पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामन्द्रीयसमन्विता । द्रव्यप्रत्यक्षमिन्द्रियसंयोगजन्यम् । द्रव्यसमवतप्रत्यक्षमिन्द्रियसंयुक्तसमवायजन्यम् । एवमग्रेऽ- पि । वस्तुतस्तु द्रव्यचाक्षुषं प्रति चक्षुःसंयोगः कारणं द्रव्यसमवेतचाक्षुपं प्रति चक्षु:- प्रभा. . तदा कर्प. इति ॥ मूले द्रव्यग्रहस्तु संयोगादित्यत्र ग्रहपदस्य यथाश्रुतार्थकत्वे द्रव्यविषयकानुमित्यादे- रिन्द्रियसंयोगजन्यत्वाभावात् अव्याप्तिरतो प्रहपदस्य प्रत्यक्षपरत्वं पञ्चम्याः जन्यत्वार्थकत्वामति बो- धनाय विशिष्टार्थमाह ॥ द्रव्यप्रत्यक्षमिति ॥ द्रव्यत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षमित्यर्थः । यथाश्रुते समवायादिना प्रत्यक्षं प्रति इन्द्रिय संयोगस्य कारणत्वाभावेऽपि न क्षतिः ॥ द्रव्यस. मवेतप्रत्यक्षमिति ॥ द्रब्यसमवेतवृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षमित्यर्थः ॥ एवमनेऽपीति ॥ द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयातासंबन्धेन प्रत्यक्षं प्रति इन्द्रियसंयुक्तसमवेतसमवायस्य कारणत्वाम- त्यादिकामित्यर्थः । ननु द्रव्यदृत्तिलौकिकविषयतासंबन्धेन प्रत्यक्षं प्रति इन्द्रियसंयोगस्य हेतुत्व त्वक्प्रभासं- योगात्प्रत्यक्षापत्तिः । तादृशसंयोगस्यापि कारणतावच्छेदकाक्रान्तत्वात् । यदि वश्चक्षुभ्या आ- स्मसंयोगस्येव त्वक्प्रभासंयोगस्यापि प्रत्यक्ष सामान्य प्रतिबन्धकत्वमनुभवानुरोधात् स्वीक्रियत इति नो- क्तदोष इति विभाव्यते प्रभाचक्षुःसंयोगकाले चाक्षुषान्यज्ञान जायतामितीच्छाकाले प्रभानुमितिसामग्रीसत्त्वेऽपि प्रगाप्रत्यक्षापत्तिः प्रत्यक्षमा प्रति तादृशसामथ्या अप्रतिवन्धकत्वात् । एवं चक्षुःसंयुक्तसमवायसन्निकात, घटीयरूपे प्रत्यक्षमिव घटीयस्पर्श प्रत्यक्षापत्तिरित्यादिदोषसत्त्वात् इ. न्द्रियत्वस्याननुगतत्वेन तद्धटितसंयोगवादेरप्यननुगततया परस्परव्यभिचारादित्यादिदोषसत्त्वाच कथमी- दृशकार्यकारणभाव इति प्राचीनमते दोषं हृदि निधाय नवीनमतमाह ॥ वस्तुतस्त्विति ॥ ए. दिनकरीयम् जन्यत्वघटितस्य व्यापारत्वस्य श्रोत्नशब्दसम्बन्धे समवायरूपेऽभावादाह ॥ व्यापारः सन्निकर्ष इति ॥ द्रव्यप्रत्यक्षमिति ॥ व्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षमित्यर्थः ॥ द्रव्यसमवेतेति ॥ व्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्षमित्यर्थः ॥ एवमग्रेऽपीति ॥ व्यसमेवतसमतवृत्ति लौकिकविषयतासम्बन्धेन प्रत्यक्षमिन्द्रियसंयुक्तसमवेतसमवायजन्यमित्यर्थः । ननु द्रव्यप्रत्यक्षे इन्द्रियसन्निक. पत्वेन हेतुत्वे त्वक्प्रभासंयोगाचाक्षुषापत्तिः एवमन्ध कारे घटचक्षुःसंयोगात् पार्शनापत्तिश्चेत्यत आह ॥ व- स्तुतस्त्विति ॥ नन्वेवमात्मप्रत्यक्षातुरोधेन मनःसंयोगस्य ज्ञानादिप्रत्यक्षानुरोधेन मनःसंयुक्तसमवायस्य रामरुद्रीयम्. ननु विषयेन्द्रियसम्बन्धो व्यापार इति मूलमसङ्गतं शब्दश्रोत्रसम्बन्धस्य समवायस्य नित्यतया तज- न्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वस्यासम्भवात् अत एवैतदस्वरसेनैव व्यापारपदं सन्निकर्षार्थकतया विवृतं मुक्तावल्यामित्याह || जन्यत्वेत्यादि । वस्तुतस्तु तत्र समवायोऽपि व्यापार एवं कथमन्यथा श. ब्दप्रत्यक्षे धोत्रेन्द्रियस्य करणत्वं व्यापारवत्कारणस्यैव करणत्वात् किं तु तज्जन्यत्वं व्यापारलक्षणप्रविष्टं तद- धीनसत्ताकत्वमेव शब्दप्रतियोगिकत्वविशिष्ट समवाय त्यैव प्रत्यक्षजनकतया तादृशस्याकाशात्मकश्रोत्रसत्त्वाधी- नसत्तावत्त्वान्न व्यापारत्वविरोध इति मन्तव्यम् । अस्तु वा इन्द्रियस्य करणत्वोपपत्तये शब्दादेर्विषयस्यैव व्यापारत्वं प्रत्यक्ष विषयस्य कारणत्वात् शब्दादेविषयस्याकाशादिजन्यत्वात्सुखादेरप्यात्ममनःसंयोगजन्यत्वे मनोजन्यत्वानपायादिति विभावनीयम् । ननु द्रव्यप्रत्यक्षे इन्द्रिय संयोगस्य न समवायेन कारणतासम्भवः त- स्य विषयनिष्टस्यात्मन्यसम्भवादिति विषयतैच कार्यतावच्छेदकसम्बन्धो वाच्यस्तथा च द्रव्यविषयकप्रत्य- क्षस्य घट इत्याद्याकारकस्य विषयतया घटत्वादावःयुत्पत्त्या इन्द्रियसंयोगस्य व्यभिचार इत्यतो द्रव्य प्रत्यक्षमि- त्यस्यार्थमाह ॥ द्रव्यवृत्तीति । तथा च प्रत्यक्षत्वमेवेन्द्रियसंयोन्यतावच्छेदक द्रव्यवृत्तिलौकिकविषय- तायाः कार्यतावच्छेदकसम्बन्धत्वादेव घटत्वादौ न व्यभिचार इति भावः एवं संयुक्तसमचायादावप्यूहनीय इत्याह ॥ द्रव्यसमवेतेति ॥ द्रव्यप्रत्यक्ष इति ॥ द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्ष इत्यर्थः ।। इन्द्रिय सन्निकर्षत्वेन इन्द्रियसंयोगत्वेन ॥ चाश्नुषापत्तिरिति । यद्यपि चाक्षुषत्वस्येन्द्रियसंयोगजन्य-