पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. वमदृष्टपदशक्यतावच्छेदकतयाऽदृष्टत्वस्यापि जातित्वापत्तिरिति वाच्यम् अदृष्टपदस्य नानार्थकत्वेन कु तधर्मत्वादिजातेरेव शक्यतावच्छेदकत्वात् अत एव सैन्धवपदविभुषदशक्यतावच्छेदकतयापि न जा- त्यन्तरसिद्धिः कृप्ताश्चत्वादीनामेव शक्यतावच्छेदकत्वात् विभुपदशक्यतावच्छेदकात्मत्वस्य बाधकामा- वात् जातिरूपत्वं विभुपदशक्यतावच्छेदकाकाशत्वादेः व्यक्त्यैक्यरूपवाधकसत्त्वेनोपाधिरूपत्वं । वस्तु. तो विभुपदस्थ नानार्थकत्वाभावेऽपि विभुपदशक्यतावच्छेदकतया सिद्धविभुत्वस्य भूतत्वेन सांकर्यात् नजीतिरूपत्वमिति प्रतिभाति । एवंच पृथिवीत्वस्य जातिरूपत्वे वाधकाभावात् शक्यतावच्छेदकतया जातिरूपत्वसिद्धिर्भवतीति बोध्यम् । केचित्तु इदमुपलक्षणं रूपादिनाशकतावच्छेदकतयापि पृथिवीत्वजाति मम्जूषा. तत्तयक्तेस्तादात्म्येन हेतुतया च तदापत्तिविरहात् । नच जले गन्धत्वावच्छिन्नसमवायसंवन्धावच्छिनप्रति- योगिताकाभावरूपकारणबलातत्तत्कार्यतावच्छेदकीभूतगन्धत्वावच्छिन्नापत्तिवार गाय पृथिवीत्वेन हेतुत्वमा वश्यकमिति वाच्यम् गन्धत्यव्याप्यधर्मविच्छिन्न जनकानां पाकावयव सुरभ्यादीनां विशेषसामग्रीत्वकल्पनादेव तद्वारणात् समवायेन गन्धत्वावच्छिन्नं प्रति तादात्म्येन पृथिवीत्वेन कारणतावादिभिरपि मानाजातीयगन्धव- दवयवारब्धाभ्यामवयवाभ्यामारब्धेऽवयविनि पृथिवीरूपकारणबलात् गन्धाभावरूपकारणवलाच गन्धवावा च्छिन्नापत्तिवारणाय तेषां विशेषसामग्रीत्वस्यावश्यकल्पनीयत्वात् । नव कार्गमाचतिजातेः हार्यता- वच्छेदकत्वनियमेन गन्धत्वावच्छिन्नं प्रति पृथिवा त्वेन हेतुलमावश्यकमिति वाच्यम् । भन्धनति गन्धोत्पत्तिवारणाय कल्पनीयेन गन्धं प्रति गन्धाभावस्य कारणत्वेनैव तादृशनियमनिर्वाहात् । नच स- मचाथिकारणकार्यतावच्छेदकत्वं कार्यमालवृत्तिजातेरित्येव नियम इति वाच्यं अप्रयोजकत्वात् । जातेहि नियामकं किंचिदपक्षितं अन्यथा सर्वेषां सर्वजातीयत्वस्यैकजातीयत्वस्य वा प्रसङ्गात् तत्रच दिनकरीयम्. संबन्धेनाश्रयनाशाजन्यरूपनाशं प्रति स्वसमवायिकृथिवीरामवेतत्वस्व वृत्तिरूपत्वोमयसंबन्धेन विलक्षणतेज,सं- योगत्वेन हेतुत्वात् पृथिवीत्वस्य तादृशनाशकतावच्छेदकसम्बन्धघटकत्वात् । आश्रयनाशजन्य- रूपनाशे व्यभिचारवारणायाजन्यान्तं नाशविशेषणम् । घटाग्निसंयोगेन पटरूपनाशापत्तिवारणाय समवे. तत्वान्तस्य नाशकतावच्छेदकसम्बन्धे प्रवेशः । तेजोवृत्तिरूपे प्रतियोगितासम्बन्धेन तादृशरूपनाशापत्तिवा- रणाय तद्भटकतया पृथिवीत्वप्रवेशः । स्वसमानाधिकरणरसगन्धादौ । प्रतियोगितासम्बन्धेन तादृश. रूपनाशोत्पत्त्यापत्तिवारणाय स्ववृत्तिरूपत्वस्य नाशकतावच्छेदकसम्बन्धे प्रवेशः । स्ववृत्तित्वं च कालिक- विशेषणतया बोध्यम् । स्वसमवायिपृथिवीसमवेतत्वविशिष्टरूपत्वस्य सम्बन्धत्वे रूपत्वविशिष्टस्पस मवायिसमवेतत्वमादाय विनिगमनाविरहेण नाश्यनाशकभावद्वयापत्तिरिति तत्त्यागः । एतेन पाकजगन्धे तेजःसंयोगस्य कारणत्वेनापाकजे च सुरभ्यादिगन्धादावनयवगतसुरभ्यादेनियामकत्वेन गन्धत्वेन पृ. घिवीत्वेन कार्यकारणभावे मानाभावात् पृथिवीत्वं न जातिरिति प्रत्युक्तम् । ननु गन्धवत्वस्य पृथि- रामरुद्रीयम्. दिसंगोगेन रूपनाशानुत्पादाद्विलक्षणेति ॥ स्ववृत्तिरूपत्वस्येति ॥ रूपत्वस्य तेजःसंयोगप्रतियो- गिकत्वे मानाभावात्, स्ववृत्तित्वप्रवेशः । परम्परा सम्बन्धे प्रविष्टविशेषणभागस्य सप्रतियोगिकत्वादेव विशिष्ट परम्परासम्बन्धस्य सप्रतियोगिकत्वनियमात्तद्वृत्तेराधेयतायाः तेजःसंयोगप्रतियोगिकत्येन स्ववृत्ति- रूपत्वस्य तत्प्रतियोगिकत्वसम्भवादिति भावः ॥ स्वसमवायिसमवेतत्वेति ॥ विलक्षणतेजःसं- योगप्रतियोगिकत्वविशिष्टसमवायानुयोगिसमवेतत्वेत्यर्थः । तेन पृथिवीत्वाप्रवेशेऽपि न क्षतिः । ते- जस्संयोगप्रतियोगिकत्वविशिष्टसमवायानुयोगित्वस्य रोजस्यनङ्गीकारादिति भावः ॥ तेज इति ॥ विजातीयतेजस्संयोगत्वेनेति शेषः । तेन जलादौ न गन्धापत्तिः वैजात्यस्य पृथिव्यनुयोगिकसंयोग एव स्वीकारादिति हृदयम् ॥ प्रत्युक्तमिति ॥ तादृशकार्यकारणभावाभावेऽपि रूपनाशकतावच्छेद 34