पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली तथा हि पृथिवीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिध्यति अन्यथा ग- न्धत्वावच्छिन्नस्याकस्मिकत्वापत्तेः । न च पापाणादौ गन्धाभावात् गन्धवत्त्वमव्याप्त- प्रभा. थं तदुपन्यास इति हृदयम् ॥ सिध्यतीति ॥ गन्धसमवायिकारणता किंचिद्धमावच्छिन्ना कारणता- स्वात् दण्डनिष्ठकारणतावत् इत्यनुमानेन सिध्यतीत्यर्थः ॥ अन्यतयि ॥ गन्धत्वावच्छिन्नं प्रति पृथिवीत्वेन हेतुत्वानी कार इत्यर्थः ॥ आकस्मिकत्वापत्तेरिति ॥ श्वंसस्येवासमवेतकार्यत्वापत्ते- रित्यर्थः । समवायेन कार्याधिकरणप्यैव कार्यसमचायिकारणत्वादिति भावः । नच तद्गन्धव्यक्ति प्रति तत्तथिवीव्यक्तः समवायिकारणत्वस्वीकारेणैव तदापत्तिवारणे पृथिवीयन हेतुत्वे मानाभाव इति वाच्यम् कार्यमाल तिजाते. कार्यतावच्छेदकत्वनियमेन यद्विशेषयोरिति व्याप्त्या च गन्धवा- वच्छिन्नं प्रति पृथिवीवेन हेतुत्वस्यावश्यकत्वादिति भावः । इदमुपलक्षणं पृथिवीपदशक्यतावच्छेद- कतया पृथिवीत्वजातिसिद्धिः असति बाधके शक्यतावच्छेदकत्वस्यापि जातित्वसाधकत्वात् । नचे. मञ्जूपा. दव्यत्वसत्ताभिन्नत्वनिवेशने वोपपत्तरितरभेदनिवेशनं व्यर्थम् पृथिवी जलसंयोगादेः प्रत्येक गन्धसमवायिनि- टभेदप्रतियोगितावच्छेदकत्वात् समवायस्थ लक्षणतावच्छेदकसंबन्धत्वेन पृधिर्वाजलान्यतरत्वमादायाति- व्याप्तेरभावाच पृथिवीजलान्यतरत्वादिभेदनिवेशेऽपि पृथिवीत्वरूपतादृशधर्मस्य कालिकसंबन्धेन जलादाव- .पि सत्त्वेन समवायस्य लक्षणतावच्छेदकत्वस्वीकारावश्यं भावादिति बोध्यम् ॥ अन्यथेति ॥ गन्धत्वाव- च्छिन्नं प्रति पृथिवीत्त्वेन रामवायिकारणत्वानभ्युपगम इत्यर्थः ॥ आकस्मिकत्वापत्तरिति ॥ समवायि- कारणानियाम्पत्वापत्तरित्ययः । ननु गन्धत्वावच्छिन्नस्य समवायिकारणानि याम्यत्वे का क्षतिः नचासमवेत- त्वापत्तिः जन्यसत्त्वावच्छिन्नं प्रति तादात्म्येन द्रव्यस्य हेतुतया तत्तक्तिसमवेतसामान्य प्रति दिनकरीयम्. ग्यसाधारण्येन प्रत्यक्षासम्भवात्तत्साधारण्येन पृथिवीत्वसिद्धयर्थं तदुपन्यास इति । अन्यथा गन्धत्वावच्छिन्नं प्रति हेतुत्वानई कारे ॥ आकस्मिकत्वापत्तेः नियतकारणानियम्यत्वायत्तेरित्यर्थः । तथा च कार्यमात्रवृतर्गन्धत्वस्य कार्यतावच्छेदकत्वानुरोधेन तदवच्छिन्ने पृथिवीत्वेन हेतुत्वमावश्यकमिति भावः । इदमुपलक्षणम् । रूपादिनाशकत्तावच्छेदकतयापि पृथिवीत्वजातिसिद्धिष्टव्या प्रतियोगिता- रामरूद्रीयम्. अयोग्यविशेष्यकत्वेनेत्यर्थः । वैशिष्टयं तृतीयार्थः । तत्साधारण्येन अयोग्यपरमाण्वादिवृत्तित्वेनेत्यर्थः तथा च परमाणी प्रत्यक्षेण न पृथिवा त्वजातिसिद्धिः अपि तु तत्रापि गन्धोत्पत्त्या गन्धरूप कार्यहेतुकानु. मानेनैव तत्कारणतावच्छेदकप्रथिवीत्वजातिसिद्धिरिति भावः ॥ नियतकारणेति ॥ कारणे नियतत्वं ज- लादिव्यावृत्त वमेव । नियम्यत्वं कार्यतावच्छेदकधर्मवत्त्वं तथा च गन्धं प्रति पृथिवीत्वेनाकारणत्वे क- दाचिजलादावपि तदुत्पादः स्यादिति भावः । ननु नेयमापत्तिः सम्भवति पाकजगन्धे विजातीयत्तेजः- संयोगत्वेन तेजःसंयोगस्यापाकजे चावयवगन्धस्येव कारणतया तदभावादेव जलादौ गन्धोत्पादासाह. वात् वैजात्यस्य पृथिव्यनुयोगिकसंयोग एव स्वीकरणीयत्वात् अन्यथा एकवैजात्यस्यैव रूपादिजनकता- वच्छेदकतया जलादौ रूपोत्पादापत्तेः । न च रूपात्मकप्रतिवन्धक सत्त्वादेव न तत्र तदापत्तिरिति वाच्यम् 1 रूपान्तरोत्पादकतावच्छेदकस्यैव पूर्वरूपनाशकतावच्छेदकतया नाशस्यवापादनीयत्वादित्यस्वर- साद्भावमाह ॥ तथाचेति ॥ कार्यतावच्छेदकत्वानेयमादित्यस्य समवायिकारणकार्यतावच्छेदकत्वनि- यमादित्यर्थः । तेन गन्धत्वस्य विजातीयादृष्टजन्यतावच्छेदकत्वेऽपि न पृथिवीरवासिद्धिप्रसङ्गः व्या सिसिद्धिस्तु पटत्वादिकमालत्वादिभ्यो कार्यकार गभावदर्शनादेवेति भावः । ननूक्तव्याप्ती मानाभावस्त द्वाहकानुकूलतीभावादित्यस्वरसात्प्रमाणान्तरं दर्शयति ॥ इदमित्यादि ॥ विलक्षणेति ॥ प्रभा- भवः