति भावः । काले यदि रूपं स्यात्तदा उपलभ्यतेत्यापत्तिस्तु सम्भवति नीरूपत्वनैव कालस्या- योग्यतायाः सम्पादनीयतया रूपसत्त्वे तदनिर्वाहादिति भावः ॥ मूले तद्वारणायचेति ॥ कालस्येन्द्रियत्ववारणायवेत्यर्थः । यद्यपि ज्ञानकरणत्वोपादानेऽपि कालविधया कालमनस्संयोगस्यापि ज्ञान- कारणतया तद्दोषतादवस्थ्यं समवायेन कारणत्वविचक्षणे तु कापि कार्य कालमनःसंयोगस्य समवायेनाकार- णत्वात् ज्ञानपदमनर्थकं तथापि समवायेन कारणतालाभायैव ज्ञानपदमथवा दैशिकपरत्वादिकारणदिड्मनः-- प्रयोगमादाय दिश्यतिव्याठिवारणाय तत्पदमिति भावः ॥ ५८ ॥