पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥ ४१ त्यादि ॥ बैश्वानरे मरकतकिरणादौ च पार्थिवरूपेणाभिभवात् शुक्लरूपाग्रहः । अ- ध तद्रूपाग्रहे धर्मिणोऽपि चाक्षुषत्वं न स्यादिति चेन्न । अन्यदीयरूपेणैव धर्मिणा प्रहसम्भवात् शङ्खस्येव पित्तपीतिम्ना । वह्नस्तु शुलं रूपं नाभिभूतं किं तु दीयं शुक्लत्वमभिभूतभित्यन्ये ।। नैमित्तिकमिति ॥ सुवर्णादिरूपे तेजसि तत्सत्त्वात् । प्रभा. तथाचानभिभूतोद्भूतस्पर्शस्यैव प्रत्यक्षत्वेन चक्षुरादिसमवेतस्पर्शस्यानुद्भूतत्वेनोद्भूतत्वाभावान प्रत्यक्षत्वमिति भावः । स्याटू शुक्लभास्वर इति मूले शुक्लपदं स्वरूपकीर्तनं लक्षणं तु भास्वररूपवत्वं तावतैवानतिप्र- सनात् । भास्वरत्वं च भास्वरं शुक्ल मिति प्रत्यक्षसिद्धतेजोरूपमात्रवृत्तिशुक्लत्वव्याप्यजातिविशेषः । मनु तादृशभास्वररूपस्य वैश्वानरादावप्रत्यक्षं कुत इत्यत आह । मुकावळ्यां वैश्वानर इति ॥ मरतककिरणादावित्यादिपदारसुवर्णपरिग्रहः । ननु तदीयरूपाणां अप्रत्यक्षत्वे रूपाविषयकद्रव्यचाक्षुषा- भावाद्वैश्वानरादेरपि चाक्षुषत्वानुपपत्तिरित्यत आह ॥ तद्रूपेति ॥ धर्मिणोऽपीति ॥ अपिना त- द्गतैकत्वादेः परिग्रहः ॥ अन्यदीयरूपेणैवेति ॥ सुवर्णादिसमवेतरूपाभिभावकरूपेणैवेत्यर्थः । ते- नाभ्य दीयरूपेण द्रव्यचाक्षुषस्वीकारे घटादिरूपेण वायोश्चाक्षुषापत्तिरिति शङ्कानवकाश: । अन्येतु अ. न्यदीयरूपं विषयीकृत्यान्यस्य चाक्षुषत्वे वायोर युक्तरीत्या चाक्षुषत्वापत्तिवारणाय वयादिनिष्टरूपस्या. भिभूतत्वमनङ्गीकृत्य तदीयशुक्लत्वस्यैवाभिभूतत्वमङ्गीकृत्य बहिनिष्टशुक्लत्वरूपस्य प्रत्यक्षत्वाद्वढेरपि प्रत्य- क्षत्वम् । परन्तु शुक्लत्वस्याभिभूतत्वात्तस्याप्रत्यक्षत्वं । पार्थिवरूपमिष्टरक्तत्वादिना वह्निनिष्ठशुक्लस्य प्रत्य- क्षमिति वदतां मतमाह ॥ वह्नस्त्विति ॥ तदीयं शुक्लत्वमिति ॥ स्वसमवायिसमवायि संयु- मजूपा. स्वविषयस्पर्शाधयोपरत्वत्व संबन्धन उष्णान्यस्पर्शस्यैव वा स्वाश्रयोपष्टब्धत्वसंबन्धेन प्रतिबन्धकत्वमिति भावः ॥ वह्नस्त्विति । तथाच न सामान्यतः शुक्लरूपनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन चाक्षुषं प्रति वह्नयुपष्टम्भकपार्थिवभागनिष्ठलोहितरूपस्य स्वाश्रयोपष्टव्यत्वसंबन्धेन प्रतिबन्धकत्वं किन्तु शुक्ल. दिनकरीयम्. स्वरामिति मूलम् । तत्र शुक्लेति स्वरूपकथनम् । भास्वररूपमात्रस्य लक्षणत्वेऽतिप्रसङ्गाभावात् । भास्वरत्वं जातिविशेषः । स च तेजोरूपमात्रवृत्तिः शुक्लत्वव्याप्यश्चेति । ननु रूपाविषयकद्रव्य-- प्रत्यक्षस्याभावाद्वैश्वानराश्चाक्षुषत्वानापत्तिरिति शकते ॥ तद्रूपाग्रह इति ॥ वैश्वानरादेरचाक्षुषत्वे तद्गतसञ्चयादिगुयानामपि चाक्षुषत्वं न स्यादिति योग्यव्यतिमात्रवृत्तित्वाभावादित्यपिना सूचितम् ॥ अन्यदीयरूपेणैवेति ॥ पार्थिवरूपेणैवेत्यर्थः । मतान्तरमाह ॥ बल्लेस्त्विति ॥ सुवर्णादिरूपे ते- रामरुद्रीयम्. जाभावमुपपादयति ॥ भास्वरत्वमिति ॥ ननु तेजोगतरूपागामनेकविधत्वात् पीतत्वशुक्लत्वादिना साकाद्धास्वरत्वस्य जातिवं न सम्भवतीत्याशङ्का निराकरोति ॥ शुक्लत्वव्याप्यश्चति ॥ न च विद्युदादी भास्वरपीतत्याय नुभवात्कथं शुक्लवं तस्येति वाच्यम् । तत्रत्यशुक्ल एव पीतत्वभ्रा- न्तेरेवोपगमादिति भावः ॥ रूपाविषयकेति ॥. न च निर्विकल्पके प्राथमिके घट इति प्रत्यक्ष च रूपविषयकत्वाननुभवात् कथमेतदिति वाच्यम् । घटत्वे सनिकर्षदशायां रूपादावपि सन्निक- पस्यावश्यकतया घटघटत्वयोरिव रूपरूपत्वयोरपि समूहालम्बननिर्विकल्पकस्य प्राथमिकविशिष्टप्रत्यक्ष. स्यापि रूपत्वविशिष्टवैशिष्टयानवगाहिनो रूपविषयकत्वस्यैव स्वीकरणीयत्वादिति भावः । सूचितमित्यस्य वैः इवानरादेरित्यादिपदेनेति शेषः ॥ पार्थिवेति ॥ पाकजपार्थिवरूपेणेत्यर्थः । तस्यैव पाक 43