पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ कारिकावली यस्य ज्ञानत्वे मानाभावान् सविषयकत्वस्यायननुभवादतो विज्ञानादिभिन्नो नित्य आ- त्मेति सिद्धम् । सत्यं ज्ञानमिति ब्रह्मपरं जीचे तु नोपयुज्यते ज्ञानाज्ञानसुखित्वादिभिर्जीवा- नां भेदसिद्धौ सुतरामीश्वरभेदः अन्यथा बन्धमोक्षव्यवस्थानुपपत्तेः । योऽपीश्वराभेदबोध-- प्रभा. जीवस्य तादृशस्वाभावादात्मसामान्यस्य न तद्रूपत्वमिति भावः । आत्मनः निर्विषयकत्वे दूषणमाह ॥ नि विषयकस्यति ॥ मानाभावादिति ।। तथाच ज्ञानत्वस्य विषयताच्याप्यत्वेन व्यापकीभूतविषयत्वा-- नहींकारे ज्ञानत्वमपि न स्यादिति भावः । ननु यद्विषयकत्वं यादृशजीवे अनुभवसिद्धं तादृशजीवस्य तद्विषयकत्वमुषेयत इत्यत्र दूषणमाह || सविषयकत्वस्येति ॥ संविषयकत्वस्यापीत्यर्थः ॥ अननुभ- वादिति ॥ घटस्य ज्ञानमित्यायनुभवात् ज्ञानस्य घटादिविषयकत्वमङ्गीकृतं घटस्यात्मेत्यनुभवाभावात् आत्मनो न सविपयकत्वमिति भावः । उपसंहरति । अत इति ॥ उक्तदोषेण सविषयकत्वासंभ- वादित्यर्थः ॥ इति सिद्धमिति ॥ इत्यवदयमझीकर्तव्यामित्यर्थः । नन्वं सत्यात्मनो विज्ञानरूपत्वप्रति- पादकश्रुतिविरोध इलत आह ॥ सत्यमिति ॥ नोपयुज्यत इति ॥ ब्रह्मपदसामानाधिकरण्यादिति भावः । ननु जीवब्रह्मणोरक्याजीवस्य ज्ञान भिन्नत्वे उक्तनुतविरोधस्तदवस्थ इसतो जीवब्रह्मणोर्मेदं सा- घयति ॥ ज्ञानाज्ञानेति ॥ मुखित्वादीत्यादिना दुःखिमपरिग्रहः ॥ भेदसिद्धाविति ॥ परस्परंभेदानुमि- तावित्यर्थः । तथाच एतच्छरीरावच्छेयविज्ञानादिमान् एतच्छरीरसमानकालीनयोगाद्यजन्यैतच्छरीर सजातीय- तच्छरीरभित्रशरीरावच्छिन्नभिन्नः एतच्छरीरसमानकालीनैतच्छरीरसजातीयतच्छरीरभिन्नयोगाद्यजन्यश. रीरावच्छेद्यज्ञानाद्य माधारत्वादिति व्यतिरेक्यनुमानात् जीयानां परस्परभेदस्सिध्यतीति भावः ॥ सु. तरामिति ॥ अन्यथानुपपत्त्येत्यर्थः । ईश्वरभेद इति ॥ ईश्वरजीवयो द इत्यर्थः । अङ्गीकर्तव्य इति शेषः । अन्यथा एकमेवेत्यादिश्रुतिविरोधापत्तरिति भावः । ननु ईश्वरस्य जीवभिन्नत्वेऽपि ममैवां- शो जीबलोक इति वचनेन जीवानामीश्वरांशत्व प्रतिपादनात् ईश्वराभिन्नत्वमशीकार्य समुद्रस्य तरङ्गमितत्वेऽपि समुशिभूततरगाणां न समुद्रभिन्नत्वं वदतो जीवानां विज्ञानाभिन्नत्वभिराबाधमिति मतं दूषय. ति ॥ अन्यथेति ॥ जीवानामीश्वरा भिन्नत्व इत्यर्थः ॥ बन्धमक्षिति ॥ कश्चित् संसारी बद्धः कश्चित् दिनकरीयम्. सम्भवात् नात्ममात्रस्य नित्यज्ञानस्वरूपत्वमिति भावः ननु जीवस्य न जाद्विषयकत्वं नवा निय तयत्किञ्चिद्विषयकत्वं ब्रमः परन्तु यद्विपय करवं यन जीवेऽनुशासिद्धं तत्र तद्विषयकत्वमत आह ॥ स- विषयकत्वस्यति ॥ ननु सत्यं ज्ञानमिति श्रुतिरेव जीवस्य ज्ञानस्वरूपत्वे प्रमाण मत आह त्यमिति ॥ ननु जीवब्रह्मगौरक्यानित्यविज्ञानरूत्वं जीवस्य निरावधिभित्यतो जीवब्रह्मणोंमदं साध. यति ॥ ज्ञानाज्ञानेति ॥ सुखित्वादीत्यादिना दुःखित्वपरिग्रहः ॥ सुतरामिति ॥ जीवात्मनो ना- नात्वसिद्धावीश्वरस्यैकस्यानेकजीवात्मकत्वासम्भवादकत्वाने कत्वयाविरोधादिति भावः ॥ ईश्वरभेदः ईश्वर' जीवात्मनो दः सिभ्यतीत्यर्थः ।। अन्यथा ईश्वरस्य जीवात्मकत्वे ॥ बन्धमोक्षेति ॥ कश्चित्संसार बद्धः रामरुद्रीयम्. तथैव प्रतीत्युपपत्तौ तज्जातीयत्वावगाहित्वानुसरणवैयोपत्तेः प्रतीतेः प्रमात्योपपादनायैव तदनुसरणात्त- दनुसरणेनाध्यप्रतीकारादिति विभावनीयम् । क्षणिकविज्ञानपक्ष इत्यस्य विज्ञानस्य क्षणिकत्वपक्ष इत्यर्थकता. भ्रमं निराकुरुते ॥ आत्मन इति ।। उत्तरत्र दूषणद्वयस्य मूले वक्तव्यतया विकल्प्य दूषणद्वयं सङ्गमयति ॥ आत्ममानस्येति ॥ यत्किञ्चिद्विषयकत्वं वेति ॥नियतैकविषयका वमित्यर्थः। यथाश्रुते अनुभवानुसा. रेण नियतयत्किञ्चिद्विषयकत्वस्यैव व्यवस्थापनीयतया असत्यापत्तेः । तद्विषयकत्वमिति ॥ तथा चानुभवानुसारित्वात्कल्पनाया न विनिगमनाविरहावकाश इति भावः ॥ सविषयकत्वस्येतीति ॥ नहि घडविषयकः अपितु घटविषयकज्ञानवानिलेव अनुभवादिति मूलाशयः ॥ अन्यथेति ॥ नन्वेकस्मिन्नेव ब- ॥ स.