पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. न d- पितसमवायसंबन्धावच्छिन्नजन्यताश्रयो यत् तत्तदुपादानोपादेयामिति द्रव्यादित्रिकसाधारणी एकैव यत्तयां व्याप्तिः फलिता । तत्र जनकतायां देशिकविशेषणतासंबन्धावच्छिन्नत्वानिवेशे घटप्रागभावप्रतियोगिकवटा. स्मकध्वंसनिष्ठजनकतानिरूपितसमवायसंबन्धावच्छिन्नजन्यताश्रयघटीयरूपादेः घटनागभावोपादानाप्रसिद्धया तदुपादेयत्वस्य सुतरामप्रसिद्धया व्याप्तिभङ्गापत्तिरिति दनिवेशितं । एवंच तादृशघटनिष्टजनकतायाः तादात्म्यसंबन्धावच्छिन्नत्वेन घटीयरूपे व्याप्याभावात् व्यापकाभावेऽपि न क्षतिः । जन्यतायां समवाय सं. बन्धावच्छिन्नत्वानिवेशे स्वजनक्रियानाशजन्यस्वप्रतियोगिकविभागताशे तादृशक्रियानाशनिष्ठदेशिकविशे- षणतासंबन्धावच्छिन्नजनकतानिरूपितजन्यतारूपव्याप्यस्य तादृश विभागनाशे सत्त्वेन तत्र तदुपादानोपा- देयत्वाभावात् व्यभिचारापत्तेः समवायसंबन्धावच्छिन्नत्वानवेशे तु तदिशविभागनाशनिष्ठजन्यतायास्स- मवायसंबन्धावच्छिन्नत्वाभावेन समवाय संबन्धावच्छिन्नजन्यत्वरूपव्यायामावात् तत्र व्यापकाभावेऽपि न व्यभिचारः । नच विभागनाशं प्रति स्वजनकक्रियानाशस्य हेतुत्वे मानाभाव इति वाच्यं हस्तनिय- या हस्तपुस्तकविभागे सति उत्तरसंयोगोत्पत्त्या तादृशक्रियानाशे सति पुनर्हस्तक्रियया विभागद्वारा पुनगई. स्तपुस्तकसंयोगे जाते एकदा हस्तपुस्तकविभागतत्संयोगयोरेकत्र वृत्तित्वापत्तेः । एवं पुनर्हस्तक्रियया हरत- पुस्तकविभागोत्तरं पुनरुत्तरसंयोगः तदुत्तरं तक्रियानाशे पुनर्हस्तक्रिया पूर्वदेशविभागपूर्वकहस्तपुस्तकसंयोग मजूपा. मिचारः एवंच वहि प्रति प्रतिबन्धक भूतस्य मणिविशेषस्य यो ध्वंस: तस्यापि कारणत्वेऽपि क्षतिः मणिवह्नयोस्साजात्याभावात् । यदितु घटं प्रत्यपि कस्यचिन्माणिविशेषस्य प्रतिबन्धकत्वेन दे॒सस्यापि तव कारणत्वमभिमन्यते तदोक्तीतिरप्यनुसतव्ये त्याहुः तन पाषाणे पृथिवीत्वस्य सन्दि- चितमा तत्र भस्मसाजात्यस्य प्रागनिर्णयात् तन्निर्णये चानुमानवैवात् तथाच पाषाणभस्म पापा- णोपादानोपादेयं स्वसजातीयपाषाणध्वंसजन्यत्वादिसनुमाने साध्याविशिष्टत्वम् । किंच · वहि प्रति न पाषाणध्वंसस्य कारणता मोचाकन्दरससेकादिना पाषाणनाशे वहयनुत्पादात् कित्ववयवाविभागविशेषस्य विल. क्षणाभिघातस्य इति न वह्नौ व्यभिचारप्रसक्तिः । अन्ये तु दृष्टान्तदाष्टान्तिकयोदव्यत्वाइव्यपदमुपातं नतु द्रव्यत्वस्य तत्र प्रवेशः अत एव रूपध्वंसजन्यस्य रूपान्तरस्य पूर्वरूपोपादानोपादेयत्वं कर्म- ध्वंसजन्यस्य कर्मान्तरस्य पूर्वकर्मोपादानोपादेयत्वं च ततश्च- रूपाद्यसङ्गाहकत्वात् द्रव्यत्वमनुपादेय- मेध किंच द्रव्यध्वंसः प्रायेण दैशिकविशेषणतया कारणं स्यात् दं च समवायन कार्य स्यात् इति कारणतायां दशिकविशेषणतासंबन्धावच्छिन्नत्वस्य कार्यतायां समवायसंबन्धावच्छिन्नत्वस्य च ला. भायोभयत्र द्रव्यपदे उपात्ते । तथाच यत् यसनिष्ठदेशिकविशेषणतासंबन्धावच्छिन्नकार मतानिरू- पितसमवायसंयन्धावच्छिन्न कार्यताश्रयीभूतमिति व्याप्यदळार्थः । एवंच पाषाणध्वंसस्य वहि प्रति कारण- स्वेऽपि न क्षतिः तत्रहि संयोगेन वहि प्रति दैशिकविशेषणतया पाषाणध्वंसस्य समवायेन वहि प्रति स्वाथ- यसंयोगसंबन्धेन पापाणध्वंसस्येति वा कार्यकारणभावो वक्तव्यः न तु समवायेन वहि प्रति दै- शिकविशेषणतया पाषाणध्वसस्यातो न दोषः । विषयतया प्रत्यक्षं प्रति तादात्म्येन विषयस्य का- रणता अतो न घटध्वंसप्रत्यक्ष व्यभिचारः । ध्वंसप्रागभाचयोस्स्वप्रतियोगिसमवाथिदेशवृत्तित्वमित्यत्र साक्षादेव समवायित्वं यद्यभिप्रेतं तदा कालिकसंबन्धेन कपालसमवेतकार्यनाशं प्रति कालिकसंबन्धेन पालनाशस्य कारणतेत्येव कार्यकारणभावः यदि तु साक्षात्परम्परासाधारणं समवायित्वं तह निविष्ट सदा कपालनाशकपालरूपादिनाशयोः कपालारम्भकपरमाणुषु दैशिकविशेषणतयोत्पत्तिसंभवेन दैशिक- विशेषणतासंबन्धेन कपालसमवेतकार्यनाशं प्रति दैशिकसंबन्धेन कपालनाशस्य कारणतापि संभवति उभयथापि कार्यतायास्समवायसंबन्धानवच्छिन्नत्वालाश्रयनाशजन्यरूपनाशे व्यभिचार: उधूहं प्रति यदि मिध्याज्ञानजन्यवासमाध्वंसस्य कारणता स्वीक्रियते सदा शिकविशेषणतायाः कारणतावच्छेदकत्वेऽपि कार्यतावच्छेदकसंबन्धो म समवायः किन्तु विलक्षणसंयोगः स्वावच्छिन्नका । एवं काय.