पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता १५१ नाभावत्वम् । अन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । प्रभा. भावत्वेन प्रथममुपस्थितिर्न संभवति अन्योन्याभावत्वेनान्योन्याभावस्य संसर्गाभावत्वघटकत्वेन घटकी- भूतान्योन्याभावज्ञानसाध्यत्वात् । एवंचानन्तरनिर्दिष्टस्यायन्योन्याभावस्य तेन रूपेण प्रथममुपस्थितत्वेन तस्यैव प्रथमं विभागप्रसक्त्या एकवियत्वादिलक्तरणकाया युक्तत्वादिति ॥ अन्योन्यामावभिन्नाभाव- मञ्जूषा. योजकतालाभसंभवात् अथवा अभावत्वावच्छिन्न विभागोत्तरकालीनसाधर्म्यनिरूपणपूर्वकालात्मको यो लट्न- त्ययविवक्षितवर्तमानकालः तद्विशिष्टविभागत्वावच्छेदेन संसर्गाभावनिष्ठकर्मतायाः निरूपकतासंवन्धेनान्वयः तेनास्मिन् काले संसर्गभावातिरिक्तस्य विभागो नास्तीति लभ्यते ततश्च वर्तमानकालीनविभागत्वव्यापक- त्वविशिष्टनिरूपकतासंबन्धेन संसर्गाभावकमताविशेषितविभागत्वविशिष्टे तद्विभागासंभवप्रयोज्यत्वं भासमान विशेषणांशमादाय पर्थवस्यतीति बोध्यम् । अस्मद्गुरुचरणास्तु विभाज्यतावच्छेदकीभूतसंसर्गाभावत्वत्य अ- न्योन्याभावत्वगर्भतया तदवच्छिन्नस्यैव प्रथम विभागो युक्तः नतु संसर्गाभावत्वावच्छिन्नस्थेत्याश- वायां तस्य यदि विभागः क्रियते तदा प्रथममेव पिभागो युक्तस्स्यात् नरिवह तद्विभागः क्रिय- ते तस्यैकविधत्वात् अतश्च तद्विभागासंभवात् संसगाभा विभजत इत्यर्थ इति त्या ग्रन्थं समर्थ- यन्ति ॥ अन्योन्याभावभिन्नाभावत्वमिति ॥ इदं च समनियताभावानां भेदपक्षे । अन्यथा कपिसंयोगात्यन्ताभावस्य व्याप्यवृत्तिकषिसंयोगिभदाभिन्नत्वासंभवेऽपि घटत्वात्यन्ताभावस्य घटभेदाभि- दिनकरीयम्. ॥ संसर्गाभावत्वमिति ॥ अन्योन्यामावेऽतिव्याप्तिवारणायान्योन्याभावभिन्नेति । घंटोदावतिव्या- तिवारणायाभावपदम् । एवमग्रेऽपि ॥ तादात्म्येति ॥ तादात्म्यत्वेन तादात्म्यावच्छिन्नत्वं प्रतियोगितायां विवक्षितम् । तेन संयोगावच्छिन्न प्रतियोगिताके संयोग्यत्यन्तामा नातिव्याप्तिः । प्रागभावस्य लक्षण- रामरुद्रीयम्. ति विग्रहो न सम्भवति संसर्गस्याभावत्वानभ्युपगमात् नचात्र संसर्गपदं तादात्म्याभिन्न सम्बन्धपरं अन्यो- न्यपदं च तादात्म्यसम्बन्धपरं तथा च संसान्योन्याभ्यामभावाविति व्युत्पत्त्या तादात्म्यभिन्नसम्बन्धा- वच्छिन्न प्रतियोगिताकतादात्म्यावच्छिन्नप्रतियोगिताकाभावयोलीभानोक्तदोषः तृतीयाया अवच्छिन्नप्र- तियोगिताकत्वार्थकत्वादिति वाच्यम् । एवमपि ध्वंसप्रागभावयोः प्रतियोगित्वस्य सम्बन्धानवच्छिन्नत्वमते तयोरसंग्रहापातादिति चेन्न । संसर्गपदस्य तादात्म्यानवच्छिन्न प्रतियोगितारूपसंसापरत्वेन अन्योन्य- पदस्य च तादात्म्याचच्छिन्न प्रतियोगितापरत्वेन तयारभावाविति व्युत्पत्त्या तादृशप्रतियोगिताद्वयनिरूपका- वभावादित्यर्थलाभानासङ्गतिः निरूपकत्वस्यैव षष्ठवर्थत्वादिति । यद्वा संसर्गपदं संसर्गपदपूर्वकपरं अन्योन्यपदमपि तत्पदपूर्वकपरं अभावपदं च अभावपदवाच्यपरं तथाच संसर्गान्योन्यौ च तो अभा. वो चेति व्युत्पत्त्या संसर्गान्योन्यपदपूर्वाभावपदवाच्याविति पर्यवसितार्थलाभः । एतेनोक्तवाक्यादेवा- भावद्वययोलक्षणलाभादाकालाविरहेणोत्तरन्नाभावद्वयंलक्षणप्रतिपादनासझतिरित्यपि परास्तम् । एवमग्रेड. पीति ॥ अन्योन्याभावलक्षणेऽपि भावेऽतिव्यातिवारणायेवाभावपदमित्यर्थः ॥ तादात्म्यत्वेनेति ।। ता. दात्म्यत्वं तद्गतोऽसाधारणधर्मः । तादात्म्यत्वेन तादात्म्यावच्छिन्नत्वविवक्षायाः फलमाह ॥ तेनेति ॥ संयोग्यत्यन्ताभाव इति । संयोगितादात्म्यस्य संयोगरूपतया संयोगसम्बन्धावच्छिन्न प्रतियोगिता- कासन्ताभावे यथाश्रुतेऽतिव्यातिः । इदानीं तु तादात्म्यत्वाचाच्छिन्नतादात्म्यनिष्ठा या संसर्गविधयावच्छेदक- ता तनिरूपकप्रतियोगिताकत्वलाभेन अत्यन्ताभावीयसंयोगनिष्ठप्रतियोगितावच्छेदकतायाः संयोगवाव. च्छिन्नत्वात् नातिव्याप्तिरिति भावः । यद्यपि संयोगितादात्म्यस्य संयोगरूपत्वेन तत्तादात्म्यत्वमपि सं. योगत्वमेवेसतिव्यातिनिरासो दुर्धट एव । तथापि संसर्गतावच्छेदकै तादात्म्यत्वं न संयोगवादिरू कि- व संयोग्यादिवृत्त्यसाधारणधर्मत्वमेव अतोऽसन्तामापीयप्रतियोगितायां संयोगस्य संयोगपेनवावच्छेदकर