पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता मजूषा. दृश्यत्वमदृश्यत्वं च तत्तव्यक्तिस्वभावाधीनमित्यवश्य नैयायिकेनापि वाच्यं मयापि तथैवोच्यते अतः पूर्वपरमा- णूनामदृश्यत्वं तत्स्वभावात् घटात्मंकानां च तेषां दृश्यत्वमपि तत्स्वभावादिति न दोष इत्यभिप्रा. येणाशङ्कश परिहरति ॥ नचातितप्तेति ॥' पुनरपि तथैव शकते नचादृश्येनेति ॥ कथामिति ॥ तषाचोक्तनियमो व्यभिचरित इति भावः मास्तु उक्तनियमः तथापि न वयं दृश्यत्वादृश्यत्वयो. स्तत्तद्वयक्तिस्वभावमात्राधीनत्वं ब्रूमः किन्तु महत्त्वोद्भूतादिकारणसमवधानतदभावाधीनत्वमेव तच्च त्व- न्मते न सम्भवतीत्याशयेन समाधत्ते यता न वयमित्यादिना स्वभावादिति ॥ तत्तद्वयक्तिस्व- भावादित्यर्थ इति सत्या पाटयन्ति तत्र दृश्यत्वादृश्यत्वयोस्तत्तद्वयक्तिस्वभावाधीनत्वं मास्मत्वमा बक्षीथाः न त्वं नियन्तासि मामतोऽहमाचक्षे इति यदि सौगतः प्रत्यवतिष्ठेत तदा तत्र हेतुर्न शब्दतो लब्धः किन्तु वस्तुनो दृश्यत्वस्य स्वाभाविकत्वे लोकानां तत्साधन प्रवृत्त्यनुवपत्तिरूपो हेतुः पूरणीय इति न्यूनता बो. ध्या । अन्यतु अदृश्यस्येत्यादिग्रन्थमस्मदुक्तरीत्यैव व्याकुर्वन्तो यतो न वयमित्यादिग्रन्थे भङ्गायन्तर- माश्रयन्ते तद्यथा दृश्यत्वे दृश्योपादेयत्वं तन्त्रमदृश्यत्वे चाहश्योपादेयत्वामित्ययं नियमः सौगताना. मेवावश्यकः घटात्मकपरमाणुसन्ताने दृश्यत्वस्य चक्षुरात्मकपरमाणुसन्ताने चादृश्यत्वस्य व्यवस्थायै दृश्यत्वावच्छिनं प्रति दृश्यत्वेनादृश्यत्वावच्छिन प्रत्यदृश्यत्वेन चोपादानकारणतायाः वक्तव्यत्वात् नतु नैयायिकानामनुपपनत्वादनुपयोगित्वाश्च । कथमनुपपन्नत्वमिति चेदुच्यते नैयायिकमते हि दृश्यत्वादृश्यत्वे अर्थसमाजग्रस्ते नीलघटत्ववत् यथा स्त्रसामच्या घट उत्पद्यमानस्तत्र नीलरूपोत्पादकसामय्यां सत्यां नीलो भवत्यसत्यां चानीलो भवतीति नीलघटत्वमनीलघटत्वं चार्थसमाजप्रस्तमिति नकस्यचित्कार्यतावच्छेदक एवं स्वसामय्या उत्पन्नो घटस्सत्यां महत्त्वोद्भूतरूपालोकसंयोगादिरूपदर्शनसामय्यां दृश्यो भवत्यसल्यामह- श्यो भवतीति दृश्यत्वगदृश्यत्वं च अर्थसमाजप्रस्तमिति न कस्यचित् कार्यतावच्छेदकं भवितुमर्हति तदिदमनुपपन्नत्वं अत एव चानुपयोगित्वमपि महत्त्वोद्भूतरूपादिकारणसमवधानासमवधानाभ्यामेव - श्यत्वासश्यत्वव्यवस्थोपपत्तेः । नत्वेवं सौगतानामुपपन्नत्वात् उपयोगित्वास तन्मते हि दृश्यत्वादृश्यत्वे नार्थसमाजभ्रस्त यथाह्मास्मिन्मते घटत्वं साहजिकं तथा तन्मते दृश्यत्व मदृश्यत्वं च साहजिक नात्प नः परमाणु: किंचित्कारणमपेक्ष्य दृश्यो गवति तस्य क्षणिकत्वादुत्पद्यमानं एव हि कश्चित्स्वभावा. दृश्य एवोत्पद्यते कश्चिददृश्यः अती नैयायिकमतसिद्धघटत्वपटत्वतुल्ये सौगतानां दृश्यत्वादृश्यत्यव्यवस्था- सिद्धये कयोश्चित्कार्यतावच्छेदके अवश्यमभ्युपेतव्ये । तत्र परिशेषात् दृश्यत्वं दृश्यत्वविशिष्टोपादेयतावच्छे. दकमदृश्यत्वं चादृश्यत्वविशिष्टोपादेयतावच्छेदकमिति वक्तव्यं तादेदमुपपनत्वं अत एव चोपयोगि- स्वमपि न हि त्वन्मते महन्योद्भूतरूरादेः कारणत्वं संभवति तथासति परमाणोः महत्वाभावेन घटात्मकपरमाणुसन्ताने कस्यापि प्रत्यक्षत्वानुपपत्तेः । तत्र महत्वस्य कारणत्वानङ्गीकारे सर्वेषां पर- माणूनां सर्वदा प्रत्यक्षत्वापतेः दृश्यत्वावच्छिन्नं प्रति दृश्यत्वेनोपादान रणतास्वीकारे सर्वेषां परमाणूनां प्रत्यक्षत्वापत्तिर्वार्यते घटात्मकपरमाणुसन्तानान्त.पातिनां दृश्यत्वमायुपपद्यत इति वक्तव्यम् । तत्रच घटात्मकपरमाणुसन्तानात् पूर्वेषामदृश्यत्वेन कथं तैर्घटारमकाः दृश्याः परमाणवः प्रथममु- पादीयन्त इत्याशयेनाह । यतो न वयामिति । स्वभावादिति .। घटत्वादिवत् धीनामति न वयमाचक्ष्महे इत्यर्थ इति तदेदमपि व्याख्यानं समीचीनमेव पूरणाद्यभावादिति द्रष्टव्यम् । ननु मयापि महत्वोद्भूतरूपादेः कारणवमिष्यते नातश्चक्षुरादेः प्रत्यक्षत्वं चक्षुराद्यात्मके परमाणुपुले उ. द्भूतरूपानङ्गीकारात् त्रसरेण्वाधारमकस्य तु परमाणुपुञ्जस्य प्रत्यक्षत्वमुपपद्यते तत्र महत्त्वानजी कारा- दिति चेत् तर्हि नसरेणोरणुपुञोपादेयत्वं महत्त्वं च सिद्धं महत्त्वे सिद्धे किं तत्र षट्वकल्पनया लाघवादेकत्वस्यैवोचितत्वात् एकैकस्मिन् सरेणी पण्णां महतां द्रव्याणां अनुपलम्भबाधितत्वाच्च तथाचा. एव पर्यवसानं अर्थ चार्थः क्वचित्पुस्तकेषु परमाणोमहत्त्वामाचादित्यत उपरि- शादित्थं चेयतःप्राग्विद्यमानेन तदारब्धस्य महतस्तद्भिन्नस्य कस्यचिदगीकारे विवादाभावादित्यनेन च कारणसमाजा- स्मन्मत