पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० कारिकावली प्रभा. नानन्तरनिर्दिष्टान्योन्याभावस्य प्रथमं विभागाप्रसक्त्या इयमवतारिकाऽयुक्ता न चाभावस्तु द्विधान्यो- न्यसंसर्गाभावभेदत इति मूलपाठाभिप्रायेणेयमवतारिका युक्ता तन्नान्योन्याभावस्यैव प्रानिर्दिष्टत्वेन प्रथम विभागप्रसक्तरिति वाच्यं । तथा सति संसर्गतीति प्रतीकधारणस्य संसर्गाभावान्योन्याभावभदादित्य र्थकरणस्य चायुक्तत्वापत्तरिति चेन्न संसीभावस्त्र प्रानिर्दिष्टत्वेऽपि अन्योन्याभावभिन्नाभावत्वरूपसंसर्गा- मञ्जूषा. शब्दश्च भेदे तथाच संसर्गश्चान्योन्यश्च संसगीन्योन्यौ तौ च तावभाचौ चेति द्वन्द्वात्परं कर्मधारय इति प्राहुः । अन्ये तु अन्योन्येनाभावः अन्योन्याभावः तादात्म्यसंबन्धानाच्छन्नप्रतियोगिताकाभाव इत्यर्थः संसर्गश्चान्योन्याभावश्चेति द्वन्द्वः संसर्गशब्दस्तु प्रागभावादित्रयपर इत्याहुः । एतदुभयमपि संसर्गारो- पजन्याप्रतीतिविपयानावत्वं संसर्गाभावत्वामति प्राचीननिरुत्त यननुरोधि ॥ अन्योन्याभावस्येति ॥ एका विधा यस्य स एकविधस्तस्य भावस्तत्त्वं । ननु किमिदं विधायामेकत्वं न तावत्तयक्तित्वं अव्यावर्तकत्वात् द्रव्यादावपि तथाविधकविधत्वसत्त्वेन तस्यापि विभागासंभवप्रसंगात् । नचैका स्व- भिन्नधर्मासमानाधिकरणा विधा धौं यस्यति स्वभित्रधर्मासमानाधिकरणधर्मवत्त्वं धर्मद्वयशून्यत्वप- यंचसितमेकविधत्वमिति वाच्यम् अन्योन्याभावेऽप्यन्योन्याभावत्वप्रमेयत्वयोव्योत्सत्त्वात् । नचैका यत्कि- चिद्धर्मनिष्ठन्यूनवृत्तितानिरूपकभिन्ना विधा असाधारणधर्मो यस्यतिव्युत्पत्त्या यत्किंचिद्धर्मनिष्टन्यूनवृत्ति- तानिरूपकाभन्नासाधारणधर्मकत्वं तत् स चासाधारणधर्मः प्रकृतेऽन्योन्याभावत्वमेव एतादृशेकविधत्व अन्योन्याभावत्वावच्छिन्नस्य विभागासंभवे हेतुरेवेति वाच्यम् अन्योन्याभावत्वस्यापि घटत्वावच्छिन्नप्र- तियोगिताकत्वादिनिष्ठन्यूनवृत्तितानिरूपकत्वात् एवमन्येऽपि पक्षास्स्फुरन्तोऽपि स्वत एव प्रतिहन्यन्ते उच्यते । एका परस्पराविरुद्धा विधा रीतिः स्ववृत्तिवनावश्यवक्तव्यत्तयेष्यमाणधर्मसामान्यरूपा यस्यति व्युत्पत्त्या परस्पराविरुद्धावश्यवक्तव्यत्वप्रकारकेच्छाविपयाभूतस्ववृत्तिधर्मसामान्यकत्वमेकत्वमेकविधत्वमिति प्राप्तं तच्च विभागासंभवे हेतुः । तथाहि अन्योन्याभाववृत्तत्वेनावश्यवक्तव्यतया ये धर्मा इष्यन्त अन्यकृता तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वाभावत्वप्रमयत्वादयः न ते परम्परविरुद्धाः ये तु पर- स्परविरुद्धा घटत्वावच्छिन्नप्रतियोगिताक चादयः न ते वक्तव्यतयेष्यन्ते । तेषां विशिष्य वक्तुं बोटुं वाऽऽकल्पकालस्यापर्याप्तत्वात् । यद्यपि घटत्वावच्छिन्नप्रतियोगिताकत्वघटत्वान्यधर्मावच्छिन्न प्रतियोगिताकत्वा- भ्यां विभागस्संभवति तथापि न तथा विभागस्वारासकः तथा सांत पटत्वावच्छिन्न प्रतियोगिताकत्व- तदन्यधर्मावच्छिन्न प्रतियोगिताकत्वाभ्यामेवं एकैकधर्ममादाय तदवाच्छन्नप्रतियोगिताकत्वतदन्यधर्मावाच्छ- नप्रतियोगिताकत्वाभ्यां विभागसंभवेन तत्र के धर्ममादाय विभागः क्रियतामिपत्र नियामकाभावात् यद्यपि व्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकत्वतदन्यधर्मावच्छिन्नप्रतियोगिताकत्वाभ्यां विभागः शक्यते कर्तु तथापि तावापे धर्मों न वक्तव्यतया ग्रन्थकृतष्यते अत्यन्ताभावसाधारणत्वात् येन त्विष्यते, तेन ता- भ्यां विभागः क्रियत एवेति नानुपपत्तिगन्धः । स्यादेतत् संसर्गान्योन्याभावभेदत इति मूले चरमनिर्दिष्टा- न्योन्याभावविभागाभावबोजशङ्कायाः प्रधमनिर्दिष्टसंसर्गाभावविभागकाले कथमुत्थितिारात चेदन केचित अभावस्तु द्विधान्योन्यसंसर्गाभावभेदत इत्येव मूलपाटः एवं मुक्तावळ्यामप्यन्योन्येतीत्येव प्रतीकधारणं अ. न्योन्याभावसंसर्गाभावभेदादित्य, इत्येव च विवरणमपि पाठान्तरन्तु प्रामादिकमित्याहुः । अन्येतु संसर्गा- भावविभागानन्तरकालप्रसक्तिकामपि तदाशङ्कामिहव निराकृतदानक्षरलाघवाय वाक्यान्तरप्रयुक्त्यभावाय च अन्यथोत्तरत्र एतद्वाक्यप्रयोगे तद्विभागासंभवादिति पञ्चम्यन्तान्वययोग्यं तद्विभागो न कृत इत्यादि. कं शब्दान्तरमवश्यं प्रयोक्तव्यं स्यात् । तथाचाक्षरगौरवं भिन्नवाक्यप्रयुक्तिश्च नचात्र संसर्गाभावविभा- गे अन्योन्याभावविभागासंभवस्य हेतुत्वाभावात्कथमन्वय इति वाच्यम् । द्विर्तीयान्तसंसर्गाभावपदोत्तरा- ध्याहृतैवकारवोधितेन संसर्गाभावेतराभावकर्मकस्वाभावेन संसाभावतराभावकर्मकविभागाभावविशिष्टत्वेन वा विशेषिले धात्वविभागे तदन्द्रयसंभवात् । तावता सविशेषगे होति न्यायेन विशेषणांशे तस्य प्र.