पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । फलजिज्ञासायां सम्भवति दृध्रफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् , उपस्थितत्वाच प्रभा. शिष्टाचारविषयत्वं इष्टसाधनत्वप्रकारकभ्रमशून्यसमवेतकृतिविधेयत्वं, तादृशभ्रमाजन्यकृतिविधेयत्वं वा । अत्र विषसंपृक्तान्नभक्षणादी तृप्तिरूपेष्टसाधनताज्ञानसत्त्वेऽपि प्रवृत्त्यभावेन, बलवदनिष्टाननुबन्धित्यविशिष्टेटसाधन- ताज्ञानस्थैव प्रवर्तकत्यावश्यकतया प्रवर्तकशानलाभाय वलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वरूपसफलत्व- मेव प्रकृते साध्यं वोध्यम् । श्येनेनाभिचरन्यजेत 'इति श्रुत्या श्येन नामकयागस्य शत्रुनाशकत्वप्रतिपादनात् तादृशयागकर्तुनिरुक्तशिष्टत्वसत्त्वेन तादृशपुरुषसमवेतकृतिविधेयत्वरूपहेतुमति इयेनयागे निरुक्तसाध्याभावेन व्यभिचारवारणाय हेतोरविगीतत्वविशेषणम् । तादृशयागस्य नरकसाधनत्वेन सत्यन्ताभावेन न व्यभिचारः बलबदनिष्टाननुबन्धित्व विशेषणवनि व्याक्रमेण कृतदर्शादौ कृतिविधेयत्वसत्त्वेन तत्र निरुक्तसाथ्याभावात् व्यभि- चारवारणाय विशेष्यदळघटककुता का तल्लविशेषणम् । तत्कर्तुः इष्टसाधनत्वांशे भ्रान्तिमत्त्वेन निरक्तशिष्ट- स्वाभावान्न दोषः । फले व्यभिचारवारणाय विषयत्वमपहाय विधेयत्वं हेतुतया उपन्यस्तम् । अत्र यत् अविगी। तत्वे सति अभ्रान्तयत्पुरुषसमवेतकृतिविधेयं भवति, तत् तत्पुरुषायेष्टसाधनं भवतीति सामान्यमुखीव्याप्ती दर्शादिः दृष्टान्तः । यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति श्रुत्या दर्शादेः स्वर्गसाधनत्वप्रतिपादनेन तत्कर्तुरभ्रान्तत्वेन तत्कृतयागस्य तदीयस्वर्गसाधनत्वं, तथा सर्वज्ञगतिमादीनामभ्रान्तत्वेन मङ्गलस्येष्टसाधनत्वा- भावे, स्वेन स्वप्रन्थादों मंगळ न क्रियेत इति तादृशगौलमादिना ग्रन्थादौ कृतमंगळस्यापि तदीयेष्टसाधनत्व- मवश्यमंगीकार्यमिति तत्कृतमंगळस्य तदीयेटसाधनत्ये सिद्ध, यद्विशेषयोरितिन्यायेन मंगळसामान्यस्येष्टसाध. नत्वं सिथ्यतीति सिद्धे इत्यन्तमूलस्याभिप्रायः । यद्यपि पूर्वपश्चग्रन्थे मंगळस्य नवीनमतसिद्धेष्टसाधनत्वमादी निराकृत्यानन्तरमेव प्राचीनमतसिद्धेष्टसाधनत्वं निराकृतमिति, सिद्धान्तप्रन्धेऽपि आदौ नवीनमतमेव व्यव- स्थापनीयं । तथाऽपि प्राचीनमतसिद्धार्थस्य दुष्टत्वेन तन्मतदूषणपूर्वकं नवनिमतं व्यवस्थापनीयमित्यभिप्रायेण पूर्वपक्षग्रन्थे पश्चादृषितमपि प्राचीनमतमादौ सिद्धान्तयति-तत्र फलजिज्ञासायामित्यादिना । तत्रेति मजूषा. साधनतामन्तरेणासम्भवात , मंगळनिबन्धनजनितभोगसाधनतायाश्चानिबद्धभंगलेऽभावात् अतिरिक्तास्य कस्य- चित्सुखानुभवरूपस्य दुःखानुभवरूपस्य वा तुच्छभोगस्य पूर्वपक्षिभिरवश्यमंगीकर्तव्यत्वेऽपि तस्य प्रवृत्त्युद्देश्य- स्वाभावादिति । परंतु अयुक्तमित्यस्य बलवदनिष्टानुवन्धीलों न सम्भवति निष्फल कर्ममात्रस्य तथावे भानाभावात् । बलवदनिष्टानुबन्धित्वं हि दुरितजनकत्वं, न च तत्र प्रमाणमस्ति । न च न कुन्निष्फलं करें- त्यागम एव तत्र प्रमाणं, कृतिसाध्यत्वाभावस्य प्रत्यक्षबाधितत्वेनेष्टसाधनत्वाभावस्यं निष्फलमित्यनेनैव बोधितत्वेन च विधिबोधितबलवदनिष्टाननुवन्धित्वाभावस्यैव तत्र ना बोधनीयत्वादिति वाच्यम् । तथा सति सर्वेषामेव प्रत्यवायापत्तेः । न हि प्रत्यहमम्मदादिभिः क्रियमाणं सकटमेव कर्म सफलमित्यस्ति नियमः, च सर्वे शिष्टाः प्रत्यवेयुः । न हि पूजार्थमतिथीनन्वेषमाणानां प्रत्यवाय इति युक्तम् , न वा फलजननस्वरूपयोग्यमपि कर्म फलम्रान्त्यारभमाणाः प्रत्यवयन्ति । दिनकरीयम्. मङ्गले । फलजिज्ञासायां, विशेषतः फलजिज्ञासायां । ननु कथं तर्हि गङ्गास्नानादीनामदृष्टार्थकतेत्यत आह् - संभवतीति । तथा च तत्र दृष्टासंभवेनाइष्टकल्पनेति भावः । ननु तहि विश्वजिन्नथायात्स्वर्ग एवेष्टं रामरुद्रीयम्. गादौ न प्रवृत्त्यनुपपत्तिः । यद्यपि जलताडनादेरपि न कुर्यानिष्फलं कर्मेत्यादिना निपिद्धतया तदनुकूलकृते- रपि नरकरूपबलबदनिष्टजनकतयाऽविगीताचारविषयत्वं सफलकर्मण्येवेति शिष्टपदमनर्थकम् । तथापि पश्रा- दिकृतवृधाचेष्टायां व्यभिचारचारकतया शिष्टपदसार्थक्यमेव, विधिनिषेधयोनराधिकारिकत्वेन तदीयवृधाचे- प्राया निषेधाविषयत्वेन बलवदनिष्टाजनकत्वादिति भावः । ननु तहाँति । अदृष्टफलकल्पनाया अन्याय्यत्वे हीत्यर्थः । विश्वजिन्नघायादिति । काम्यप्रकरणे ‘विश्वजिता यजेत' इति विधिः श्रूयते । काम्यप्रकरणपटि- तथा