पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मञ्जूषा. भवसिद्धः तथा घृननाशोऽपि तत्कअमुच्यते जलद्रवत्वनाश आश्रयनाशजन्यः पृथिवीद्रवत्वनाशोऽगिसंयो गजन्य इति वाच्यम् । तुस्थादेः पार्धिवस्य वह्निनिक्षेपात्तस्य पश्चात्तदवस्थस्यैव द्रवत्वनाशदर्शनात् घृता' देरपि अतिदाहे द्रवत्वशन्यमण्डमष्यादिपारशेषात् । अथ दुतात्तुत्थात् घनीभूतं तत् अतिरिच्यते पारमाण- भेदात् एवं घृताद्यपेक्षया मण्डमष्यादिरपि इत्यानयनाशजन्य एव तत्र द्ववत्वनाश इति चेत् एवमपि तादृशघनदव्याणां पूर्वनुत्थताधवय चैरेवारब्धत्वेनावचवेषु द्रवत्वनाश आवश्यकः न त्वेवं तप्तजलावयवैः किमपि धनद्रव्यमारब्धं दृष्टम् । अतः पृथिर्याद्रवत्वनाशं प्रति अग्निसंयोगस्यास्ति कारणता । किंच केधुचि- दनलविन्यस्तेषु पार्थिवेश्ववयवेषु अवयविष्वपि विलक्षणपरिमाणविशिष्टेष्वेव द्रवत्वोत्पादतद्विनाशायानुभाविको तत्र च द्रव्यभेदे मानाभावः तावता च सिद्धमस्मत्समीहितम् । नहि वयमाग्नसंयोगे पृथिव्यामाश्रयनाशा- द्वस्वनाशं क्वचिदपि नाभ्युपगच्छामः । किन्तु सत्येवानिये क्वचिदग्निसंयोगादपि द्रवत्वनाशो व्यणुकादाव वयविनि परमाणुषु तु अग्निसंयोगादेवेत्येतावन्तमेवार्थ अतो न दोषगन्धः । तस्मान्नाप्रयोजकत्वमुक्तानुमा-- नस्य । अत्राश्रयनाशजन्यद्रवत्वनाशे व्यभिचारवारणाय द्रवत्वे आश्रयनाशनाश्यद्रवत्यव्यावृत्तं जातिविशेष कलायित्वा विजातीयवत्वनाशत्वावच्छिन्नं प्रत्याग्निसंयोगत्वेन हेतुता स्वीकार्या तश्च वैजात्ये सुवर्णद्रवत्वव्या- वृत्तमपीति दर्शितोऽनुकुलतर्कोऽसङ्गतः । सुवर्णस्य पृथिवोत्वेऽपि तदीय द्रवत्वस्याग्निसंयोगनाश्यतावच्छेदका. ना फ्रान्ततयात्यन्ताग्निसंयोगसत्त्वेऽपि नाशापत्तेरसंभवादित्याचिक्षेप नीलकण्ठः । तत्र विचार्यते । जातिवि. शेषस्याग्निसंयोगनाश्यतावच्छेदकत्वस्वीकारेणाग्निसंमोगकारणताया व्याभिचार वारणेऽपि आश्रयनाशकारण- तायाः अग्निसंयोगजन्यद्रवत्वनाशे कथं व्याभिचारबारण । अग्निसंयोगनाश्यद्रवत्वंन्यावृत्तजातिविशेषस्यायना शनाश्यतावच्छेदकत्वस्वीकारेणेति चेन्महानयं ते मादः । यद्धि मृतदवत्वमाश्रयनाशान्नति यच्च पाकात् किमतयोः परस्परवलक्षण्यं प्रागनुभूयते । अयोग्यावतो जातिविशेषाविति चेत् स्यातां तावयोग्यौ तावतापि न तवेटसिद्धिः । नहि किंचित् घृतद्रवत्वमाश्रयनाशनाश्यताया