पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. खण्डभेदतावन्मात्रविषयकज्ञानादिकमादाय विनिगमनाविरह इत्याहुः तन वैशिष्टयपदार्थान्तरत्वे तस्य नित्यत्वमनित्यत्वं वेत्यादिविकल्पप्रयुक्तदूषणप्रस्तत्वात् नच वैशिष्टयस्यानतिरिक्तत्वे अभावाधिकरण- बत्तीत्यादिना उक्तविनिगमनाविरहदोषतादवस्थ्यमिति वाच्य अभावस्वरूपस्यैव वैशिष्टयस्य संवन्धत्वे अ. मञ्जूषा. कालविशेषविशिष्टभूतलस्वरूपस्य संबन्धतानिर्वाहः । यदातु भूतले घटसमवधानं तत्कालावच्छिन्नत्ववि- शिप्रवैशिष्टयज्ञानं न प्रमात्मकमिति न तत्कालस्य परिचायकधर्माकान्तता। प्रमात्वं च भ्रमभिन्नत्वं भता घटकालोत्पन्नस्य तत्कालं घटासमवधानकालं चावगाहमानस्येदानी घटाभावबद्भूतलं पूर्वदिने घ. टाभाववद्भूतलमिति समूहालम्बनात्मकज्ञानस्य पूर्वदिनांशे प्रमात्वेन तदधिकरणकालावशिष्टभूतलख. रूपस्यापि संबन्धत्वप्राप्त्या तादृशसमूहालम्बनस्य तत्कालावगाहिज्ञानान्तरस्य च तत्कालांशे प्रमात्वाप- त्तिः तदानी घटाभावलौकिकचाक्षुषापत्तिच लौकिकसन्निकर्षसत्त्वादिति दूषणस्य नाव काशः । परन्तु तन्नि- घटसमवधानानधिकरणत्वस्य लघोः कालपरिचायकस्य संभवेनेदृश गुरुधर्मानुसरणमफलम् । नच यस्मिन् भूतले घटसमवधानं कदापि नास्ति तत्र संबन्धघटककालविशेषपरिचायकधर्मदुर्मिक्षमिति वाच्यम् । तद्भूतलस्वरूपस्य सर्वदैव घटाभावसंबन्धतया तत्र संवन्धघटककालविशेषापेक्षाविरहेण तत्परिचायकधर्मस्य सुतरामनपेक्षितत्वादित्येतदेवाभिप्रेतं प्रन्थकृतः अत एवाने वक्ष्यति घटकालस्य संबन्धाघटकत्वादिति ॥ अन्यथा घटाभावज्ञानाभावकालस्य संबन्धाघटकत्वादित्येवावक्ष्यत् इदन्तु विवेचनीयं घटासमवधानकाल- विशिष्टभूतलस्वरूपं संबन्ध इत्युक्त कोऽर्थ इति नहि भूतले प्रतिक्षणं एकैकं स्वरूपमस्ति ये तत्कालीनं स्वरूप संबन्धः एतत्कालीन नेति वक्तुं शक्येत । अथ घटासमवधानकालस्संबन्धतावच्छेदक इति तदर्थ इति चे. स्केयं संबन्धता नाम यस्यामवच्छेदको घटासमवधानकालः सा संसगताख्या विषयतेति चेत् तत्कि घटामा ववद्भूतलामिति हाने कालोऽपि संसर्गघटकतया भासते भासत एवेति चेत् केन रूपेण भासते घटा- समवधानकासत्वेनेति चेत्कि घटासमवधानकालत्वं नाम घटसंयोगानवच्छेदकत्वमिति चेत्तई घटा- भाववदूतलमिति द्वानं श्रम एव स्यात्तत्कालस्यापि देशान्तरवृत्तिघटसंयोगावच्छेदकत्वात्तत्तद्भूतलनि- ठघटसंयोगानबच्छेदकत्वमिति चेत्तहि कदापि घटासंयुक्ते भूतले यद्धटाभावज्ञानं तत्र संसर्गदुर्भिक्षापत्तेः तत्र कालविशेषाविशेषितमेव भूतलस्वरूपं संसर्गतया भासत इति चेविषयतावैचित्र्यप्रसङ्गात् नहि कदाचि- दपि यद्धटासंयुक्तं भूतलं यश्च युगान्तरे तत्संयुक्तं तयोर्ये घटाभाववद्भूतलमित्याकारके झाने तयोकि- षयतानां न्यूनाधिकसंख्याकत्वमनुभवसिद्धं सिद्धान्तसिद्धं वा । अथ मन्यसे तत्तत्कालत्वेनैव कालस्य संसर्गघटकतया विशिष्टवुद्धिविषयत्वं । तत्रच कदाचिद्धटसंयुक्त भूतले यद्धटाभावज्ञान तस्मिन् तनिष्ट . घटसंयोगानवच्छेदककाल एव तद्वयक्तित्वेन संसर्गघटकतयापि भासते कदाचिदपि तदसंयुक्ते तु स्वैरं सर्व एव काल इति । एवंच घटकालोत्पन्नं घटाभाववद्भूतलमिति ज्ञान प्रभैव तत्र घटासमवधा- नकालस्यैव संसर्गघटकतया भानाटकालोत्पन्नमिदानी घटाभाववद्भूतलमिति झानं तु भ्रमः तत्र समानघटासमवधानकालविशिष्टभूतलस्वरूपात्मकसंबन्धे एतत्कालावच्छिन्नत्वविशिष्टघटाभावनिरूपितत्वबाधा- दिति तत्र पृच्छामः सर्वत्र घटाभावाने लौकिकालौकिकात्मके किमननुगतातीतानागतकालावशेषाणां त. तद्याक्तित्वेन भासमिति लौकिकसनिकर्षस्याप्रसक्तेः संसर्गोपस्थितेरनपेक्षितत्वाच्च । अथ घटज्ञानाभाना- दीनां घटाभावभासककारणानामेव जन्यतावच्छेदककोटी घटासमवधानकालव्यक्तिविशिष्टभूतलखरूपसंसर्गकत्वं निवेश्यत इति चेत्कालभेदेन कार्यकारणभावानन्त्यप्रसङ्गात् । किंच बहुवारं घटसंयुक्तवियुक्त भूतले वि. नष्टे पश्चात्तत्र यद्धताभावज्ञानं मानसचाक्षुषादिरूपं उपनौतभानाद्यात्मकं तत्रान्ताराळिकेषु घटासमवधानका. लेषु को वा संसर्गघटकतया भासत इति विनिगमनाविरहः । सर्वेषामपि भाने संसर्गतावच्छेदकविष. यतानन्त्यं किंच धटाभावलौकिकचाक्षुषे चधुस्संयुक्तविशेषणतायाः कारणत्वं दुर्वचं तत्त यदि वि- शेषणता भूतलस्वरूपा तदा घटकाले कुतो न घटाभावलौकिकप्रत्यक्षं यदितु कदाचिटसंयुकं यदूतलं भा- -