पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता नच प्रभा. नोक्तानुपपत्तिः । वस्तुतः तत्तत्कालीनेत्यादिग्रन्थस्य यदा यस्मिन्नधिकरणे यो न तिष्ठति तत्कालविशिष्ट- तदधिकरणं तत्प्रतियोगिताकाभावस्य संवन्ध इत्येवार्थ इति न काप्यनुपपत्तिरिति हृदयम् । नव्यास्तु वैशिष्टयं पदार्थान्तरमेव भूतलं घटाभाववदित्यादिप्रत्ययात्स्वरूपसंबन्धाभ्युपगमे चाभावाधिकरणवृत्त्य- मजूषा. सामम्यधिकरणत्वपरिचितकालविशेषविशिष्टभूतलस्वरूपस्य सामग्रीकाल एव संभवेन प्रमाकाले तस्यासं- भाविततया सन्निकर्षस्य कार्यकालवृत्तितया हेतुत्वसिद्धान्तव्याकोपात् । स्वपूर्वकालविशिष्टभूतल. स्वरूपात्मकसंबन्धस्य प्रमाकाले बाधितत्वेन घटासमवधानकालमवगाहमानस्येदानी घटाभाववद्भूतल. मिति ज्ञानस्य प्रमावानापत्तेश्च ताशप्रमातत्सामन्यन्यतराधिकरणत्वमेव कालविशेषपरि- चायकामति वाच्यम् । एवमपि घटसमवधानकालोत्पन्नस्य तत्समवधानानाधिकरणपूर्वापरकालाव- गाहिनः पूर्वदिने घटाभाववद्भूतलं परदिने घटाभावदर्भूतलमित्युपनीतभानादेः प्रमात्वाभावाप- तेः पूर्वापरकालयस्तित्प्रमातत्सामन्यन्यतराधिकरणत्वरूपपरिचायकधर्मानाक्रान्तत्वात् तदनाक्रान्तघटसम- वधानकालविशिष्टभूतलस्वरूपात्मकसंबन्धे पूर्वापरदिनात्मककालविशेषावच्छिन्नत्वविशिष्टनिरूपितत्वबाधा- त् । नच तादृशप्रमात सामग्र्यन्यतराधिकरणतादृशप्रमाविषयैतदन्थतरत्वं परिचायकामिति वाच्यम् । तथासति घटासमवधानकालोत्पन्नस्य तत्कालं घटसमवधानकालं च अवगाहमानस्य इदानी घटाभाव- वद्भूतलं पूर्वदिने घटाभाववद्भूतलनित्याकारकसमूहालम्बनात्मकज्ञानस्य पूर्वदिनांशेऽपि प्रमात्वापत्तेः । इदानीन्तनकालस्य तादृशप्रभातत्सामग्र्यन्यतराधिकरणत्यवत्पूर्वदिनात्मककालस्यापि तादृशप्रमाविषयत्वेन परिचायक्रधर्माकान्ततया तद्विशिष्टभूत लादिस्वरूपस्यापि संवन्धत्वानपायात् अथ तत्प्रमाव्यक्तितत्सामग्यन्य- तराधिकरणकालविशिष्टभूतलादिस्वरूपं तत्प्रमाविषयो भूताभावस्य संबन्ध इत्येवं तत्तद्वयक्तित्वेन यदि प्रमायाः कालविशेषपरिचायककोटिप्रवेशः स्यात् तदा स्यादयं दोषः । वयं तु प्रमात्वेनैव प्रमा तत प्रवेशयामः तथाच तद्विशेष्यकत्वविशिष्टघटाभावप्रमाधिकरणत्वपरिचितकालविशेषावच्छिन्नभूतलस्वरूपं घ. टाभावस्य संबन्धः । तथाच घटसमवधानकालोत्पन्नस्य तत्समवधानानधिकरणपूर्वापरकालावमाहिनः पूर्वोपद- र्शितज्ञानस्य न प्रमात्वानुपपत्तिः । पूर्वीपरदिनात्मककालयोरपि पुरुषान्तरस्थ थोगिनामेव वा यद्धटा- भाववद्भूतलमिति झान प्रमात्मकं तदधिकरणत्वात् तद्विशिष्टभूतलस्वरूपस्य संवन्धत्वानपायादेवं घटा. समक्धानकालोत्पन्नत्य तत्कालं घटसभवधानकालं च अवगाहमानस्य पूर्वोपदर्शितज्ञानस्य न पूर्वदिनांशे प्रमात्वापत्तिः पूर्वदिनात्मककालस्य घटाभावप्रमाधिकरणत्वाभावात् । एवंच सामग्रीविशेषोऽपि न कर्त- व्यः लौकिकप्रत्यक्षात्मकप्रमोत्पत्त्यव्यवहितपूर्वक्षणस्यापि पुरुषान्तरीयतादृशप्रमाधिकरणत्वेन तद्विशिष्टभू- तलादिस्वरूपस्यापि संबन्धतया तदानी लौकिकसन्निकर्षस्थ सूपपादत्वादिति चेन्न । एवंसति घटसम- बधानकालोत्पन्नं यत्पूर्वदिने घटाभाववद्भूतलं परदिने घटाभाववद्भूतलभित्याकारकं प्रमात्मकं ज्ञानं चैत्रीयम- तीतानागतवस्तुदर्शियोगीयं वा तदधिकरणकालविशिष्टभूतलस्वरूपस्यापि संबन्धत्वापत्त्या तत्कालावगाहि- नः इदानी घटाभाववद्भूतलमित्युपनीतभानादेश्चैत्रीयस्य भैत्रीयस्य वा प्रमात्वापत्तेः प्रतिक्षणमेव योगिनाम- पि कस्यचित्प्रमा जायत इति नियमाभावेन यद्भूतले घटाभावज्ञानं घटसमवधानानधिकरणीभूत एव कस्मिाश्च- रक्षणे कस्यचिदपि न जातं तत्क्षणमवगाहमानस्य कालान्तरोत्पन्नस्य तदानीं घटाभाववद्भूतलमित्युपनीतभा- नादेः प्रमात्वानापत्तेश्च तत्क्षणस्य परिचायकधर्मानाक्रान्ततया तद्विशिष्टभूतलस्वरूपस्य संवन्धत्वाभावात नच तत्क्षणस्यापि ताहशेश्वरप्रमाधिकरणत्वमस्त्येवेति वाच्यम् । तस्यास्सदातनत्वेन तदधिकरणत्वस्य घटसमवधानकालव्यावृत्तत्वाभावात् अत्रोच्यते स्वावच्छिन्नत्वविशिष्टघटाभाववैशिष्ट्यावगाहिप्रमाधिकरण. कालविशेषविशिष्टभूतलादिस्वरूपं संबन्धः स्वपदं परिचेयकालविशेषपरं सर्वत्रान्ततो भगवत्प्रामामादाय परिचयसंपत्तिः । तथाहि यदा यदा घटसमचधानं भूतले नास्ति तत्तत्कालावच्छिन्नत्वविशिष्टघटाभाव- पशिष्ट्यविषयकं तद्भूतलविशेष्यकं प्रमात्मकं ज्ञानं परमेश्वरस्य प्रसिद्धयतीति तदधिकरणत्वपरिचिततत्त