पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः । स्पर्श इति ।। तस्याः पृथिव्याः । अनुष्णाशीतस्पर्शवत्वं वायावपि वर्तत इ. त्युक्तं पाकज इति । इत्थं च पृथिव्याः स्पर्शोऽनुष्याशीत इति ज्ञापनार्थन्तदुक्त पाकजस्पर्शवत्त्वमावं तु लक्षणं अधिकस्य वैयर्थ्यात् । यद्यपि पाकजस्पर्शः पटादौ प्रभा. मूले अनुष्णाशीतपाकज इति ॥ अल यद्यपि मृदुत्वकाटिनत्वयोः स्पर्शविशेषरूपत्वमते मृदुत्वकदिनत्ववदवयवारब्धपृथिव्यां परस्परविरोधेन स्पर्शानुत्पत्त्या तश्राव्याप्ते यायतिव्याप्तेश्व वारणाय अनुष्याशीतस्पर्शसमानाधिकरणवाग्ववृत्तिजातिमत्त्वघटितलक्षणस्याप्यावश्यकत्त या तस्य लक्षणत्व- निराकरणे बीजाभावः तथापि यथाश्रुतमूलाभिप्रायेण लक्षणत्वं निराकरोति ॥ मुक्तावळ्यां इत्थं मजूपा. ५ इति वयं ब्रूमः किंत्वव्याप्यवृत्तित्वपक्षे निर्भर सूचनं बहुषु प्रदेशेष्वस्तीत्येतावदेव एवं गुणग्रन्थे अथ प्रादेशिको भवेत् वैशेषिको विभुगुणस्सं योगादिद्वयं तथेत्यत्रापि प्रादेशिकत्वमीदृशमेव वाच्यम् । तत्पूर्वतनानि हि कतिपयानि लक्षणानि यथाश्रुते दुष्टानि विश्वनाथेन चापरिष्कृतान्येव दृश्यन्ते अत: प्रादेशिकत्वलक्षणे एतत्परिष्काराकरणं न्यूनतारांपादकमिति शङ्काया एवानवकाशः संप्रदायमतेऽनाव: श्यकत्वाच ॥ २५ ॥ ज्ञापनार्थमिति ॥ नन्वावश्यकेऽनुष्णाशीतत्वषाकजस्वयोरन्यतरस्य वैयर्सेऽवश्यंभाविन्याञ्च जातिघटनायां पाकजत्वोक्तरेव स्वरूपाख्यानपरता स्वीकृत्य अनुग्णाशीतत्व जाति पुरस्कारेणैव लक्षणघटकत्वमुचितं अनुष्णा शीतस्पर्शवदत्तिवाय्ववृत्तिजातिमश्वविवक्षयैव वायावतिव्याप्तिवारणसंभवात् । अथवान शातिरेव न घटनी. या वायुभिन्नत्वे सति अनुष्णाशीतस्पर्शवत्त्वस्थैव लक्षणत्वसंभवात् गृदुकठिनादिनानाजातीयस्पर्शवदवयवारब्धे- ऽग्यवयविनि द्रव्यपार्शनानुरोधेन चित्रस्पर्शस्वाव्याप्यवृत्तिनानास्पर्शस्य वावश्यमभ्युपेतव्यत्वेन तत्राव्याप्तर. नवकाशादिति चेदुच्यते । स्वसजातीयभेदानुमानार्थमेव हि लक्षणं तत्कथं खसजातीयभेदघटितमेव कर्तुं यु. कं साध्याविशेषत्वप्रसङ्गात् स्वसजातीयावृत्तिजातिमत्त्वघटितमप्यत एव लक्षणं न युक्तम् । तज्जात्याश्रये वायुभेदज्ञानमन्तरेण तज्जातो वारववृत्तित्वस्य दुर्ग्रहतया पृथिव्यां वायुभेदे साध्ये साध्याविशेषत्वस्य दुरित्य- त् । अत एव सति गत्यन्तरे स्वसजातीयभेदादिकं न लक्षणे प्रवेशयन्ति तान्त्रिकाः । अथैवं सत्यभास्वर- शुकेतररूपासमानाधिकरणेत्यादिवक्ष्यमाणजललक्षणादीनि व्याहन्येरन् अभास्वरशुक्लेतररूपासमाना. धिकरणत्वस्य पृथिवीते जोवृत्तित्वाभावपर्यवसनादिति चेन्न व्याहन्यन्ते नहि जलत्वे अभास्वरशुक्लेत. ररूपासमानाधिकरणत्वं तदाश्रये पृथिवीतेजोभेदपर्यवसन्नं तरय शंखत्वादिजातिसाधारणत्वात् तज्जायाध- येऽभास्वरशुक्लादितर द्रूपनारतीत्येतावत एवार्थस्य तत्र प्रतीयमानत्वाच्च । वाय्ववृत्तित्वं तु यज्जाती ज्ञा. दिनकरीयम्. अनुष्णाशीतत्वस्य वैयर्थ्यादाह ॥ इत्थं चति । पाकजस्पर्शवत्वमात्रोक्तो चेत्यर्थः । न्यायमते पाक- जस्पर्शाभाववति पटे वैशेषिकमते पाकजस्पर्शस्य परमाणुष्वेद विद्यमानत्वादवयविनि भागासिद्धिमा- शय निषेधतिः ॥ यद्यपीति ॥ पाकजस्पर्शति ॥ पटादावित्यादिपदेन वैशेषिकमतेऽवयवि. मात्रपरिग्रहः । सत्तारूपजातिमादाय गगनादावतिव्याप्तिवारणाय व्यत्वव्याप्येति । व्यत्वसमाना- धिकरणसत्तामादायातिव्याप्तिवारणाय व्याप्यभागः । स्पर्शसमानाधिकरण जलत्वादिकमादाय जलादावति- व्याप्तिवारणाय पाकजति । पाकजद्रवत्वसमानाधिकरणतेजस्वमादाय तेजस्यतिव्याप्तिवारणाय स्पर्शति । जलपृथिव्यन्यतरत्वमादाय जलादावतिव्याप्तिवारणाय जातीति । अल च पृथिवीत्वस्य लक्ष्यतावच्छेद- रामरुद्रीयम्. ननु पृथिवीत्वमपि पृथिवीलक्षणं सम्भवतीति तत्कयन्त्रोक्तमित्याशङ्कां निरस्यति ॥ अत्र चेति ।