पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामभद्रीयसमन्विता । रणाभावान्न सुखदुःखाद्युत्पत्तिः नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावनियम इत्यस्याप्रयो- प्रभा. प्रहः। नच तादृशकारणतावच्छेदकतया सिद्धात्मत्वजातिरीश्वर इवाकाशादावपि स्वीक्रियतां अदृष्टरूपका- रणविरहादेवात्रापि सुखाद्युत्पत्तिवारणसंभवादिति वाच्यं न केवलं तादृशावच्छेदकतया आत्मत्वजातिसिद्धि- रङ्गीकृता किन्तु आत्मपदशक्यतावच्छंदकतया सिद्धात्मत्वजातेः लाघवात् सुखसमत्रायिकारणतावच्छेदक- स्वस्यापि स्वीकारे तादृश जातिमति ईश्वरे सुखाद्युत्पत्तिवारणायादृष्टादिकारणविरहादित्युक्तम् । नादृष्टाभावेन सुखाद्युत्पत्तिवारण संभवमात्रेण सर्वत्र तादृशजातिस्वीकारस्संभवति मानाभावादिति भावः । ईश्वरेऽपि ताह- शजातिस्वीकारे नित्यस्येत्यादिनियमभङ्ग इत्यत आह ॥ नित्यस्य स्वरूपयोग्येति ॥अप्रयोजकत्वा- दिति । तथाच नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभाव इत्येव नियमात सकल कारणसवाघटिततादृशानियम मानाभावादिति भावः । केचित्तु अप्रयोजकत्वादिति जलपरमाणौ स्नेहानुत्पत्त्या तादृशनियमे माना- भावादिति भाव इत्याहुः तदसत् जन्यस्नेहजनकतावच्छेदकतया सिद्धजलवजातेः जलपरमाणुवृत्तित्वस्वी- कार एव जन्यस्नेहस्वरूपयोग्यजलपरमाणौ स्नेहानुत्पत्त्या तादृशनिय मे भानाभावादित्युक्तिस्सङ्गता ! भवेत् नचैवं जन्यस्नेहजनकतावच्छेदकतया सिद्धजन्य जलमात्रवृत्ति वैज्ञात्यमादाय तदवच्छिन्नजनकतावच्छे- दकतया सिद्धजलवजातरेव जलपरमाणुसोधारण्यस्वीकारात् तत्र जन्यजलरूपकार्योत्पत्त्या व्यभिचारा. भावादिति । ननु ईश्वरे अदृष्टं कुतो नोत्पद्यत इति चेन्न तत्त्वज्ञानान्यज्ञानरूपकारणाभावात्तस्याहेतुत्वे मुका- स्मन्याप अदृष्टोत्पत्त्यापत्तेः । एवंच यागादिविशेष्यकष्टसाधनत्वज्ञानस्यापि तत्वज्ञानान्यत्वेन तस्यापि तादृशज्ञानरूपतया चिकीर्षादिद्वारा अदृष्टहतुत्व संभवात् ईश्वरज्ञानस्यैकत्वेन तदन्यत्वाभावात् मुक्तात्मनः ज्ञानसामान्याभावाच नादृष्टोत्पत्तिरिति । नन्वन सुखसमवायिकारणतावच्छेदकतया सिद्धो जाति विशेषः जीवस्वमेव नात्मत्वं अतिप्रसक्तत्वात् अन्यथा द्रव्यत्वमपि तादृशजातिविशेषस्स्यादिति वदतां दिनकरीयम्. इति नियमेनेश्वरस्य स्वरूपयोग्यत्वे फलोपधानापत्तिरित्यत आह ॥ नित्यस्येति ॥ अप्रयोजकत्वादि- ति॥ जलपरमाणौ स्नेहानुत्पत्त्या तादृशनियमे मानाभावादिति भावः । नन्वीवरेऽदृष्टं कुतो नोत्प- द्यत इति चेन्न मिथ्याज्ञानरूपकारणाभावात् मिथ्याज्ञानस्याहेतुत्वे च मुक्तात्मन्यप्यदृष्टोत्पत्तिप्रसङ्गः । वेदस्थात्मपदादानादिमति लक्षणापत्तिरित्यस्वरस आहुरित्यनेन सूचितः । इन्दियाद्यधिष्ठातेति मूलमात्मनि रामरुद्रीयम्. चारः प्रदर्शितः एवमिच्छादिकं प्रति ज्ञानादेः कारणत्वेन तदभावादेव मनसि तदापादनासम्भवेन ज्ञानमा- त्रानुसरणं इत्थं च कार्यवृत्तिजातेस्तदवच्छिन्नस्याकस्मिकत्वापत्तिवारणाय किञ्चित्कारणजन्यतावच्छेदकत्वनि- यम एवाङ्गीक्रियते न तु समवायिकारणजन्यतावच्छेदकत्वनियमोऽपि तदनभ्युपगमे क्षतिविरहादियात्मत्वं न पूर्वोक्तयुक्त्या सिध्यतीति पूर्वपक्षोऽपि निरवकाश इति भावः । सुखायुत्पत्तिरित्यत्र आदिना ज्ञानपरिग्रहः । अत एव तदापत्तिवारकशरीरस्यादिपदेन ग्रहणं सार्थकं ज्ञानं प्रति शरीरस्य स्वावच्छिन्नभोगजनकादृष्टवत्त्वस- म्वन्धेन हेतुता तदभावादेव मुक्तस्य न ज्ञानोत्पत्तिरिति भावः । अदृष्टशब्दस्यात्र धर्मोऽर्थः सुखं प्रति तस्यैव का- रणत्वादिति ध्येयम् ॥ कुतो नोत्पद्यत इतीति ॥ अथेश्वरस्य शरीराभावेन तदीयशुभाशुभकर्माभावादि- यमापत्तिरयुक्ता नह्यस्मदादिशुभादिकर्मणा ईश्वरेऽदृष्टोत्पत्तिरापादयितुं शक्या चैत्रक्रियया मैत्रात्मन्यदृष्टो- त्पत्तिवारणाय क्रियाया अवच्छेदकतासम्बन्धेन खकारणीभूता या कृतिस्तद्वत्त्वसम्बन्धेनैवाऽदृष्ट कारणतायाः खीकरणीयत्वादी श्वरकृतेरस्मदादिशरीरानवच्छिन्नतया अवच्छेदकतासम्बन्धेन अहेतुत्वात् । न च स्वज. नककृतिमत्त्वसम्बन्धेनैव कर्मणोऽदृष्टहेतुत्वमस्तु चैत्रक्रियायां मैत्रीयकृतेरजनकत्वान्न पूर्वोक्तापत्तिरेवं च का- र्यमात्र एवेश्वरकृतेः कारणत्वेन ईश्वरेऽदृष्टापत्तिः सम्भवत्येवेति वाच्यम् । कालिकसम्बन्धावच्छिन्नकार्य- स्वावच्छिन्नकार्यतानिरूपितकालिकसम्बन्धावच्छिन्नकृतित्वावच्छिन्न कारणतायाः कृतिमात्रे सत्त्वात् ता -