पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ कारिकावली अथवा प्रभा. चाराप्रसक्तया व्याप्तिशरीरे सजातीयत्वाविशेषणमपि व्यर्थमेव । एवंच द्रव्यविभाजकोपाधिरूपेण साजा- त्यलामायापि द्रव्यपदद्वयं नोपादेय मेवेति व्याचरयुः । वस्तुतस्तु यहव्यमित्यादिव्याप्ती प्रन्थकर्तुः द्रव्यत्यनिवेशे न तात्पर्य यह याध्यमजन्यमित्यादि यत्कर्म यत्कर्मध्वंसजन्यमित्यादिव्याप्तेश्च वक्त व्यतया गौरवापत्तेः । द्रव्यादिरूपव्यर्थविशेषणघटितत्वेन व्याप्यत्वासिद्धनारत्तेश्च । किन्तु दृष्टान्ते २३५७पटमहापटयो व्यत्वात् दाष्टान्ति के भस्मपापाणपोव्यत्वाच यहव्यं यव्येत्युक्तं । भाषमात्रोपलक्षक द्रव्यपदद्वयं तदपि भावस्यैव समवाय सत्वेन कार्यतायाः समवायसंबन्धावच्छिन्नत्य- लाभाय भावप्रतियोगिकध्वंसस्यैव देशिकविशेषणतासंवन्धसत्त्वेन घटनागभावात्मकाभावप्रतियोगिकपटा- त्मकथ्वंसस्य तादशसंबन्धाभावात् वसनिष्ठकारणताया: देशिकविशेषणतासंबन्धावच्छिन्नत्यलाभाय च य- दब्यामित्याद्युक्तम् । तथाच यत्प्रतियोगिकर्वसनिष्ठाभावीय दैशिकविशेषगतासंवन्धावच्छिन्नजनकतानिरू. मञ्जूषा प्रति पाषाणध्वंसत्वेन जनकतास्वीकारपक्षेऽपि पापाणभरमत्वेन रूपेण पाषाणान्तरभस्मव्यक्ति प्रति पापाणध्वंसत्वेन रूपेण पाषाणान्तरध्वंसस्यापि स्वरूपयोग्यतारूपकारणत्व सत्यात् तत्र तदुपादानोपादे. यत्वविरहेण व्यभिचारः प्रसज्यते सच फलोपहितजन्यत्वस्यैव व्याप्यकोटी प्रवेशनेन परिहरणीयः खतो ध्वंसत्वावच्छिन्नत्वेन जनकलामप्रवेशयतां अस्माकं न फलोपहितत्वस्य तत्र प्रवेशनमधिकं । नच पायाणध्वंसत्वेन जनकतास्वीकारपक्षे यहव्यं यद्धर्मविशेपितद्रव्यप्रतियोगिकध्वंसत्वावच्छिन्नजनकतानि- रूपितजन्यताशालि त द्दव्यं तद्धाश्रयोपादानोपादेयमित्येवव्याप्तिरिष्यते तावतापि उक्तव्याभिचारवारणसंभवा. दिति न फलोपधाननिवेश आवशक इति वाच्यम् । यथाकथञ्चिदपि विवक्षान्तरस्य तवाप्यावश्यकतया अस्माकं गौरवाभावात् ध्वंसत्वेन जनकत्वविवक्षणे स्वरूपासिद्धयादिकं प्रसज्यत इत्यत्रैवात्माकमभिनिवेशा किय ध्वंसत्वेन जनकत्वे विचाक्षते नलकण्टग्रन्थोऽपि विरुध्यते । घरध्वंसप्रत्यक्षे घटध्वंसस्य घटं प्रति दण्ड- प्रायभावध्वंसात्मकस्य दण्डस्य च ध्वंसत्येन जनकाचविरहादेव तत्र व्यभिचारचारण न तन द्रव्यपदयोा. वृत्तिदानस्यासङ्गतत्वात् । यद्यपि घटध्वंसजन्यतत्प्रत्यक्षे दण्ड प्रागभावध्वंसजन्ये घटे च व्यावृत्तिदानं यथा- श्रुताभिप्रायेण निष्कृष्टपक्षाभिमायेण तु आश्रयनाशजन्यरूपनाशे मिथ्याज्ञानजन्य वासनाध्वंसजन्यकायब्यूहे च व्यावृत्तिदानामेति रीत्या तहन्धः संगमयितुं शक्यते तथापि पूर्वोक्तस्वरूपासिद्धिदृष्टान्तासिद्धयोः दुरितैव । अत्र केचित् तकाद्यातक्कैः परमाणुभिः दुग्यध्वंसे रात्येव दध्यारम्भातू दधित्वावच्छिन्नं प्रति दुग्वध्वंसत्वेन कार- णत्यमावश्यकम् । एवं खण्डपटात्मकानुगतप्रतीति साक्षिकं खण्डपटत्वमपि जातिविशेप: तदवच्छिन्न प्रति महापटध्वंसत्वेन हेतुत्वं महापटभ्वं विना तदवाच्छिन्नानुःपत्तेः । एवं पाषाणभस्मकरीपभस्मादिप्वपि वैजात्य मनुभवसिद्धं तदनाच्छन्नं प्रति च पायाणध्वंसात्वादिना कारणत्वमस्तीति न काप्यनुपपत्तिः अत एव घटादिक प्रति जलादिध्वंसस्य कालोपाधिविषया कारणत्वेन तद्वारणाय कालत्वानवच्छिन्नत्वनिवेशनप्रयासोऽपि नोपादेय इत्याहुः अबाक्षिपन्ति कारणतायां ध्वंसत्वावच्छिन्नत्वं निवेश्यतां मा वा उभयथापि मत्कुणध्वंस- जन्ये पटोलिकाशलाटौ सारमेयध्वंसजन्ये जम्बीरफले मातृवृश्चिकशरीरवंराजन्ये शिशुवृश्चिके च व्य- भिचारो दुर्वार इति ततेदमभिधीयते । पटोलिकाशलाटी न मत्कुणध्वंसः कारणं किंतु तदीयरुधिरस्य पटोलिकामूलान्तरवयवसंयोग एव अन्तःपवनोपनीतर्मत्कुणारम्भकपरमाणुभिरपि शलाटूनामारम्भसंभवेन व्यभिचाराप्रसक्तिश्च । एवं सारमे यध्वस जन्य जम्बीरफलेऽपि द्रष्टव्यं । मातृवृश्चिकशरीरध्वंसजन्यं तु न शिशुवृश्चिकशरीरं किंतु तस्य बहिर्देशसंयोगो मातृशरीरावयवसंयोगध्वंसजन्यः । केचिदत्रं यद्यर्बुसजन्य- मित्येतावत्युच्यमाने पाषाणध्वंसजन्यवह्नौ व्यभिचारेण यत्स्वसजातीयय«सजन्यं तत्तदुपादानोपादेयमि- त्येव व्याप्तिर्वक्तव्या तत्र साजायं केन रूपेणेत्याकाङ्क्षायां द्रव्यविभाजकरूपेणोति वक्तव्यं तत्सू- चनाय नियमशरीरे उभे द्रव्यपदे उपात्ते । तथाच पाषाणवयोर्घटतद्वंसप्रत्यक्षयोः कपालतद्रूपना- शयोमिथ्याज्ञानजन्यवासनाकायव्यूहयोर्दण्ड प्रागभावघटयोश्च द्रव्यविभाजकरूपेण साजात्यविरहान्न तेषु व्य-