एव योग्य किंचिदग्निसंयोगनाश्यताया इति व्यवस्थितमास्ति । तथा सत्ति कस्यचिदाश्रयनाशेऽत्यन्तानलसंयोगे वा तथैवावस्थानापत्तेः । नहि तथा किंचि- दवतिष्ठते । दृश्यते यवंजातीयकं तथैवावतिष्ठमानं बहुशो लोके यथा चन्द्रोदयभक्षणनिवर्तनीयो विजाती यो ज्वरविशेधो जलपानेऽपि तिष्ठत्येव । जलपाननिवर्तनीयस्तु चन्द्रोदयभक्षणेऽपीति । अपिच परमाणुदव- खेऽग्नियोगनाश्यतावच्छेदिका जातिरवश्योपेया तदारब्धे च व्यणुकादिद्रवत्वे सा जाति: क्वचिदस्ति क्वचि. सायनाशनाइयतावच्छेदिकत्यत्र नियामकाभावः । कार्यवैजात्यस्य कारणबैजात्याधीनत्वात् । अथाब्रयना- शनाश्यतावच्छेदक द्रवत्वनिष्टं न जात्यन्तरं सामान्यतः प्रतियोगितासंबन्धेन नाश चावच्छिन्नं प्रति स्वप्र तियोगिसमवेतत्वकालिकाविशेषणत्वैतदुभयसंबन्धेन नाशत्वेन विशेषतो वा तत्तयतिसमवेतकार्यनाशं प्रति. तत्तद्यक्तिनाशत्वन कारणताया आश्रयनाशजन्यरूपरसादिनाशसाधारण्येनैव कल्पनीयत्वात् द्रवत्वनाशे आश्र- यनाशस्य कारणत्वान्तरकल्पने प्रमाणाभावात् । तत्र च रूपत्वादिना संकरेण अतिविशेषस्वीकारस्य असं. भाविततयाग्निसंयोगादिजन्यरूपद्रवत्वादिनाशे व्यभिचारः कार्यतावच्छेदककोटी कारणवैशिष्टयनिवेश्यैव वा- रणीयः । एवंच द्रवत्वे आश्रयनाशनाश्यतावच्छेदकजातेरनङ्गीकारान्न तनियामक्रचिन्तेति चेन्मास्तु तादृशजा. त्यन्तरनियामकाचन्ता । तथाप्यग्निसंयोगनाश्यतापच्छेद कजात्यवच्छिन्नेनावयवद्रवत्वेनारब्धेष्वषयविद्रवत्वेषु केचित् सा जातिस्ति केचिन्नेत्यत्र नियामकं दुर्भिक्षमेव । तद्वैजात्यावच्छिन्नं प्रति तत्तयक्तित्वेन प्रति वन्धकत्वकल्पने च महागौरचमिति तदपेक्षयाग्निसंयोगजन्यतावच्छेदककोटावाश्रयनाशाजन्यत्वं निवेश्यैवा ग्निसंयोगकारणताया आश्रयनाशजन्यद्रवत्वनाशे व्यभिचारवारणं युक्तमिति अप्रमाणेयं जातिः ॥ अद्रव- त्वादिति ॥ तेजोभागात्मकसुवर्णनिष्ठद्रवत्वस्यैव तत्र भानसंभवादिति भावः । यद्यपि पीतिमगुरुत्वाश्रयस्य पार्थिवभागस्य द्रवत्वाझीकारेऽपि नोक्तहेतोयभिचारः प्रसज्यते अत्यन्ता नलसंयोगे सत्यपि तन्नाशानुदयेन तत्र विजातीयद्रवद्रव्यविधया सुवर्णस्य प्रतिबन्धकतया तादृशश्वत्वस्य प्रतिबन्धकासमवधानकालीनता नास्ती ति वक्तं शक्यत्वात् तथापि पृथिवीद्रवत्वनाशं प्रात विजातीयद्रवद्रव्यत्वेन प्रतिबन्धकता न वास्तविकी पृथिवी.