पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकाबली - जकत्वात् । परे तु ईश्वरे सा जातिनास्त्येव प्रमाणाभावात् नच दशमद्रव्यत्वापत्ति ज्ञान- वत्त्वेन विभजनादित्याहुः ॥ इन्द्रियाद्याधिष्ठाता ।। इन्द्रियाणां शरीरस्य च परम्परया चै- तन्यसम्पादकः । यद्यप्यात्मनि अहं सुखी दुःखीत्यादिप्रत्यक्षविषयत्वमस्त्येव तथापि वि-- प्रभा. मतमाह ॥ परे स्विति ॥ प्रमाणाभावादिति ॥ अतिप्रसक्तत्वादित्यर्थः ॥ नच दशमंद्रव्यत्वाप- तिरिति ॥ इदमुपलक्षणं श्रुतिघटकीभूनात्मत्वजातिपदवाच्यत्वानुपपत्तिश्चेत्यपि बोध्यं ॥ज्ञानयत्त्वेनेति ॥ श्रुतिघटकीभूतात्मशब्दस्य ज्ञानावच्छिन्ने लाक्षणिकत्वाचेत्यपि बोध्यम् । पूर्वोक्तरीत्या ईश्वरे तादृशजातिस्वी. कारेऽपि बाधकाभावात् जात्यवच्छिन्ने शक्ति परित्यज्य ज्ञानावच्छिन्ने आत्मपदशक्त: लक्षणाया वा कल्पन- मनुचितमित्यम्बरसं हृदि निधायाहुरित्युक्तमिति ध्येयम् । एतावरा आत्मनो लक्षणमुक्त्वा स्वरूपं वकुमिन्द्रि- यायधिष्ठातेति मूलं स्वरूपपरतया व्याकरोति ॥ इन्द्रियाणामिति ॥ आदिपदार्थमाह || शरीरस्य चेति ॥ अधिष्ठातेति मूलार्थमाह ॥ चैतन्यसंपादक इति ॥ तथाच जपाकुसुमं स्वसंयुक्त स्फटिका दौ दिनकरीयम्. प्रमाणपरत या व्याचष्टे ॥ इन्द्रियाणामिति ॥ आदिपदसङ्गाह्यमाह ॥ शरीरस्येति । परम्परया जनक तासम्बन्धेनावच्छेदकतासम्बन्धेन वा ।। चैतन्यं ज्ञानवत्त्वम् । एतेनात्मनि प्रमाणं दर्शितम् ! अचेतन रामरुद्रीयम्. नायां विशेषकारणतायामांश्वरकृती मानाभावादिति चेन्न । जीवादृष्टवशेन ईश्वरपरिगृहीतरामकृष्णादिश- रीरचंटाया ईश्वरकृतिजन्यत्वस्वीकारात्तच्छरीर चेष्टाया जीपीय कृत्य साध्यतयाऽवच्छेदकतयेश्वरकृतिजन्यत्व मावश्यकं अस्मदीयचेप्टातो विलक्षणत्वात् । न च तदीममुखप्रसादमालिन्याभ्यां मुखदुःखयोरनुमानाद्भोग- स्यापीश्वरे प्रसङ्ग इति वाच्यम् । ईश्वरशरीरे अहं स्वामीत्युपासनया कस्यचित् तच्छरीरमित्युपगमात् प. रन्तु जीवासाध्यचेष्टोपपत्तये भूतावेशन्यायेन तच्छरीरे अवच्छेदकतयेश्वरकृतिकल्पनादिति नानुपपत्ति- लेशोऽपील्यवेधयम् ।। मुक्तात्मन्यपीति ॥ जीवन्मुकात्मन्यपीत्यर्थः । परममुक्तस्य शरीराभावेन कर्मण एवाभावात् मिथ्याज्ञानपदमपि शरीरे आत्मज्ञानजन्यवासनापरं अन्यथा तादृशज्ञानविरहदशा यां अदृष्टानुत्पा- दप्रसङ्गात् जीवन्मुक्तस्य आत्मसाक्षात्कारेण तादृशवासनानाशेऽपि प्रारब्धबलात्तत्कार्यस्य शरीरस्य न नाश इति बोध्यम् ।। मूले इन्द्रियाणामधिष्टातेति ॥ अधिष्ठातृशब्दस्य तन्निष्टक्रियाजनकार्थकत्वे प्रवृत्यायनु- मेयोऽयमित्यनेन गतार्थता स्यात् तनिष्ठव्यापारजनकज्ञानजनक इत्यर्थकत्वे च गौरवमतस्तनिष्टज्ञानवत्व. सम्पादकतार्थकता इन्द्रियाणामित्यादिना मूले दर्शिता ॥ अवच्छेदकतेति ॥ यद्यप्यवच्छेदकतासम्बन्धेन तदीयज्ञानं प्रति तादात्म्यसम्बन्धेन तदीयशरीरस्य हेतुताया आवश्यकतयाऽवच्छेदकत्वोपादाने प्रयोजनामा. वस्तथापि खण्डशरीरसमकालोत्पन्नज्ञानव्यक्तौ द्वितीयक्षणोत्पन्नखण्डशरीरस्य पूर्वमसत्त्वेनाकारणतया व्यभि- चारेणोक्त कार्यकारणभावासम्भवः परन्तु तत्समवेतगुणानां तदीयशरीरेणैवावच्छेद्यावच्छेदकभावनियमोपग- मादेव घटादीनां न ज्ञानावच्छेदकत्वमिति भावः। तथा चोत्तरत्र मूलोकं ज्ञानोपधानं उक्कान्यतरसम्बन्धेन ज्ञानवत्त्वमेवेति पर्यवसितम् ॥ एतेनेति ॥ इन्द्रियाणि शरीरं च ज्ञानाधिष्टितं अचेतनत्वे सति उफान्यतर- सम्बन्धेन ज्ञानवत्त्वाद्वाप्स्यादिवदित्य नुमानमात्मनि प्रमाणं दर्शितामत्यर्थः । अत्राधिष्ठितत्वं सहकृतत्वं तच स्व- भिन्नत्वे सति स्वजन्य कार्योपधायकत्वं स्वस्मिन् स्वसह्कृतत्वाप्रतीतेः स्वभिन्नत्वनिवेशस्तथा चोक्कानुमानेने- न्द्रियादिभिन्नज्ञातृसिद्धिः ज्ञानोपधायके आत्मनि व्यभिचारवारणाय हेतौ सत्यन्तं । न चेश्वरमादाय साध्यसत्त्वान्न व्यभिचार इति वाच्यम् । सहकारिताघटकजन्यतायाः कार्यवानवच्छिन्नाया एव प्रकृते निवेशितत्वादीश्वरजन्यत्वस्य ज्ञानेऽसम्भवाच तदीयकृतरेव कार्यमात्रे कारणत्वादिति ध्येयम् । य- यपि शरीरस्य ज्ञानाकारणत्वेन तत्र चेतनसहकृतत्वं दुर्घट तथापि चेतनाधिष्ठितत्वं उकान्यतर- सम्बन्धेन चेतनप्रयोज्यतत्तत्कियावत्वमेव प्रयोज्यत्वं च जन्यतजन्यसाधारणं । तेन छिदा प्रति