पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २६३ साच थिव्या लक्षणमुचितं तथापि पृथिवीत्वजाती प्रमाणोपन्यासाय कारणत्वमुपन्यस्तम् । प्रभा कसंबन्धमादा दोषः ॥ प्रमाणोपन्यासायेति ॥ यद्यपि घटादौ पृथिवीत्वस्य प्रत्यक्षसिद्धतया न प्रमाणान्तरापेक्षा तथापि परमाण्वादिषु पृथिवीत्वस्य प्रत्यक्षासंभवेन तत्साधारण्येन पृथिवीत्वसिद्धश- मञ्जूषा. ख्यास्यते । अधेदानीमानुपूर्येण मुक्तावळी व्याख्यायते गन्धहेतुत्वं कालादौ गतमतो व्याचष्टे गन्ध समवायिकारणमिति नीलकण्टः । गन्धहेतुरिति वाक्यात् गन्धत्वविशिष्टनिरूपितहेतुतैव लभ्यते गन्धत्वावच्छिन्न कार्यतानिरूपितकारणतैव तस्याश्च कालादौ प्रसक्तयभावान्नेदं युक्तं किन्तु समवायेन- गन्धत्वावच्छिन्न कारणीभूतो यः समवायेन गन्धाभाव रतवातिव्याप्तिरिति शङ्कयैव तद्गन्थावतरणं कार्यमि- त्यस्मद्गुरुवरणाः । गन्धहेतुत्वं हि पृथितीत्वजाती प्रमाणोपन्यासायेति वक्ष्यते तच हेतुत्वं की- शमित्याकाङ्क्षायां विशेषतो दर्शयति गन्धसमवायि कारणमितीति तु वयं । गन्धहेतुत्वोक्तः पृथिवी- स्वजातिप्रमाणसूचकता दर्शयितुमाशङ्कते ॥ यद्यपीति ॥ उचितमिति ॥ लाघवादिति शेषः । तत्सूचनायैव च गन्धसमवायिकारणत्वमुक्तमिति तु न संभवति तस्य गन्धस्तु द्विविधो मत इल. नेनैव कण्ठत उक्तत्वादिति भावः । गन्धहेतुत्वोक्तिन लक्षणलाभायेत्याशयेन तस्याः पृथिवीत्वजा- तिप्रमाणप्रदर्शनार्थतां स्पष्टपति ॥ तथापीति ॥ अत्र यद्यपितथापिभ्यामनादरासूचितः तबीज तु गन्धवक्त्वरूपलघुलक्षणान्तरसंभवो न समवायावच्छिन्नगन्धनिष्टकार्यतानिरूपिततादात्म्यसंबन्धावच्छि. नकारणतारूपगुरुलक्षणात्य लक्षणत्वविघटकः धर्मिभेदेनेतरभेदानुमाने व्यर्थविशेषणताप्रयुक्तव्याध्यत्वासिद्धे. धूमप्रागभावादाविध प्रमत्यभावात् किंच गन्धवत्त्वमपि यथाश्रुतं न चार प्राचीनमते नानाजाती यगन्धव ययवारब्धव्येऽव्याप्तेः किंतु गन्धवत्तिव्यत्वव्याप्यजातिमत्त्वं गन्धवदत्तजातिशून्यमूतत्वं । वक्तव्यं गन्धसमवायिकारणत्वं तु निर्गन्धघटेऽध्यक्षतं तत्र प्रतिबन्धकवशेन गन्धानुत्पादेऽप्यरज्यस्थ. दण्डादाचिव स्वरूप योग्यतायाः गन्धकारणताया अक्षतत्वात् परन्विदं कारणतातिरिक्तत्वपक्ष एव सङ्गकछ ते । तदनतिरिक्तत्वपक्षे त्वन्यथासिद्धयनवच्छेदकगन्धनियतपूर्व वृत्तितावच्छेदकधर्मवत्त्वमेव स्वरूपयोश्चतारू पं गन्धसमवायिकारणत्वं वाच्यम् । गन्धनियतपूर्ववृत्तितावच्छेदकत्तं च गन्धसमचाथिनिष्टभेदप्रतियोगिता- नवच्छेदकत्वं तदाश्र यधर्मेऽन्यथासिद्धयननम्छेदकत्वं गन्धकारणतावच्छेदकत्वव्यवहारशून्या ये गुणवत्वभूत- त्वमूर्तत्वद्रव्यत्वसत्ताभावत्व प्रमेयत्वपृथिवीत्वान्यतरत्वादयो धर्मास्तत्तद्देदकूटविशिष्टत्वं तत्रच प्रकृतलक्षणे दिनकरीयम्. द्रव्यत्वव्याप्येत्यनेन तत्रैव सत्तामादाय सा न । न वा जातिपदोपादानाजलधृथिव्यन्यतरत्वमादाय सा । गन्धवत्त्वं वृत्तित्वं च समवायेन । तेन कालिकसम्बन्धेन गन्धवति समवायसम्बन्धावच्छिन्नवृत्तित्ववज लत्वादिमति पृथिवीनिरूपितकालिकसम्बन्धावच्छिन्नवृत्तित्वव जलत्वादिमति वा जलादौ नातिव्याप्तिः । प्रमाणोपल्यासायति ॥ यद्यपि पृथिवीत्वस्य प्रत्यक्षतया न प्रमाणान्तरपक्षा तथापि अयो- रामरुद्रीयम्. तिवारणाय गन्धवत्त्वस्योक्तरूपस्यैव विवक्षणीयतया तदपेक्षया लाघवेन गन्धसमवायकारणत्वमेव लक्ष- णं वक्तुमुचितं तथापि सति पृथिवीत्वावच्छिन्ने स्वरूपयोग्यतारूपकारणतामादाय तादृशघटेऽपि लक्षणस- मन्वयसम्भवात् । न च द्रव्यत्वव्याप्यत्वं द्रव्यनिष्ठभेदप्रतियोगितावच्छेदकत्वमेव कारणताशरीरे च ग- न्धवन्निष्ठाभावप्रतियोगितानवच्छेदकन्वरूपनियमांशस्यानन्यथासिद्धत्वस्य च प्रवेशेन तत्रैव गौरवमिति वाच्यम् । अत्रापि नित्यत्वादिघटितसुरुशरीरजातित्वस्य प्रवेशात् विनिगमनाविरहेणापि तस्य लक्षणता दुवोरैवेति सूचितम् ॥ नातिन्याप्तिरिति । एवं चान्यतरत्वमादायाऽतिव्याप्त्यप्रसक्त्या जलपृथिवीद्विस्व- मादाय जलेऽतिव्याप्तिवारणायैव जातिपदमिति विभावनीयम् ॥ अयोग्यसाधारण्येनेति ॥