पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रमा-मञ्जूषा-दिनकरीय-गगरुद्रीयसमन्विता । २८१ नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥ ३६॥ नास्ति तथापि पाकजस्पर्शवद्वृत्ति द्रव्यत्वव्याप्यजातिभत्वमर्थो बोध्यः ॥ नित्येति ॥ सा पृथिवी नित्याऽनिल्या चेत्यर्थः । अणुलक्षणा परमाणुरूपा पृथिवी नित्या ।। ३६ ।। प्रभा. चेत्यादिना ॥ द्रव्यत्वव्याप्यति ॥ जलावृत्तीत्यर्थः । इदमुपलक्षणं पृथिवीत्वजातिमत्त्वमपि तल्लक्षण वोध्यम् । नच व्यतिरेकसहचारेणाप्यन्य अव्याप्तिरेव गृहात इति आचार्यसते हेतौ साध्यासामानाधि. करण्यज्ञानस्य तुल्यवित्तिवेद्यतया साध्ये हेतुसामानाधिकरण्याबगाहित्येन हेतोरेव पक्षताचच्छेदकतया प- क्षतावच्छेदकाश्रये साध्यसिद्धयात्मकत्वेनानन्तरमितरभेदसाधने सिद्धसाधनापत्तिरिति वाच्यं तादृश- ज्ञाननिष्पत्तावपि पक्षविशेष्यकसाध्यप्रकारकज्ञानत्यानिम्पन्नत्वेन सिद्ध साधनाप्रसक्तः । व्यतिरेक्यनुमितो व्य- तिरेकव्याप्तिज्ञानस्यैव हेतुत्वमिति नैयाथिकमत सुतरां सिद्धसाधनाप्रसक्तरित्यपि बोध्यम् । अणुत्वस्य यणुकसाधारण्येन तस्य नित्यत्वासंभवादाह ॥ परमाणुरूऐति ॥ १६ ॥ मञ्जूपा. यते तदाश्रये वायुभेदस्तदैव ज्ञायत एवेलस्ति. ततोऽस्य विशेषः । यद्यपि वायुवृत्तिस्पर्शकत्वादिय- किंचियक्ति तद्यक्तित्वेन त्या तब्यक्त्यसमानाधिकरण जातिमत्वं लक्षणं संभ ति तथापि तहक्ष- गया नामराणामसंप्रतिगादत्वात्तदुपेक्षितम् । इदमत्र बोध्यं खसजातीयभेदघाटेलं स्व सजातीयावृत्तिजातिष- टितं वा लक्षणमेव न संभवाति न वयं चूमः किंतु यतेंदघटितं यदवृत्तिधर्मघटितं वा शलक्षणां तन्न दिनकरीयम्. कत्वाल्लक्षणत्वं न सम्भवतीति तत्परित्यागः । वस्तुतस्तु पृथिवीत्वजातिरपि पृथिव्या लक्षणम् । न च व्यतिरेकसहचारेणाप्यन्वयव्याप्तिरेव गृह्यत इत्या वार्यमते पक्षतावच्छेदकस्य न हेतुत्वामिति वाच्यम् । हेतुः साभ्यसमानाधिकरण इति ज्ञानेऽपि हेतुमान् साध्यवानिति बोधस्यानिष्पन्नत्वेन प. क्षताबछेदकत्वेऽपि हेतुत्वाविरोधात् व्यतिरेकव्याप्तर्गमकतायां तु सुतराम् । अगुवस्य द्वयणुकेऽपि सत्त्वादाह ॥ परमाणुरूपेति ॥ ३६ ॥ रामरुद्रिीयम्. आचार्यमत इति ॥ व्यापकसामानाधिकरण्यरूपान्वयव्याप्तिज्ञानमेव सर्वत्रानुमितो कारणम् । न चैव. भन्वयसहचारज्ञानेन पृथिवीतरेभ्यो भिद्यते गन्धवत्वादित्यादावन्वयव्याप्तिज्ञानासम्भवात्कथमनुमितिरिति वाच्यम् । तत्र व्यतिरेकसहचारग्रहणैवान्वयव्याप्तिग्रहस्वीकारात् ।। तथा चान्वयसहजारमात्रगृहीत- व्याप्तिकत्वमेव केवलान्वयित्वम् । हेतौ व्यतिरेकसहचारमात्रगृहीतव्याप्तिकत्वं केवलव्यतिरेकित्वम् । उभय सहचारगृहातव्याप्तिकत्वमन्वयव्यतिरोकित्यमित्याचार्यमतं उभयव्याप्तिज्ञानस्यानुमितिकारणतावादिम- णिकारमत एवं गृहीतान्वयमात्रव्याप्तिमत्त्वादिकं कबलान्वयित्वादि कामिति बोध्यम् ॥ पक्ष- तावच्छेदकस्येति ॥ व्याप्तिग्रहदशायामेवानमितिग्राह्यण पक्षतावच्छेदकसाध्ययोः सामाना- धिकरण्यस्य गृहीततया सिद्धसाधनापत्तेरिति भावः । अचिरोधादिति ॥ समानाकारिकाया अ- धिकविषयिण्या अपि तथाविधाया एव सिद्ध र नुमितिप्रतिवन्धकत्वादिति भावः । यद्यपि तथाचा- यमित्युपनयवाक्यात्पक्षो हेतुमानिति बोध पब प्राचीनैः स्वीकारात्पक्षतावच्छेदकहेत्वोरेको उपनयबा- क्याच्छाब्दवोधानुपपत्तिरस्ति तथापि परार्थानुमितावेब न्यायप्रयोगस्यापेक्षणीयतया खार्थाचमितिमा- दायैव लक्षणप्रयोजनसम्भवात् उपनयवाक्याच्छाब्दबोधासम्भवेऽपि क्षतिविरहात् । नवीनमते साध्यव्या- प्यहेतुमत्ताबोधस्यैवोपनयजन्यत्वोपगमेन विधेयांशेऽधिकार नाहितया तत्सम्भवाच्चेति भावः ॥ सु- तरामिति ॥ इदमुपलक्षणम् । अवच्छेदकावच्छेदनानुमितिसम्भवोऽपि बोध्यः सामानाधिकरण्यमात्र- विषयकसिद्धेस्तनाप्रतिबन्धकलादिति दिक 36