पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा पा-दिनकरीय-रामरुद्रीयसमाविता। मञ्जूषा. तु कदाचिदपि जलासंयुक्तायां धृतादिव्यक्ती तुत्थादिव्यक्तौ चा व्यभिचारः । उन्च्यते । अनुच्छ्यमानत्वं यद्यपि नाशाप्रतियोगित्वरूपं तथापीह वर्तमानवमात्रं विवक्षितम् । तथाच द्रवरवनाशप्रतिबन्धकानधि करपात्यन्तानलसंयोगाधिकरणकालवृत्तिदवत्वाधिकरणत्वं पर्यवसन्नोऽर्थः । तत्र चात्यन्तानलसंयोगे स्वसमा नाधिकरणत्वं देयम् । स्वं द्रवलं तेनाग्निसंयोगानाश्यस्य घृतादिवत्वस्यापि देशान्तरवृत्त्यत्यन्तानलसंयोगसमा- नकालीनत्वेऽपि न व्यभिचारः । ननु सुवर्णद्रवत्वरधिकरण कालस्यापि देशान्तरवृत्तिघुतादिसमवेतद्रवत्वनाशप्रति. बन्धकीभूतजलाधिकरणत्वात स्वरूपासिद्धिरप्रसिद्धिरेव वा । न च स्ववृत्तिद्रवत्वनाशप्रतिबन्धकत्वं विवक्षितं स्वं पक्षत्वेनाभिमतं वस्तु स्वनाशप्रतिबन्धकत्वमेव वा वाच्यं स्वं पक्षवृत्तित्वेनाभिमतं द्रवत्वमिति वाच्यं पृथिः वीद्रवत्वनाशं प्रत्येव विजातीयश्वद्रव्यस्य जलस्य संयोगेन प्रतिबन्धकतायाः सिद्धान्तसिद्धत्वेन सुवर्णवत्वनाश प्रतिबन्धकाप्रसिद्धचा स्वरूपासिद्धितादवस्थ्यात् । एतेन द्रवत्वनाशप्रतिबन्धके स्वसमानाधिकरणत्वं देयम् । स्वं इवत्वामित्यपि निरस्तम् । सुवर्णद्वत्वसमानाधिकरणस्य इवत्वनाशप्रतिबन्धकस्याप्रसिद्धरिति चेन्न । पृ. थिवीद्रवत्वनाशं प्रति जलत्वेन प्रतिबन्धकतया सुवर्णद्रवत्वाधिकरणे संयोगेन कालान्तरे वर्तमानं पृथिवी- द्रवत्वनाशप्रतिबन्धस्वरूपयोग्यं यजलं तदनधिकरणत्वस्य तादृशद्रवत्वाधिकरणे काले सत्त्वेन स्वसमानाधि करणत्वस्य द्रवत्वनाशप्रतिबन्धकविशेषणत्वे बाधकाभावात् कदाचिदपि जलासंयुक्तायाः सुवर्णव्यक्तः पक्षवहिर्भावेऽपि क्षतेरभावात् । अथवा स्वसामानाधिकरण्यस्वसमानकालीनत्वोभयसंबन्धेन देवत्वनाशप्रति बन्धकविशिष्टान्यत्वमेव द्रवत्व विशेषणं अतो न कोऽपि दोषः । यद्वा द्रवत्वनाशप्रतिबन्धकशून्यत्वे सतीति धर्मिणि विशेषणं तच्छून्यत्वं च प्रतिवन्धकतावच्छेदकत्वाभिमतसंबन्धावच्छिन्न प्रतियोगिताकाभावरूपमिति न दोषः । अत्यन्तानलसंयोगो नाम यावत्यारमाणविशिष्ट पार्थिवभागे यावत्परिमाणविशिष्टस्य वहेर्यावरसं- ख्याकावयवावच्छेऐन संशोगे द्रवत्वनाशः तावत्परिमाणविशिष्टे सुरणे तावत्परिमाणविशिष्टस्य वस्ताव- संख्याकावयवावच्छेदेन संयोगः । अत्रात्यवा मनेन वयवयवाः द्रवत्वाश्रयध्यक्तयचयवाश्च ग्राह्याः । न. थाच स्वसगानाधिकरणपरिमाणसजातीयपरिमाणविशिष्टपार्शिवभागसमवेतद्रवत्वनाशजनको योऽग्निसंयोगः स्वावच्छेदकवायवयवपर्याप्तसंख्यासजातीयसंख्यापर्याप्साधिकरणवयवयवावच्छिन्नत्वस्यावच्छेदकपार्थिवमा- गावयवपर्याप्त संख्यासजातीयसंख्यापर्याप्यधिकरणवहीतरद्रव्यावयवावच्छिन्नत्यैतदुभयरांवन्धेन तादृशानि- संयोगविशिष्टो योऽसिसंयोगः तत्समवधानकालीनत्वं तत्वाविशेषणं पर्यवरान प्रथमरवपदं द्रवत्वपरं द्वितीय- स्वपद तृतीय स्वपदं चामिसंयोग परम् । एवंच यथाकथंचिदग्निसंयोगसमनधानकालीनद्रवत्ववति घृततुत्थादौ एतादृशाग्निसंयोगविरहात न व्यभिचारः । अथवा तत्तत्पारमाणविशेषविशिष्ट सुवर्णत्वेन पक्षता। तत्तत्संख्या. विशेषविशिष्टस्वावयवावच्छिन्नतत्तत्रांख्याविशेषविशिष्टय हायवयवावच्छिन्नवाहसंयोगसमवधानकालीनद्रवत्वा-- धिकरणत्वं हेतुः । यादृशपरिमाणाविशेपविशिष्टेषु पार्थिवभागेषु यादृशसंख्याविशेषविशिष्टावयवावच्छिन्नात् वाल्लिसंयोगात् द्रवत्वनाशो दृष्टः तादृशपरिमाणविशेषविशिष्टसुवर्णपक्षकस्थले तादृशतादृशसंख्यैर धर्तव्येति न दोषः । नतु अत्यन्तत्वं अनलसंयोगगतो जातिविशेष इति वक्तुं युक्तं तादृशजातिविशेषस्य फलवले. ककल्प्यत्वे सुवर्णामिसंयोमे तादृशजातिविशेषकल्पकाभावेन स्वरूपासिद्धिप्रसङ्गात् । यदिच प्रत्यक्षादिप्रमा- णान्तरगम्यं तदा यावताग्निसंयोगेन चुळकपरिमिले घृतादौ द्रवत्वनाशः तावताग्निसंयोगेन प्रस्थपारभि- तघृतादावपि द्रवत्वनाशापत्तिः चुळकपारमितघृतादिसमवेतद्रवस्वनाशकामिसंयोगगतदेजात्यस्य तत्र दुर्वा- रत्वात् । यदिच तत्तदग्निसंयोगगतानि चैजात्यानि भिन्न भिन्नानि प्रत्यक्षसिद्धानि तत्तत्परिमाणविशेषविशिष्ट पार्थिवभागद्रवत्वनाशगतावच्छेदकान्युपेयन्ते तत्तत्परिमाणविशेषविशिष्टसुवर्णपक्षकस्थले च तत्तद्वैजात्याव- च्छिन्नामिसंयोगसम्वधानकालीनद्रवत्वाधिकरणत्वमेव हेतुरिति नोक्तव्यभिचारावकाश इत्युच्यते तदा न वि. वदामः । पृथिवीद्रवत्वस्येत्यनन्तरं क्वचित्पुस्तकेषु जलद्रवत्वस्य चेति पाठो दृश्यते । सन्त्र प्रामादिकः नैमि. त्तिकद्रवत्वाधिकरणस्य मूषास्थद्रव्यस्य अलवप्रसत्यभावात् जलद्रवत्वनाशं प्रति अत्यन्तानलसंयोगस्य का रणत्वाभावाच । अतितप्तजले ह्याश्रय नाशादेव द्रवत्वनाश इष्यते ! नचात्यन्तानलसंयोगे Tथा जलनाशोऽनु-