पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ३९७ अस्तु तर्हि क्षणिकविज्ञाने गौरवात् नित्यविज्ञानमेवात्मा अविनाशी वारेऽयमात्मा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिश्रुतेश्चेति चेन्न । तस्य सविषयत्वासम्भवस्य दर्शितत्वानिर्विष- प्रभा. वेदान्तिमतमुपन्यस्यति ॥ अस्तु तहीति ॥ क्षणिकविज्ञान इति ॥ आत्मनि क्षणिकवि- ज्ञानरूपे सति गौरवादात्मनः क्षणिकविज्ञानरूपत्वासंभवादिन्यर्थः ॥ आत्मेति ॥ अस्त्विति पूर्वेणान्वयः । आत्मनः निलत्वे श्रुतिप्रमाणमाह ॥ अविनाशीति ॥ आत्मनः नित्यत्वविज्ञानरूपत्वोभयसाधकच- त्यन्तरमाह ॥ सत्यमित्यादि । आत्ममात्रस्य नित्यविज्ञानरूपत्वमीश्वरस्य वेति विकल्प्याचे दूषणमाह ॥ त- स्येत्यादिना ॥ दर्शितत्वादिति ॥ तस्य जगद्विषयकत्वे इत्यादिग्रन्थेन प्रतिपादितत्वादित्यर्थः । तथाच दिनकरीयम्. मावश्यकमिति वाच्यम् । मन्मते अङ्कु प्रति वीजानां धरणिसलिलसंयोगादिसहकारिणां च कुर्व द्रू- पत्वेनैव हेतुत्वकल्पनात् कुर्वदूपत्वानजीकारे तु बीजत्वधराणिसलिलसंयोगत्वादिनानाहेतुत्वकल्पने' गौर- वादिति । तदसत ईदृशगौरवापेक्षा क्षणिकानन्तपदार्थकल्पनेऽतिगौरवात् । न च लाघवात्कुर्वद्रूप- त्वेन तेषामेकहेतुतासिद्धावीदृशं गौरवं न दोषाय फलमुखत्वादिति वाच्यम् । फलमुखगौरवस्यापि दो- षत्वात् । किं च जगृतः क्षणिकत्वे स एवायं घट इति प्रत्यभिज्ञानुपपत्तेः पूर्वकालीनघटा दस्यतत्का- लीनघटेऽभावात् । न च तज्जातीयाभेद एव तादृशग्नतांतपिपयः तन्मते जातेरपि क्षणिकत्वेन पूर्व- कालीनघटवृत्तिघटत्वत्यैतत्कालीनघटेऽभावात् । एतेन जगतः क्षणिकरत्वे नाशत्वावच्छिन्नं प्रति सत्त्व- नैकमेव हेतुत्वमिति लाधवमित्लपास्तम् । यदपि स्थिरपदार्थाीकारे एकस्मिन् पदार्थे सामर्थमसाम• यं च विरुद्ध मतस्तद्भेद इति तदपि न । एकस्मिन्नेव पदार्थ एककालावच्छेदेन सामय तदभावयारव विरुद्धतया कालभेदेन तत्स्वीकार बाधकाभावात् । यत्तु पूर्वापरकालीनधर्मिणोरभेदे तद्धर्मयोः सामा- सामर्थ्ययोमैदोऽनुपपन्नस्तन्मते धर्मर्मिणोरमेदादिति । तन्न घटत्वं न घट इत्यादिप्रतीतीनामप्रामा- ग्यापत्त्या धर्मधर्मगोरभेदस्य वक्तुमशक्यत्वादिति दिक् । इति क्षणिकवादिमतखण्डनम् ॥ वेदान्ती शक्कते । अस्तु तहीति ॥ क्षणिकविज्ञान इति ॥ आत्मनः क्षणिकपिज्ञानस्वरूपत्वपक्ष इत्यर्थः । आत्ममात्रस्य नित्यपिज्ञानरूपत्वमीश्वरस्य पेति विकल्प्याथे दृषणमाह || तस्येति ॥ द. र्शितत्वादिति ॥ तस्य जगद्विषयकत्व इत्यादिग्रन्थेन दार्शतत्वादित्यर्थः । तथा च जीवस्य तथावा- रामरुद्रीयम्. स्यात्तदा नानाकारणताकल्पनरूपगौरवोपधायकं स्यादिति तक एवोकव्याप्ती प्रयोजक इति भावः ॥ मन्म- त इति । तथा च कुर्वदूपत्वेन सषां कारणत्वेऽपि कारणता एकव त्वन्मते तु नानाकारणता कल्पनायेति गौरव- मिति भावः ।। ईदृशगौरवेति ॥ कतिपयकारणताकल्प नगौरवेत्यर्थः ॥ फलमुखत्वादिति ॥नानाकारण- ताकल्पनापेक्षया लाघवेन कुर्वपत्वेनैककारणतासिद्धौ एतदुपपत्तये नानाच्या कल्पने तादृशकल्पनायाः का- रणतासिद्धयत्तरकालीनतया तादृशगौरवज्ञानस्य पूर्वतनामुमतिप्रतिबन्धकत्वाराम्भवादिति भावः न च का- रणतानिश्चयात्पूर्वमपि यत्सदित्यादिव्याप्त्या नानाव्यक्तिकल्पनमुपतिटत एवति वाच्यम् । तादृशव्याप्तेरन- योजकत्वाशङ्कानिरासाय उक्ततापक्षया तत्र चापाद्यव्यतिरेकनिश्चयसम्पादकस्यक रूपेण तादृशनिश्चयस्यापे- क्षणीयतया गौरवोपस्थिते कारणतासिद्धयुत्तर त्वनियमादिति भावः ॥ दोपत्वादिति ॥ उत्पन्नायामप्या नुमितौ उत्तरकालीनगौरवज्ञानेनाप्रामाण्यज्ञानोत्पत्त्याऽप्रामाण्यज्ञानास्कन्दितानुभित्या एककारणतासिद्धयस म्भवादिति भावः । यद्यपि तन्मते जतिरलीकतया सत्वाभावेन न क्षणिकत्वं निखपदार्थानां तरनजीकारात अनुगतधर्मानीकाराच्च कुर्व द्रूपत्वस्याप्यपोहरूपत्वात् । न च ताई सदसतोः सम्बन्धाभावेन तज्जातीयत्वं घटे नास्त्येवेति प्रत्यभिज्ञानुपपत्तिरिति वाच्यम् । असतोऽपि तैर्भानाजीकारेण प्रत्यभिज्ञानसम्भवादिदमसङ्गतं तथापि असद्विषयकत्वेन प्रत्यभिज्ञाया भ्रमत्वापत्तिरेव तन्मते दूषणम् । न चेष्टापत्तिस्तथासति अभेदावमादि-