पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ कारिकावली - - प्रभा. स्वमिति ॥ अन्योन्याभावेऽतिव्याप्तिवारणाय सत्यन्तं । घटादावतिव्याप्तिवारणाय विशेष्यदलं । नन्व. न्योन्याभावत्वस्य तादात्म्यसंबन्धावच्छिन्नप्रतियोगितानिरूपितानुयोगित्वस्यान्योन्याभावव्यक्तिभेदेन भि- नतया एकैकान्योन्याभावत्वावच्छिन्नप्रतियोगिताकभेदघटितलक्षणकरणे अपरान्योन्याभावे अतिव्याप्ति- रिति चेत्र नव्याः अन्योन्याभावत्वस्य सकलान्योन्याभावसाधारणाखण्डोपाधिरूपस्यैव खीकरणीयतया नोकातिव्याप्तिरित्याहुः । अपरेतु अन्योन्याभावत्वस्थाननुगत्वेऽपि यावत्योऽन्योन्याभावव्यक्तयः तत्तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदकूदघटितलक्षणकरणात् तावदन्यतमत्वावच्छिन्न प्रतियोगिताकैकमे दघाटेतलक्षणकरणानोकातिव्याप्तिरित्याहुः अन्येतु खावच्छेदकावच्छिन्नवृत्तिकत्वस्वनिरूपकत्वो- भयसंबन्धेन प्रतियोगिताविशिष्टत्व-स्वाश्रयाधिकरणकालावृत्तित्व संबन्धेन प्रतियोगिताविशिष्टत्वैतदन्य- तरवत्त्वमेव पारिभाषिकमन्योन्याभावभिनत्वं लक्षणघटकमन्न घटपटोभयत्वावच्छिन्नभेदस्य तादृशप्रति- योगिताश्रयघटवृत्तितया तत्रातिव्याप्तिवारणाय स्वसामानाधिकरण्यं परित्यज्य स्वावच्छेदकावच्छिन्नवृत्ति- कत्वस्य संसर्गकोटी निवेश्यत्वेनोपपादनम् । एवंच घटो न घटपटोभयमिति प्रतीतिवत् घटपटोभयं न घटपटोभयामिति प्रतीत्यभावेन घटपटोभयत्वावच्छिन्नवृत्तिकत्वस्य तादृशभेदे असत्त्वान्नातिन्या- प्तिः घटान्योन्याभावस्य पटान्योन्याभावप्रतियोगितावच्छेदकावच्छिन्नवृत्तिकत्वात् तत्रातिश्याप्तिवारणाय स्वनिरूपकत्वस्यापि संसर्मकोटी निवेशः । एवंच घटान्योन्याभावस्य पटानिष्ठप्रतियोगितानिरूपक- स्वाभावान्नातिव्याप्तिः। ध्वंसप्रागभावयोः स्वावच्छेदकावंच्छिन्नवृत्तिकत्वघाटतोभयसंबन्धेन प्रतियोगिताविशि- मजूषा. तया अव्याप्त्यापत्तेः । ननु तथापि घटत्वात्यन्ताभावस्य स्वात्यन्ताभाववद्भेदस्वावच्छिन्नभिन्नभेदात्मक- स्वादन्याप्तिर्दुवारा नव स्वात्यन्ताभावात्यन्ताभाव एव स्वात्मको नतु स्वात्यन्ताभाववन्दस्वावच्छिन्नभिन्न- भेदावपीति वाच्यम् । यथाहि स्वज्ञाने खात्यन्ताभावाज्ञानात् स्वात्यन्ताभावो नास्तीति ज्ञानाच खात्यन्तामा- वात्यन्ताभावः स्वात्मकः तथा स्वक्षाने स्वावच्छिन्नभेदाज्ञानात् स्वावच्छिन्नामिन्नो नायमिति ज्ञानाच स्वावच्छि- नभिन्नभेदस्य एवं स्वज्ञाने स्वात्यन्ताभाववानायमिति ज्ञानात्स्वात्यन्ताभाववझेदस्यच स्वात्मकताया युक्तिसि- द्धत्वात् एवं कपिसंयोगात्यन्ताभावस्य स्वरूपसंबन्धेन स्वात्यन्ताभाववद्धेदरूपत्वासंभवेऽपि वृत्त्यनियामक- संबन्धस्याभावप्रतियोगितावच्छेदकत्वपक्षे विषयितासंबन्धेन यस्स्वात्यन्ताभावस्तद्वद्भेदरूपत्वे क्षतिविरहः । एवं कपिसंयोगात्यन्ताभावस्य केवलान्वयितया स्वरूपसंबन्धेन तदवच्छिन्नभेदाप्रसिद्धावपि विषयितासंब- न्धेन तदवच्छिन्नभेदप्रसिद्धया विषयितासंबन्धेन स्वावच्छिन्नभिन्नभेदात्मकत्वमक्षतमेव एवं सर्वेषामेव अत्यन्ताभावानां ध्वंसप्रागभावयोश्च तथात्वादसंभवः किं बहुना जगत एव तथात्वादप्रसिद्धिरिति नच तादा. स्म्यसंबन्धावच्छिन्नप्रतियोगिताभिन्न प्रतियोगितानिरूपकत्वं अन्योन्याभावभिन्नत्वं तच्च घटत्वात्यन्तामावादा घटत्वनिष्टप्रतियोगितामादायव निर्वहति एवंच घटत्वात्यन्ताभावघटभेदयोरभेदेऽपि न क्षतिरिति वाच्यम् । एवं सत्यन्योन्याभावस्यापि किंचिद्विशिष्टस्वात्यन्ताभावविषयितादिसंबन्धावच्छिन्नस्वात्यन्ताभावादिनिधस्व- रूपसंवन्धावच्छिन्नम्नतियोगितानिरूपकत्वमादायातिव्याप्तः प्रतियोगितायां भावयत्तित्वविशेषणेन वारणेऽपि घटभेदादेस्वाभावाभावात्मकतया स्वाभावात्मकस्वप्रतियोगितावच्छेदकरूपभावनिष्ठतादात्म्यातिरिक्तसंब. न्धावच्छिन्नप्रतियोगिताकत्वादातव्याप्तेर्दुवारत्वात् नच घटभेदस्य घटत्वात्यन्ताभावरूपत्वाल्लक्ष्यत्वमिति वा- व्यम् अलक्ष्यभूतस्य भेदस्यैवाप्रसिद्धत्वात् संयोगिभेदस्यापि स्वसमनियतव्यत्वाभावाभिन्नत्वादिति । उच्यते समनियताभावयोर्भेद एवेति न घटभेदघटत्वासन्ताभावयोरैक्यं एवं खात्यन्ताभावासन्ताभावस्य खात्मकत्वे- ऽपि स्वात्सन्ताभाववद्भेदस्स्वस्मादतिरिक एव नतु स्वात्मकः संयोगादेः स्वाभाववद्धेदरूपस्वासंभवेन सर्वत्रैव तस्यातिरिक्तत्वकल्पनात् नचैकनासंभवमात्रेण सर्वत्र तथाकल्पने गगनादेस्स्वाभावाभावरूपत्वाभावेन घटादे- रपि स्वाभावाभावरूपता न स्यादिति वाच्यम् गगनादरपि स्वाभावाभावरूपताया मधुरानाधादिभिरुद्धए- त्वात् स्वाभाववद्धदस्य स्वस्मादतिरिक्तत्वपक्षो भट्टाचार्येणाप्युक्तः । एवं संयोमिभिन्नभेदो न संयोग