पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मज्जूषा-दिनकरीय-रामरूद्रीयसमन्विता । - परिसमाप्तिदर्शनादिति चेन्न अविगीतशिष्टाचारविषयत्वेन मङ्गलम्य सफलत्वे सिद्धे, तत्रं प्रभा. प्रन्थन दर्शितं नवीनमतं, सूचितं च प्राचीनमतगयुक्तं व्यभिनागदित्याक्षिपति-नन्विति ॥ अथवा विन- ध्वंसस मा त्यन्यतरकामनया कृतं मंगलमयुक्तं इष्टसाधनत्वाभावात् चैत्यवन्दनादिवत् । अत्र हेतोः स्वरूपा- सिद्धिशका मतद्वयेऽपि परिहरति-नन्वित्यादिना ॥ निर्विघ्नपरिसमाप्तिदर्शनादिति ॥ एतेन तत्र प्रत्यक्षण समाप्तस्तत्कारणतया विघ्नध्वंसस्य व मत्त्वमाविष्कृतं। तथाच नवीनस्य विघ्नध्वंयस्यैव मंगळकार्य- त्वेन इच्छाविषयत्वात् , प्राचीनस्य समाप्तरेव ताटशेच्छाविषयत्वाच्च, मंगळं विश्नवसरूपेष्टसाधनत्वाभाववत विघ्नध्वंसाव्यवहितप्राकालावच्छेद्यविनध्वंससमानाधिकरणात्यन्ताभावप्रतियोगित्वान् । एवं मंगळं समाप्तिरूप- साधनत्वाभाववत् समाप्त्यव्यवहितप्राकालावन्छेवासमा त्यधिकरणानिष्ठात्यन्ताभावप्रतियोगित्वान , यत् यद- व्यवहितप्राकालाबच्छेद्य यत्समानाधिकरणात्यन्ताभावप्रतियोगि भवति, तत् तत्कार णत्वाभाववदिति सामान्य मुखीव्या त्या, घटं प्रति रासभवदिति दृष्टान्तेन मतद्रयेऽपि पक्षे मङ्गले इष्टसाधनस्वाभावरूपहेतोस्सिद्धवान्न स्वरूपासिद्धत्वाशङ्केति भावः । केचित् ननु निष्फलत्वान्मगलाचरणम युक्तं, नच निष्फलत्वमेवासिद्ध फलविशेष- शून्यत्वहेतुना तत्साधनादित्यभिप्रायेण शङ्कते नन्वित्यवतरणिकामाहुः । तदसत् नवीन मते विन वंसस्यैव मञ्जूषा. प्रयोजकोत्कटेच्छाविषयीभूतं स्वस्य मुख्यं फलं, तादृशानुत्कटेच्छाविषयीभूतं स्वस्यानुषङ्गिक फलं, उत्कटानु क- टत्वे जातिविशेषौ इच्छानिटी, दुःखविशेषजननस्वरूप योग्यानुत्पत्तिकफलविषयकत्वमुत्कटत्वं, तदन्यत्वमनु- स्कटत्वं, उत्कटेच्छाविषयीभूतफलस्यानुत्पत्त्या टुःखविशषजननात् । इत्थं च स्वविधेयकप्रवृत्तिप्रयोज कीभूती- रकटेच्छाविषयफलविसंवादिकार्यविषयकश्च न कुर्यादिनि निषेधः । विघ्नध्वंसातिरिक्तस्वप्रत्यक्षादिविषयकोत्क- टेच्छयाऽपि यत्र प्रवृत्तिः न तन्मङ्गळपदव्यवहार्य, किंतु विश्न वसविषयकोत्कटेच्छया यत्र प्रवृत्तिः, तद- तिरिक्तं स्वप्रत्यक्षादौ अनुत्कटेच्छया च, तदा मजकत्वं न हीयते तस्य च विघ्नध्वंसजनकतायाः परैरङ्गीकारात् न बलवदनिष्टानुवन्धित्वरूपसाध्यस्य वाधः । ततश्च मङ्गळप्रत्यक्षातिरिक्त यत्प्रवृत्त्युद्देश्यं जनकतासम्बन्धेन तत्सामान्याभाव एव निष्फलत्वमिति न कोऽपि दोषः । अथवा स्त्रविधेयकप्रवृत्तिप्रयोजकोत्कटेच्छाविषया- जनकत्वमेव निष्फलत्वम् । अत्र च जनकत्वं स्वरूपयोग्यत्वरूपं विवक्षितम् , तेन पापभ्रमेण कृतप्रायश्चित्तादौ पापध्वंसानुपधायके चलवदनिटाननुबन्धिनि दर्शितनिष्फलत्वसत्वेऽपि न व्यभिचारः । तथाच मंगळं बलबद- मिष्टानुबन्धि स्वविधेयकप्रवृत्तिप्रयोजकोत्कटेच्छाविषयत्वावच्छिन्नजनकतासम्बन्धावछिन्न प्रतियोगिताकाभावा- त्, बैत्यवन्दनवत् इत्यनुमानं बोध्यम् । अत्र च हेत्वसिद्धिशंकायां फलविशेषजनकत्वाभाव कूटवत्त्वेन तत्साध- नीयं, अनुमानं च मंगळं जनकतासम्बन्धावच्छिन्न प्रतियोगिताकदर्शिताभाववत् स्वविधयक प्रवृत्तिप्रयोज को. स्कटेच्छाविषयत्वपरिचयतत्तद्वयक्तिजनकत्वाभाव कूटबत्त्यादिति । अत्र च सामान्यमुखव्याप्तौ चैत्यवन्दनं दिनकरीयम्. समाप्तिफलकता व्यवस्थापयिष्यन् प्रथमतो विशेष्यासिद्धिनिरासाय फलवत्तां साधयति-अविगीतेति ॥ विषयत्वं च ज्ञानविषयसुखेऽतिप्रसक्तमतः-आचारेति । आचारश्चात्र यद्यपि क्रियत्र तथापि विषयत्वश्रुतेः कृतिरेव विवक्षिता । विधेयतया कृतिविषयत्वं बोध्यम् । तेन फले न व्यभिचारः, तस्योद्देश्यतया कृतिविषय. स्वात् । विधेयतया कृतिविषयत्वं चैत्यवन्दनादावा-यस्त्वतः शिति । शिष्टत्वं च फलसाधनतांशे भ्रान्ति- रहितत्वं न तु वेदप्रामाण्याभ्युपगन्तृत्वं, तेन व्युत्क्रमेण कृते दादा निष्फलत्वेऽपि न व्यभिचारः । शिधा- रामरुद्रीयम्. नम् । आचारश्चाति, अत्रतिशब्दश्रोत्तरान्वयी, तथा च आचारो यद्यपि क्रियेव तथाप्यत्र विषयत्वश्रुतेः कृतिरेव विवक्षितेत्यर्थः । ननु श्येनयागस्यापि शत्रुवधरूपेष्टसाधनत्वात्सफलत्वमक्षतमेव, अतस्तत्र हेतुसत्त्वे. ऽपि न व्यभिचार इति हेतावविगीतत्वविशेषणं व्यर्थमित्याशङ्का निराकर्तुमविगीतपदाभावे व्यभिचारमु.