पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । प्रभा. वीद्रवत्वस्य अत्यन्ताग्निसंयोगनाश्यत्वात् । ननु पीतिमगुरुत्वाश्रयस्यापि तदानी दुतत्वात्तेन व्यभिचार इति चेन्न । जलमध्यस्थमषीक्षोदयत्तस्याद्रुतत्वात् । अपरे तु किरिति प्रतिभाति ! जलमध्यस्थवृतादी व्यभिचारयारणारा असति प्रतिबन्धक इति । आश्रयनाशनाश्यद्व- स्ववति घृतादौ व्यभिचारवारणाय सत्यन्तभागः । विजातीय संयोगे सतीति तदर्थः । अग्निसंयोगनाश्य- वस्ववति घृतादौ व्यभिचारवारणाय वत्वेऽनुच्छिद्यमानत्वनिवेशः । नाशसामग्र्यसमवाहितत्वं नाशाप्रतियो. गित्वं वा तदर्थः । वत्यादित्यस्य ववाधिकरणत्वादित्यर्थः । तेन विजातीयाग्निसंयोगशून्यकालिकसुवर्ण- स्यापि पक्षतावच्छेदकाक्रान्ततया तन तादृशद्वत्वहेतोरसत्त्वेऽपि न भागासिद्धिः ॥ अग्निसंयोगनाश्य- स्वादिति ॥ तथाच पृथिवीद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावरूपानुकूलतर्कबलात् व्यभिचार शानि रासे कृप्तसामग्रीबलात् तेजस्वसिद्धिर्निर।बाधा पृथिवीत्वसाधकनैमित्तिकदवलहेतोश्च सुवर्णान्त वन व्यभि. चारित्वनिर्णयेन तस्य पृथिवीत्वसाधकत्वं न संभवतीति भावः । अग्नेरपत्यं प्रथमं हिरण्यामिति आगमोऽपि त. त्र प्रमाणं बोध्यम् । एतेनाश्रयनाशजन्यद्रवत्वनाशे व्यभिचारवारणायाश्रयनाशनाक्ष्यद्रवत्वव्यावृत्तं बैजात्यं द्रवत्वे कल्पयित्वा तादृशयैजात्याश्रयप्रतियोगिकट्वत्यनाशं प्रत्यग्निसंयोगस्य हेतुत्वं वाच्यं तच्च वैजायं सु- वर्णनिष्ठ यत्त्वव्यावृत्तमपीति सुवर्णस्य पृथिवी त्वेऽपि उक्तकार्यकारणभावसंभवानोक्ततर्कस्य व्यभिचारशङ्का- निवर्तकत्वमिति कथमुक्तानुमानात्तत्र तेजस्त्वसिद्धिरिति शङ्का निरस्ता । श्रुत्यापि तेजस्त्वसिद्धेः ॥ मषी- सोयदिति ॥ मषीवत् क्षोदवदित्यर्थः । क्षोदश्वर्ण ॥ तस्येति ॥ पीतिमाश्रयस्येत्यर्थः । प्रकारान्तरेण दिनकरीयम्. द्यमानद प्रत्याधिकरणबादित्यर्थो न तू च्छयमानद्रवत्वानविकरणत्वादिति गगनादौ व्यभिचारात् ॥ आग्न- संयोगताइयत्वादिति ॥ एतचोपलक्षणम् । अग्नेरपत्यं प्रथमं हिरण्यमित्याद्यागमान्यथानुपपत्तेरप्यनुकूलत. कत्वादिति । एतेनाश्रयनाशजन्यद्वत्वनाशे व्यभिचारवारणाय द्रवत्वे आश्रयनाशनाश्यद्रवतव्यावृत्तं जातिविशे. रामरुद्रीयम्. सुवर्णपदयोध्यो दीपादिरपीति न सुवर्णस्य तेजाविषयत्वसिद्धिरिति नाशकनीय तथा व्युत्पत्तौ तस्य वाक्यत्वेन शक्यतारूपवाकयत्वाप्रसिद्धरिति तु विभावनीयम् । सामानाधिकरण्येन सिद्धसाधनस्येति ॥ यद्यप्युक्त- हेत्वधिकरणे अनुमानात्पूर्व क्वापि साध्यानिश्चयेनं व्यतिरेकव्याप्तिज्ञानादेवानुमितिरुपगन्तव्या व्यतिरेकव्याप्ती च न साध्यसाधन योः सामानाधिकरण्यं घटकमिति न सिद्ध साधनशङ्कावसरस्तथापि रजतादौ व्यतिरेकेण सामा. नाधिकरण्येन अनुमित्युत्तरमन्वयव्याप्तिज्ञानस्यापि सम्भवात्तदुत्तरं तेनैव रूपेण सुवर्णस्थले अनुमितिरन्वयच्या. तिज्ञानेनापि सम्भवतीत्यभिप्रायेणैतदाभहितामिति ध्येयम् । अग्निसंयोगनाश्येत्यस्य अग्निसमवधानाभावेनेत्या- दिः । तेन घृतद्वत्वसामान्यस्यैव अग्निसंयोगनाश्यतावच्छेदकाक्रान्ततया तादृशघृतस्याप्रसिद्धावपि अोरसम. वधानेन आग्नसंयोगजन्यनाशाप्रतियोगिद्वत्ववतो घृतस्य प्रसिद्धया न क्षतिः ॥ स्वसमानाधिक. रणति ॥ गुणकर्मान्यत्वे सति सत्त्वादित्यादौ सतिसप्तम्याः सामानाधिकरण्यार्थकसायाः गोषु दुह्यमा. नासु गत इत्यादौ तस्याः समानकालीनत्वार्थकतायाश्च क्लप्तत्वादिति भावः । अनुच्छिद्यमानद्रवत्वस्य स्वसमवायिसंयोगरूपपरम्परया गगनादिसामानाधिकरण्येन व्यभिचारित्वापत्त्या समवायेन तस्य हे. तुतालाभायाधिकरणत्वांशं पूरयित्वा व्याचष्टे ॥ अनुच्छिद्यमानेत्यादि ॥ द्रवपदस्थ गुणपरताया अ- वि सम्भवेन उच्छिद्यमानो द्रवो यस्य स उच्छिद्यमानद्रवः नोच्छिद्यमानद्रवोऽनुच्छिद्यमानद्रवः तस्य भावस्तत्त्वमिति व्युत्पत्तिलभ्यार्थकतां तत्पदस्य निराकरोति ॥ नविति ॥ अनधिकरणत्वादित्यस्य पूर्व- तनेनेत्यर्थः इत्यनेनान्वयः ।। अनुकूलतर्कत्वात् ॥ सुवर्ण यदि तैजसं न स्यात्तर्खेतदागमप्रतिपाद्यारन्य- पत्यत्ववन्न स्यादिति तर्कस्थाऽऽकारः खसमवायिकारणसमवायिकारणकमपत्यशब्दार्थः जन्यमानं न त. दर्थः तथासति तस्य कालादृष्टादरपत्यत्वप्रसङ्गादिति भावः ॥ जातिविशेषमिति ॥ अन्यथा यवनाशजन्यत्वस्य गुरुशरीरस्य जन्यतावच्छेदककोटिप्रवेशेन गौरवापत्तेरिति हृदयम् । इत्यपि परा- अव.