पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । २७९ मञ्जूषा. वाच्यम् । कालत्वानवच्छिन्नजनकत्वादिनिवेशनव तद्वारणसंभवादिति । अन्येतु स्ववृत्तिरूपनाशवत्त्वं लक्षणधटकं घटो हि स्वकृत्तरेव रूपस्य नाशवान् “नतु जलपरमाणुस्तथा तत्तिरूपस्य नाशाभावात् अतो न दोष इति वदन्ति । उभयमपि विश्वनाथासम्मतं रूपनाशवदित्येव तेनोकत्वादिति चो. ध्यम् । अन्न यद्यपि जातिघटनाया आवश्यकत्वे नानारूपवती मतेति मूलस्य नानालक्षणपरत्वं स्वीकृत्य नीलवत्तिद्रव्यत्वव्याप्यजातिमत्त्व पीतचद्वात्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति रीत्या लक्षणान्येष वस्तुमुचितानि रूपद्वयवत्त्वस्य रूपनाशवत्त्वस्य वा निवेशे गौरवात् तथापि नानारूपवतीत्यनेन रू- पविभाजकयावद्धमविच्छिन्नवतीत्यर्थी लभ्यत तत्रच यया रीत्या लक्षणकरणे सर्वविभाजकधर्माकान्ता. नां लक्षणषटकता स्यात् तथा वक्तुमुचितम् । तत्रच रूपद्वयवद्वृत्तीति वा रूपनाशवद्वृत्तीति वा लक्षणकरणे स्वैरं सबविभाजकधर्माकान्तानां लक्षणघटकता न वार्यते पृथग्लक्षणकरणे तु शुक्लरूपस्य लक्षणघटकता न युज्यते जलादायतिव्याप्तिप्रसङ्गात् । शुक्लत्वव्याप्यपाकादिजन्यतावच्छेदकजातिविशेषपुरस्कारेण तत्रापि किंचिल्लक्षणगवेपणे तु प्रयासगौरवमिति बोध्यम् । एवं षड्डिधस्तु रसस्तत्रेत्यत्रापि मधुररसघटितल- क्षणस्य जलातिव्याप्तिदुष्टतया सर्वरसविभाजकधर्माकान्तानां लक्षणघटकता संभवतीत्यभिप्रायेणैव रस- द्वयवदृत्तीत्याद्यनुसतं । स्यादेतत् पडिधस्तु र सस्तोत्यादाविवात्रापि सप्तरूपवती मतेति संख्याविशेषवाचकप. दमुपेक्ष्य किमिति सामान्यतो नानारूपवती मतेत्याह विश्वनाथ इति चेद्रूपस्य सप्तविधत्वे निर्भरा. भावादिति ब्रूमः । सप्तविधत्वं हि चित्ररूपाङ्गीकारेण स्यान्न तत्र प्रन्थकृतो निर्भरः । नानाजाती- यरूपवदवयवारब्धेऽवयविन्यन्याप्यवृत्तिनानारूपस्वीकारसंभवात् अथ तर्हि स्यादूपं तत्र षड्डिधमिति बू- तादिति चेत् संप्रदायविरोधापत्तेः नत्वेवं पड्डिधस्तु रसस्त नेत्यत्रानुपपत्तिरस्ति ॥ वस्तुस्थितिमात्रमिति ॥ अथान सुरभित्वेन असुरभित्वेन च पृथक् लक्षणद्वयं स्वीक्रियतां तत्सूचकतया द्विविधपदसार्थक्यात् नपत्र शुक्लरूपमधुररसयोरिव कस्यचिदतिव्याप्तिप्रसक्तिरस्तीति चेत् किमत्र गन्धरत्वेन सुरभित्वासुराभित्वाभ्यां च लक्षणत्रयपरत्वमस्य वाक्यस्यास्त्विति शङ्कयते आहोस्वित् सुरभिस्वासुभित्वाभ्यां लक्षणद्वयपरत्वमेवेति । आये गन्धत्वावच्छिन्नघटितलक्षणेनैवेतरलक्षणद्वयस्य सिहत्वात अतो न पृथगुक्तम् नाहि गन्धः पृथिव्यां वर्तते अन्यत्र न वर्तत इत्युक्ते गन्धत्वव्याप्यजात्यवाच्छिन्नः पृथिव्यां किं न वर्तेतान्य न वा चततेति कोऽपि सन्दिह्यात् अतिप्रसङ्गश्चैवं स्यात् । सन्ति मालतीवकुलचम्पकपुन्नागकुन्दारविन्दादिगन्धेषु भिन्ना जातयः तत्तद्रू- पेण लक्षणकरणप्रसङ्गात् तस्मात् गन्धत्वावच्छिन्नघटितलक्षणेन चरितार्थत्वात् नंतरलक्षणद्वयकरणं युक्तं । नापि द्वितीयः लघुलक्षणोपेक्षाया अन्याय्यत्वात् सुरभित्वादिघटितलक्षणे हि जातिघटनाऽऽवश्य की अन्यथा परस्परमव्याप्तिप्रसङ्गात् अतो गौरबसंपादके ते उभे लक्षणे । नच नानाजातीयगन्धवदयवारब्धघटेऽव्याप्ति- वारणायात्रापि जातिघटनाऽऽवश्यकीति वाच्यम् । तत्राव्याप्यवृत्तिनानागन्धस्वीकारेण जातिघटनानावश्यकी- । त्यभिप्रायात् रूपादीनामव्याप्यवृत्तित्वस्वीकारपक्ष एवास्य निर्भरात् । किमत्र सूचकमिति चेदिदमेव तावदेकं यत्सुराभित्वादिघटितलक्षणद्वयस्य मूललभ्यस्याप्युपेक्षणं नानारूपवतीत्यभिधानं द्वितीयं एवमौत्सर्गिकपाठे पाषाणे गन्धाभावात् गन्धवत्त्वमव्याप्तमित्यभिधानं तृतीयं तत्पाटे पृथिवीत्वेन पाषाणे गन्धवत्त्वसाधनं न चतुर्थ घ्राणेन्द्रिये वाम्बानीतपार्थिवभागे च पृथिवीत्वेन रसानुमानं पञ्चम एवमत्रैव पूर्वापरलक्षणयो. र्जाति घटयित्वा मध्यस्थे गन्धवत्त्वलक्षणे स्वयं तदघटनं षष्टं एवमन्यदपि तत्र तत्र वक्ष्यामः । चैत्रमव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यत इत्यत्र प्रथमलक्षणं पृथिव्यादावतिव्याप्तमिति बा- व्यम् । द्वितीयलक्षणे त्रिक्षणवृत्तिजन्यावृत्तिजातिमत्त्वरूपक्षणिकत्वनिर्वचनवत् प्रथमलक्षणेऽपि व्या- प्यवृत्तिजन्यावृत्तिजातिमत्त्वरूपाव्याप्यवृत्तित्वनिर्वचनसंभवात् । नहि सकृदुक्तयोयोलक्षणयोरेकन दर्शितपरि- काररीतेरन्यत्राप्याश्रयणे प्रयासाधिक्यमस्ति । ननु तर्हि प्रथमलक्षण एव तां रीतिमभिधाय द्वितीय- लक्षणे तदतिदेशो युक्त इति चेत् संप्रदायमते प्रथमलक्षणे तदनावश्यकल्वेन द्वितीयलक्षणे सर्वमत एव तदावश्यकत्वेन च द्वितीयलक्षण एव तदभिधानातू । नहि संप्रदायमतन्नाभिधत्ते विश्वना. WI