पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ कारिकावली खादिसमवायिकारणतावच्छेदकतया सिध्यति । ईश्वरेऽपि सा जातिरस्त्येव अदृष्टादिरूपका- प्रभा. च्यं तथा सति मनसोऽपि शरीराभावेनैव तत्र ज्ञानोत्पत्त्यभावात् आत्मत्वेन हेतुत्वे उक्तापत्तिवारणरूपप्र- माणसंभवात् । नच घटादौ ज्ञानोत्पत्तिवारणाय विजातीयात्ममनासंयोगस्य हेतुत्वावश्यकतया तेनैवेश्वरे ज्ञा नोत्पत्तिवारणसंभवेन आत्मत्वेन हेतुत्वे न किमपि बाधकमिति वाच्यं आत्मत्वेन कारणत्वं विनात्ममनस्संयो- गस्यासमवायिकारणत्वासंभवेनात्ममनासंयोगस्यासमवायिकारणत्वान्यथानुपपत्या आत्मत्वेन हेतुत्वमावश्य- कमित्यनुक्त्वा मनसि ज्ञानोत्पत्त्यापत्तिवारणाय तदावश्यकमित्युक्तौ बीजाभावात् अनुयोगितासंबन्धनात्ममन- संयोगस्य हेतुत्वस्वीकारे मनसि तेन संबन्धेनात्मसंयोगाभावेन तदापत्त्यभावात् सुखादिसवायिकारणता- वच्छेदकतयेति मूलविरोधापरिहाराच्च आत्मत्वस्य सुखसमवायिकारणत्वावच्छेदकत्वानुपादानात् । वस्तुत. स्तु आत्मपदशक्यतावच्छेदकतया अत्मत्वजातिसिद्धिः असतिबाधके शक्यतावच्छेदकतया जातिसिद्धेस्सकल- तन्त्रसिद्धत्वात् अदृष्टपदस्य नानार्थकत्वेनादृष्टपदशक्यतावच्छेदकतया जातिसिद्धरपि वारितत्वात् । न चैव. मपि विभुपदशक्यतावच्छेदकतया विभुत्वस्य जातित्वापत्तिारेति वाच्यं भूतत्वेन साङ्कर्येण तथापत्त्यसंभ वात् । अत एव गुणदीधितो गुणपदशक्यतावच्छेदकतया गुणत्व जातिसिद्धिव्यवस्थापन भट्टाचार्यशिरोमणी- नां सङ्गच्छते । एवंच सकलात्मसाधारणात्मत्वजातिसिद्धौ तस्य व्याप्य लघुधर्मरूपतया तस्यैव सुखादिसमवा. लयिकारणतावच्छेदकत्वं फलितमिति विश्वनाथपञ्चाननस्याभिप्राय इति प्रतिभाति । ननु एतादृशात्मत्वस्य ईश्वरसाधारण्ये तत्र कुतो न सुखाद्युत्पत्तिरत आह ॥ अदृष्टादीति ।। आदिना दुःखाद्यवच्छेदकशरीरपरि- दिनकरीयम्. जातिरूपं तन्न सिध्यति अनेकसमवेतत्वघटितजातित्वग्रहेऽनेकव्यक्तिग्रहहेतुत्वस्य सर्वसिद्धत्वादित्य नुमानमेव तत्र प्रमाणमित्यभिप्रायेण सुखदुःखादिसमवायि कारणतावच्छेदकत या तसिद्धिःप्रदर्शिता । अथ सुखत्वाद्यव- च्छिन्नं प्रत्यात्मत्वेन कारणत्वे मानाभावः सुख दुःखद्वेषभावनाधर्माधर्मान् प्रति यधाक्रमं धर्माधर्मानिष्टसाधनत्वा. दिज्ञानानुभवविहितनिषिद्धकर्मणां समवायसम्बन्धेन निमित्तकारणत्वावश्यकतयाऽतिप्रसङ्गाभावात् भावकार्या. णां ससमवाधिकारणकत्वनियमस्य तु द्रव्यत्वेन तत्तद्वयक्तित्वेन वा समवायिकारणत्व मादायवोपपन्नत्वादिति चे. तू अत्र प्राञ्चः कार्य मात्रवृत्तिजातेः समवायिकारणकार्यतावच्छेदकत्वनियमेन तादृशकार्यकारणभावस्यावश्यक. त्वात् । नच तावता सुखत्वाधवच्छिन्नं प्रति सत्वेन द्रव्यत्वेन वा कारणत्वमस्तु अदृष्टादेनिमित्तकारणत्वादेवा. तिप्रसनविरहादिति वाच्यम् । व्याप्यलघुभूतधर्मे कारणतावच्छेदके सम्भवति व्यापकधर्मेण कारणत्वकल्प. नाया अन्याय्यत्वादित्याहुः । वस्तुतस्तु मनसि ज्ञानोत्पत्तिवारणाय ज्ञानत्वाद्यवच्छिन्नं प्रत्यात्मत्वेन हेतुवमा. वश्यक मिति । ननु तथाप्यात्मत्वजातेभगवदात्मसाधारण्ये मानाभाव इत्यत आह ॥ ईश्वर इति ॥ आत्मा वा अरे द्रष्टव्यः इत्यादिश्रुतावात्मपदव्यवहारादिति भावः । ननु तहीश्वरे सुखाद्युत्पत्तिः कुतो न भवतीत्या आह ॥ अदृष्टादीति ॥ आदिना शरीरपरिग्रहः । ननु तथापि नित्यस्य स्वरूपयोग्यत्वे फलावर !म्भाव रामरुद्रीयम्. थत्वात् । जातिरूपमिति ॥ तथा चात्मत्वस्य स्वरूपतः प्रत्यक्षत्वेऽपि तद्गतजातिवं न प्रत्यक्षसिद्धामि- ति भावः । ननु सुखादीनामात्माभिने उत्पादो निमित्तकारणाभावादेव न सम्भवति किमर्थमात्मनः तत्र सम. वायिकारणतेत्याशङ्कते ।। अथेति ॥ कार्यतावच्छेदकनियमादित्यस्य समवायिकारणेत्यादिस्तेन निमित्तकार- णजन्यतावच्छेदकत्वेनापि सुखस्वस्य समवायिकारणजन्यतानवच्छेदकत्वेऽपि मोक्तनियमस्य भङ्गः ॥ अन्या. य्यत्वादिति ॥ अनेकव्याक्तेिषु कारणताकल्पने गौरवादिति भावः । नन्वन्न कारणता न फलोपधायकता- रूपा तस्या द्रव्यत्वेन कारणतावादिनापि आत्मन्येव स्वीकारात् किं तु स्वरूपयोग्यतारूपैव सा च कारण- तावच्छेदकरूपैवेति नवद्रव्येषु द्रव्यत्वस्य क्लुप्तत्वान्न तत्कल्पनागौरवामित्यस्वरसादाह । वस्तुतस्त्विति ।। आवश्यकमितीति । तथा च सुखसमवायिकारणतावच्छेदकतया तदसिद्धावपि ज्ञानसमवार्यिकारणता- बच्छेदकतयैव तत्सिद्धिरिति भावः । ज्ञानं प्रत्यात्ममनःसंयोगस्य हेतुत्वेन घटादौ तदभावान्मनस्येव व्याभ-