पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ कारिकावली पविधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥ न्वयः ॥ पड्डिध इति || मधुरादिभेदेन यः पड्विधरसः स पृथिव्यामेव । जले मधुर एव रसः । अत्रापि पूर्ववद्रसद्वयववृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणार्थोऽवसेयः । द्विविध इति वस्तुस्थितिमात्रं नतु द्विविधगन्धवत्वं लक्षणं द्विविधत्वस्य व्यर्थत्वात् । द्वैविध्यं च सौरभासौरभभेदेन बोध्यम् ॥ ३५ ॥ प्रभा. घटितत्वेन गौरवात् द्वितीयलक्षणानुसरणमिति बोध्यम् ॥ मूले पड्डिधस्तु रसस्तवेति ॥ अ. त्र यद्यपि पड्डिधर सवत्त्वं न लक्षणं अव्याप्त्यापत्तेः नतु रसवत्त्वमात्रमतिव्याप्त्यापत्तेः अतो जाति- घटितलक्षणस्यावश्यकतया रससमानाधिकरण जलावृत्तिजातिमत्त्वमिति रसत्वावच्छिन्नघटितलक्षणवन्मधुरत्वा- द्यवच्छिन्नघटिनलक्षणषट्कमपि मूलाभिप्रेतं अत एव पड्डिधस्तु रसस्तवेत्युक्तवानिति तथैव वक्तुमु- चितं तथापि यथाश्रुतमूलाशयमनुसृत्यार्थ माह ॥ मुक्तावल्यां अत्रापीति ॥ पूर्ववदिति ॥ रूपघ- टितलक्षणपरिष्कार इवेत्यर्थः ॥ द्रव्यत्वव्याप्यति ॥ अत्रापि जातेः द्रव्यत्वव्याप्यत्वेन न प्रवेश : गौरवात् प्रयोजनाभावाच किन्तु जलावृत्तित्वेनैव । रसद्वयवद्वृत्तीत्युपलक्षणं रसत्रयादिमत्तात्यपि बो- ध्यम् । अत्रापि द्वित्चत्रित्वादिघटितत्वेन गौरवात् रसनाशवद्वृत्तित्वघटिरालक्षणमेव कार्यमिति हृदयन् ॥ मूले गन्धस्तु द्विविध इति ॥ अन्न यद्यपि गन्धयत्त्व मात्रस्य लक्षणत्वे नानागन्धवदव यवारब्धनि- गन्धघटेऽव्याप्तिवारणाय गन्धसमानाधिकरणजलावृत्तिजातिमत्त्वमिति गन्धत्वावच्छिन्नघटितलक्षणवासुर- भित्वाद्यवच्छिन्नघटितलक्षणद्वयमप्यावश्यक तुल्ययुक्तेः अत एव द्विविधो मत इत्यनेन गन्धस्य द्वैवि- ध्यप्रतिपादनमपि संगच्छत इति तथैव वक्तुमुचितं तथापि यथाश्रुतमूलाशयमनुसृत्याह । मुक्ताव- ळ्यां द्विविध इति ॥ वस्तुस्थितिमात्रमित्यादिना ॥ मञ्जूपा. रमाणो दैशिकविशेषणतासंवन्धेनोत्पत्या तद्वृत्तिजलत्वमादायातिव्यातिप्रसङ्गात् । केचिदेतोषवारणाय पा- कजत्वेन रूपनाशं विशिषन्ति अथैवं पाकजत्वेन विशेषिते रूपीयत्वं नाशत्वं च व्यर्थम् । नच त- थासति पाकजद्रवत्वमादाय तेजस्यतिव्याप्तिरित्ति वाच्य आवश्यकविशेषणतासंबन्धनिवेशेनैव तद्दो- पवारणात तथाच विशेषणतया यः पाकजवान् तत्समवेतद्रव्यत्वव्याप्यजातिमत्त्वामित्येव लक्षणमुचितमि- ति रूपनाशघटितलक्षणस्य नेयं विवक्षेति चेन्न । तेजःसंयोगरूपो यः पाकः प्रतियोगिविधया तजन्यो यस्तद्धंसः तद्वति तेजस्यतिव्याप्तिवारणाय रूपीयत्वनिवेशनसार्थक्यसम्भवात् । नाशत्वनि- वेशनं तु विशेषणतासंबन्धेन तद्वत्त्वलाभाय नच पाकजत्वं यदि तेजस्संयोगजन्यत्वमानं तदा जला- वयविरूपनाशं प्रत्यपि तेजस्संयोगस्य कालविधया जनकत्वात् तद्दोषतादवस्थ्यम् । अतस्तेजस्संयोग- निठवैजालावच्छिन्नजनकत्ता निरूपितजन्यतैव निवेश्या तथा च सति व्यर्थं रूपीयत्वादिनिवेशनमिति दिनकरीयम्. षविधस्तु रसस्तत्रेति मूलोक्तं रसस्य पड्विधत्वं प्रकाशयति ॥ मधुरेत्यादिना ॥ यत्र भानारसा नोत्पन्नास्तनाग्याप्तिरित्यत आह || अत्रापीति ॥ ननु मूले गन्धस्तु द्विविधो मत इत्यनेन द्विविधगन्धवत्वं पृथिव्या लक्षणं प्रदर्शितं तच्चायुक्त द्वैविध्यांशस्य वैयादित्यत आह ॥ वस्तुस्थि- तिमात्रमिति । वस्तुगत्या गन्धो द्विविधस्तिष्ठतीति सूचयितुमुक्तं न तु लक्षणे द्वैविध्यस्यापि प्रवेश इत्यर्थः । भन्धस्य द्वैविध्यं प्रकाशवति ॥ वैविध्यं चेति ॥ ३५ ॥ रामरुद्रीयम्. पमेनेति न गौरवमिति भावः । द्वित्वादिघटितत्वेनेत्यादिपदं सम्पातायात तदितरभागस्योभयत्र | तुल्यत्वादिति ध्येयम् ॥ जातीतीति । अत्रापि पूर्वोक्तमनुसन्धेयम् ॥ ३५ ॥