पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । एवं पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तदबोधकवेदाप्रामाण्यम् । मङ्गलं च विघ्नध्वंसविशेषे कारणम, विघ्नध्वंसविशेषे च विनायकस्तवपाठादिः । प्रभा. उपाकतया उपन्यस्यति-अत एवेति ॥ स्वरूपयोग्यतारूपकारणत्वमादाय मङ्गळस्य विघ्ननाशकत्वबोधक- वेदस्याप्रामाण्यनिराकरणादेवेत्यर्थः । वेदाप्रामाण्यमिति ॥ तथाच कूश्माण्डहोमरूपप्रायश्चित्तस्य प्रति- योगिरूपकारणाभायेन फलोपधायकत्वाभावात् प्रायश्चित्तस्य पापनाशकत्वबोधकवेदस्याप्रामाण्यापत्तेः, यदि च स्वरूपयोग्यतारूपकारणत्वमादाय प्रात्यक्षिकश्रुतेः प्रामाण्यमुपपाद्यते तदा आनुमानिकश्रुतावपि तुल्याभि- ति भावः । ननु मङ्गळ न विन्न मे कारणं विनायकस्तोत्रपाठादिजन्यविनध्वंसे व्यभिचारात् । यदि व विनायकोत्कर्षप्रकारकज्ञानस्य तज्जनकशब्दरूपस्य वा स्तोत्रस्य मङ्गत्वेन विघ्ननाशकत्वेऽपि तदनुकूल- कष्टताल्वायभिघातरूपपाटस्य विघ्ननाशकत्वे प्रमाणाभावः । न च 'सर्वे विघ्नादशमं यान्ति गणेशस्तवपाठतः।' इति बचनेन पाटस्य विघ्ननाशकत्वमव्याहतमिति वाच्यम् । गणेशस्तवपाटत इति बचनेन 'कृदभिहितो भावो द्रव्य- वत्प्रकाशते ' इति अनुशासनबलात्पटितस्तोत्रस्यैव तसिल्प्रत्ययेन हेतुत्वप्रतिपादनात् , कष्ठताल्वायभिघातस्य विनाशकत्वे प्रमाणाभाव इति विभाव्यते, तदा प्रायश्चित्तादिजन्यविघ्ननाशे व्यभिचारो दुष्परिहर इत्यत आह-मंगळं चेति ॥ विघ्नध्वंसविशेष इति ॥ विजातीयविघ्नध्वंस इत्यर्थः। तथाच मङ्गनाइयेषु विनेयु नादयतावच्छेदकतया सिद्धबैजात्यमादाय स्वाश्चयप्रतियोगिकरव-कालिकविशेषणत्योभयसंबन्धेन ताशवैजात्या- वच्छिन्नं प्रति मङ्गलस्य हेतुत्वस्वीकारान्न व्यभिचार इति भावः । न च नाश्यतावच्छेदकस्य कार्यतावच्छे. दकत्वं बाधितमिति वाच्यम् । संबन्धभेदेन एकत्रावच्छेदकत्वद्वयस्वीकारे बाधकाभावात् । उकास्वरसं हदि निधाय स्तवपाटादिरित्यादिपदमुपात्तं । आदिना प्रायश्चित्तादिपरिप्रहः । अत्राप्युक्तदिशा कार्यकारणभाव ऊह्यः । एवं इतरबाधसहकृतात सफलत्वव्याप्याविगीतशिष्टाचारविषय ववत् मङ्गळमिति परामर्शात् , विघ्नध्वंस. फालकत्वानुमित्यनन्तरं उक्तरीत्या विघ्नश्वंसकामो मङ्गलमाचरेतेति श्रतिरप्युग्नेयेति मणिकारप्रभृतीनां आशयः । ननु मजकस्य विजातीयविश्ननाशं प्रत्यपि हेतुत्वं न संभवति, आवाहनावद्वासनान्तषोडशोपचारात्मकेश्वरपूजन- रूपमङ्गलस्य एकक्षपत्तित्वाभावात् । न च चरमपूजनस्यैव मङ्गलवमस्त्विति वाच्यम् । न्यानाद्यनुत्तरत्वविशिष्टोद्रा- सनात्मकचरमपूजनस्य विध्न वंसाजनकतया तस्य मनळत्वाभावात् । न च एतदुत्तरत्वविशिष्टचरमोपचारस्य दिनकरीयम् . विघ्ननाशकत्वबोधनात् , प्रायश्चित्तजन्यविघ्नध्वंसे व्यभिचाराचेत्यत आह । मङ्गळं चेति । स्तवपाठादि. रिति । आदिना प्रायश्चित्तपरिप्रहः । तथा च मङ्गळस्य स्वसामानाधिकरण्य-स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्व- मम्बन्धेन महचविशिष्ठविघ्नध्वंसत्वं विजातीयविघ्नध्वंसत्वं वा कार्यतावच्छेदकम् , एवं विनायकस्तवपाठादेस्पद- र्शितसम्बन्धेन विनायकस्तवपाठादिविशिष्टविनवसत्वं विजातीयविध्नध्वंसत्वं वा कार्यतावच्छेदकमिति न व्य. भिचार इति भावः । ननु विघ्नध्वंस एव यदि मङ्गळस्य फलं, तदा समाप्तिकामस्य मङ्गळे प्रवासिन स्यादतः समाप्ति- रामरुद्रीयम् . विनश्वंसकारणत्वमेव विध्यर्थों वाच्यः न तु सति विघ्ने इत्यपि, तद्बोधकपदाभावात् अतस्तन्मूलतात्पर्थमाइ तथा चेति ॥ सति विघ्न इति मूले मंगलादिति शेषः । तथा च केवलदंडात् पटानुत्पत्तावपि दंडो घटकारणमिति वाक्यस्य नाप्रामाण्यं, सबंदा दण्डे घटाव्यहितपूर्वत्वस्य तात्पर्याविषयत्वात् किं तु दण्डे- तरयावद्घटकारणसत्त्वे दण्डे घटाव्यवहितपूर्वत्वमेव तात्पर्य विषयस्तद्वत्प्रकृतेऽपीति मूलाशयः । शमं यांती. त्यादिनेति ॥ आदिना गणेशस्तवपाटत इत्यस्य संग्रहः । ननु स्तवपाठस्य विध्नध्वंसकारणतायास्तादृश. वाक्यबोधितत्वेऽपि पाठजन्य विध्नध्वंसे मंगळस्य व्यभिचारो दुर्घट एव, स्तुतिरूपमंगळस्य पाटकतासम्बन्धेन कार्याधिकरणे वृत्तेरित्यतः स्थलान्तरे व्यभिचारं दर्शयति । प्रायश्चित्तजन्येति ॥ विशेषपदार्धमेव प्रकटय- नाह । तथा चेति ॥ लाघवादाह ! विजातीयेति ॥ प्रवृत्तिर्न स्यादिति ॥ यदि यस्य फलं भवति 5