पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामस्द्रीयसमन्विता । समाप्रिय फलं कल्प्यते । इत्थं च यत्र सत्याम समाप्तो मङ्गलं न दृश्यते, तत्रापि जन्मान्त- प्रभा. - परिसमाप्यतामिति कामनथैव विवाविवाहादी मंगळकरणं दृष्टमिति, तद्रीत्या ग्रन्थादावधि नादृशकामन यैव मंगळकरणंबाच्यमिति, तादशकामनावि पयत्वेन निर्विघ्नपरिसमाप्तरवापस्थितत्वादित्यर्थः । तथाच इष्टसाधन- त्वव्यायाविगीतशिष्टाचारविषयत्वयन मंगळ इनि परामशति उक्तदिशा इतरफल साधनत्वबाधज्ञानसह- कृतात, व्यापकतावनइंदकेटसाधनत्वत्वेन समाप्तिसाधनत्यविषयका नुमितिः, तादृशपरामशात व्यापकतानव- नछद्कसमाप्तिसाधनत्वश्वेन समाप्तिसाधनत्यविधेयकानुमितिया भवतीति भावः । इदमुपलक्षणं, मंगळस्य समा- प्तिसाधनम्वे शिष्टाचारानुमितश्रुतिरीप प्रमाणमिति बोध्यम् । न च अनुमितश्रुतेरानुपूर्वाविशेषनिर्णयाभावेन कथं बोधकत्वमिति वाच्यम् । प्रत्यक्षश्रुतेः भग बदुचरितानुयाः केनाप्यश्रुतत्वेन पूर्वपूर्वाध्यापको चरितानु- पूर्वाविशेषवत्वनिर्णयादेव यथा बोधकत्वं तथा अनुमितश्रुतेरपि सर्वज्ञभाष्यकारप्रभृतिभिः उच्चारितानु- पूर्वी विशेषचत्त्व निर्णयादेव बोधकत्वसम्भवात् । अत एव न च तस्य निष्फलत्वे' इत्याद्यनिममुक्तावळीग्रन्थोऽपि सङ्गच्छते। इदानी पूर्वोक्तव्यतिरे कव्यभिचारमुद्धरति इत्थं चेति ॥ मङ्गलस्य समाप्तिफलकत्वे अनुमिते मजषा. यमुखेऽतिग्रसक्तं अत आचारति । यद्यप्याचार: क्रिया तथापि विषयत्वश्रुतेः कृतिरेव विवक्षिता । विषयत्वं विधेयतया बो यं तेन फले न व्यभिचारः, तस्योद्देश्यतया कृतिविषयत्वात् । विधेयतया कृतिविषयत्वं चेत्य- दिनकरीयम् . पुरुषका मनाविषयत्वन परिशेषानुमाने प्रवतमानस्योपस्थितत्वादिल्यर्थः । कल्प्यते, अनुमीयते । अनेन च मङ्गलस्य समाप्तिहेतुत्वेऽनुमानमव प्रमाणं, न तु शिष्टाचारानुमिता श्रुतिः, इदानीमानुपूर्तीविशेषनिर्णयाभावेन तस्याबोधकत्वादिति सूचितम् । व्यापकन्वघटितकारणताग्रहप्रतिबन्धकज्ञानविषयव्यतिरेकव्याभिचारमुद्धति- इत्थं चेति । मङ्गलम्य समाप्तिफलकत्व सिद्ध चेत्यर्थः । तत्रापि, नास्तिकादिग्रन्थेऽपि । तत् , मङ्गलं । कल्प्यत अनुमीयते, कार्यरूपसमाप्त्येत्ति शेषः । माहासन्देहपर्यवसन्नस्य पूर्वोक्तव्यभिचारसंशयस्य कारणतानुमिताव- रामरुद्रीयम् . - पुनादिफलकत्व पुत्रवदादीनां तत्र चवृत्तिन स्यात् , स्वर्गफलकत्वे तु तस्य सर्वेषामिच्छाविषयतया । सर्वेषां तत्र प्रवृत्तिः सम्भवतीति स्वर्ग एवं फलत्वेन कल्पयितुमुचित इति न्याय पर्यवसितार्थः । तन्न्यायाइ- वापि स्वर्ग एवेष्ट कलायनामित्यर्थः । उपस्थितत्वादित्यनेन कस्योपस्थितत्वमुक्तमित्याकाकायामाह । परिश- • पानुमाने प्रवर्तमानस्यति । समाप्त्यन्या फलकत्वे सति सफलबहेतुकानुमान इति तदर्थः । ननु समा प्सित्वेन समाप्तेहपस्थितिरकिचित्करी व्याप्तिघटकाभावादीनामप्युपस्थितत्वाविशेषादित्यत आह । ग्रन्थादी न प्रवृत्तपुरुषकामनाविषयत्वेनेति ॥ तथा च तादृशकामनाविषयत्वप्रकारकोपस्थितिविषयत्वं नान्येषामि- ति भावः । ग्रन्थादी प्रवृत्तिसमये ग्रन्थसमाप्तावेवेच्छाया औत्सर्गिकत्वात्तथात्वं बोध्यम् । व्यतिरेकव्य- भिचारमुद्धरतीति । यद्यपि व्यतिरकव्यभिचारनिश्चये सति कारणताया बाधितत्वेन समाप्तमङ्गळ. कार्यवासिद्धया समाप्तिरूपकार्येण मझलानुमितिरेव न सम्भवति । यदि तु जन्मान्तरीयमंगळसन्देहान्न ब्य- तिरेकव्यभिचारनिश्चयः, अपि तु सन्देह एव, स च न कारणत्वामुमिता प्रतिवन्धक इति समाप्त। मंगळानु- मानं सम्भवत्येवेत्युच्यते, तदा ग्राह्यसन्देह पर्यवसन्नतादृशव्यभिचारसन्देहस्याकिञ्चित्करत्वेन तादृशव्यभि- चारोद्धारो विफल एव । तथापि कारणत्वानुमितावपि नास्तिकस्य जन्मान्तरीयमंगळसन्देहन बाधितविषय- कत्वसन्देहावलप्रमाण्यसन्देहः, अप्रामाण्यसन्देहास्कान्दतकारणतानिश्चयो न स्वकार्याय क्षम इति तदुद्धार आवश्यक इति भावः । व्यतिरेक व्यभिचारेण समाप्तः कार्यवासिया कथं समाप्तिरूपकार्येण मंगळानुमानमित्या- सङ्की निरस्यत्ति । ग्राह्यसन्देहेत्यादिना । ननु प्रचुरविघ्नस्थले यत्किञ्चिन्मङ्गन यत्किञ्चिद्विध्न- वसस्यावश्यकतया स्वजन्यविघ्नध्वंससम्बन्धेन मंगळस्य सत्त्वात्कथमेतत्पक्षे समाप्त्यभाव इत्याशङ्कस 1