पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ कारिकावली - -- नच नैमित्तिकद्रवत्वं दहनादावव्याप्तं घृतादावतिव्याप्तं चेति वाच्यम् । पृथिव्यवृत्ति नैमित्तिकद्रवत्ववद्वृत्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वस्य विवक्षितत्वात् ॥ पूर्ववदिति ॥ जलस्येवेत्यर्थः । तथा हि तत् द्विविधं नित्यमनित्यं च नित्यं परमाणुरूपं तदन्य. दुनित्यमब्यवि च । तच्च विधा शरीरेन्द्रियविषयभेदात् शरीरमयोनिजमेव तच सूर्यलोकादी प्रसिद्धम् ॥ ४१ ।। प्रभा. कसमवेतत्वसंबन्धेन पीतत्वजात्या शुक्लत्वमभिभूतमित्यर्थः । अत्र स्वसमवायिसमवायिसंयुक्तसमवेतत्वसं- बन्धेन पातत्वस्य सुवर्णसमवेत शुक्लनिष्टत्वनाभिभावकत्वकल्पनापेक्षया स्वसमवापिसंयोगसंबन्धेन पीत- रूपस्य सुवर्णनिष्टत्वेन शुक्लरूपाभिभावकत्वकल्पनमेवोचितं लाघवास् पीतत्वजातेरुक्तपरम्परासम्वन्धेन शुन्याभिभवसंपादकत्वे शुक्रत्वजारेकत्वेन पटादिसमवेतशुक्लेऽपि शुक्रवजातिचाक्षुपानुपपत्तेश्च । नमित्तिक- द्रवत्वलक्षणस्यासम्भवं बारयति ॥ सुवर्णादिरूप हति ॥ ४१ ॥ मञ्जूषा. स्वावच्छिमप्रकारतानिरूपितविशेष्यतासंबन्धेन चाक्षुषं प्रति अथवा शुक्लत्वजातिनिष्टप्रकारतानिरूपि- तविशेष्यतासंवन्धेन चाक्षुपं प्रति स्वाश्रयोपटधवह्निसमवेतत्वसंबन्धेन लोहितरूपस्य प्रतिबन्धकत्वम् । अतो वही शुक्लरूपं गृहात एव किन्तु शुक्लत्वेन न गृह्यते । अपितूपष्टम्भकपार्थिवभागनित्ररूपसम- वेतलोहितलप्रकारेण गृह्यत इत्यर्थः । तुशब्दो मरतककिरणं व्यावर्तयति । अयमभिप्रायः । तेज- सामान्याभावस्य तमापदायत्वे सुवर्णादिसत्त्वे . तमोव्यवहारो न स्यात् तमसि मुवर्णादिसंयोगेन पदार्थान्तरनलक्षापतिश्च अतोऽनभिभूतरूपवत्तेजस्सामान्याभावस्यैव तमःपदार्थत्वं तथाविधरूपवत्तेजम्म. योगस्यैव वन्यप्रत्यक्ष कारणत्वं वाच्यम् । एवं च वहिरूपयाभिभूतत्वे तत्संयुक्तेऽपि तमस्स- साव्यवहारः स्यात् तमसि वह्निसंयुक्तऽन्धकारादिप्रत्यक्षं च न स्यात् । किंच वहिरूपस्य प्रत्यक्षावि. घनखे तन भास्वरत्यजातिरपि चक्षुपा न गृहात । एवं पद्मरागव नादिविशेषकिरणादावपि द्रष्टव्यम् । न वेष मस्तककिरणे. तस्संयुक्तंऽपि तमोव्यवहारात् तमसि तत्संयुक्तपदार्थप्रत्यक्षाभावात्तत्र भास्वर- स्वाग्रहणाञ्च । एवंच बादशतेजोरूपं तमसि गृह्यते तदनमिभूतं यस्य तु न गृह्यते तदभिभूतमिति पर्यवसम्ममिति ॥ १ ॥ दिनकरीयम्. जसि तत्सत्त्वादिति ॥ तेन नासम्भव इति भावः ॥ पृथिव्यवृत्तीति ॥ नैमित्तिकद्रवत्ववद्वृत्तिपृथि- वीरवरूपजातिमादाय पृथिव्यामतिव्याप्तिवारणाय पृश्चिव्यवृत्तीति । पृथिव्यवृत्तिजलत्यजातिमादाय जले पुथिव्यवृत्तिनायुवादिकमादाय वायाचतिव्याप्तिवारणाय नैमित्तिकद्रवत्यनद्वृत्तीति । वायुतेजोन्यतरत्व- मादाय वायावतिव्यानिवारणाय जातीति ॥ ४१ ॥ रामरुद्रीयम्. जत्वात् वैश्वानरे याशरूपप्रतीतिस्तादृशं रूप न काष्ठादिरूपपृथिव्यां पूर्वमनुभूतमतः पाकजत्वं प्रदर्शितमिति ध्येयम् । ननु सुवर्णरूपतेजसि नैमित्तिकद्रवत्वसत्त्वं मूले प्रदर्शितं तचानर्थकमेव ता. वतायन्याप्रपरिहारादित्याशङ्कायामाह ॥ तेनेति ॥ तत्कथनेनेत्यर्थः । तथा च तद्न्थस्यासम्भवपरिहा- रकत्वमेव अव्याप्तिपरिहारस्तु उत्तरप्रन्धेनैव करणीय इति भावः ॥ पृथिव्यवृत्तीति ॥ जातिपदस्य द्रव्यत्वसाक्षाद्वयाध्यजातिपरत्वेऽपि न निस्तार इति सूचनायैव व्यत्वसाक्षाद्वयाप्येत्यु- कम् । जलवेत्युपलक्षणं वायुत्वादिकमादाय वाम्बादाक्प्यतिव्याप्तिसम्भवादिति द्रष्टव्यम् ॥ ४१ ॥ अन