पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली न- प्रभा. घटो नास्तीति प्रमोपधायकसामग्रीविशिष्टत्वोपलक्षितकालस्यैव तत्तव्यक्तित्वेन सन्निकर्षघटकत्वे तस्या- भावप्रमापूर्वकाल एव सत्त्वेन सन्निकर्षस्य कार्यकालवृत्तितया हेतुत्वमिति सिद्धान्तभङ्ग इति वाच्यं । घटो नास्तीति प्रमिति जनकसामग्रीतदन्यतरविशिष्टकालस्यैव तत्तद्वयक्तित्वन संबन्धघटकत्वस्वीकारेण मञ्जूषा. लावच्छिन्नत्वविशिष्टघटाभावनिरूपितवैशिष्टयावगानिस्तादशहानस्यैव प्रमात्वमापादनीयम् ॥ यत्कालावच्छे- देन यस्य संबन्धो यत्र वर्तते तत्कालावच्छिन्नत्यविशिष्टत निरूपितसंबन्धस्य तनावश्यकत्वादित्यत आह ॥ इत्थं चेति ॥ अत्र तत्तत्कालीनेत्यस्य घटाभाववद्भूतलमिति ज्ञानकालीनेत्यर्थमाह महादेवः । अथै- तावता तद्वद्विशेष्यकघटाभावप्रकारकज्ञानाधिकरणकालविशिष्टभूतलस्वरूपं तत्र घटाभावस्य संबन्ध इत्याया- तम् । तथाच घटकालावच्छेदेन घटाभाववत्तावगाहिनः पूर्वोपदर्शितोपनीतभानस्य प्रमात्वं दुर्वारमेव तादृशज्ञानाधिकरणकालविशिष्टभूतलस्वरूपात्मकसंबन्धस्य तदानीमनपायात् नच ज्ञानपदं प्रमापरमिति वाच्यम् । तथासति तज्ज्ञानस्य प्रमात्वे सिद्धे तदधिकरणकालविशिष्टभूतलस्वरूपात्म कसंवन्धसत्त्वं तत्सत्त्वे च तज्ज्ञानस्य प्रमात्वमित्यन्योन्याश्रयापत्तेः । नचात्र कालस्य तत्तद्वयक्तित्वेनैव संबन्धघटकत्वं नतु निरुत- रूपण तादृशकालविशेषाणां परिचायकन्तु प्रमात्वाभिमततादृशज्ञानाधिकरणत्वामिति नान्योन्याश्रय इति वाच्यम् । एवमप्येतादृशसंबन्धस्य ज्ञानकाल एव संभवेन तादृशज्ञानाधिकरणत्वपरिचितकालविशेष- विशिष्टभूतलस्वरूपात्मकसंबन्धस्य तादृशज्ञानात्प्रागसमाविततया चक्षुस्संयुक्तविशेषणतायाः कारणत्वानुप- पत्तेः । नच घटाभावप्रमासामध्यधिकरणत्वमेव परिचायकामति वाच्यम् । तथासति घटाभादप्रमा- दिनकरीयम्. न स्वरूपमा सम्बन्धः किन्वादशः स्वरूपविशेष इति न पूर्वी कातिप्रसङ्ग इति भावः व्यास्तु वैशिष्ट्य पदार्थान्तरमेव भूतलं घटाभाववदिति प्रत्ययात् स्वरूपसम्बन्धाभ्युगपमे चाभावा- धिकरणवृत्त्यखण्डभेदतावन्मात्रविषयकज्ञानादिकमादाय विनिगमनाविरह इत्याहुः ॥ ११ ॥ रामरुद्रीयम्. रूपविशेषः सम्बन्ध इत्यत्रैव तात्पर्यात् ने सिद्धान्तव्याघात इति भावः ॥ नव्यास्त्विति ॥ ननु भूतलं घटाभाववदिति प्रतीतेः खरूपसम्बन्धेनैवोपपत्त्या वैशिष्टयस्य पदार्थान्तरत्वे मानाभाव इत्यत आह् ॥ स्वरूपसम्बन्धेति ॥ अभावाधिकरणं तत्तद्भूतलादि तद्वृत्त्यखण्डी भेदः तद्भिन्नत्वप्रकार- कप्रमाविशेष्यत्वावच्छिन्नभेदः । ननु तत्तदधिकरणमात्रवृत्त्युक्तभेदस्याधिकरणातिरिक्तत्वे तदधिकरण व्यक्कावनन्तभेदाङ्गीकारप्रसङ्गेन तस्याधिकरणस्वरूपत्वमेवोचितमतस्तमादाय न पिनिगमनाविरहनसा इत्यत आह ॥ तावन्माति । वस्तुतस्तु अखण्डैकभेदेन साकमधिकरणानां न विनिगमनाविरहस्सम्भवति अधिकरणानां नानात्वेन लाघवादेकभेदस्यैव सम्बन्धत्वौचित्यादतस्तद्विषयकज्ञानादिकमादाय विनि- गमनाविरहं प्रसनयति ॥ तावन्मात्रेत्यादि ॥ एतेन अनवस्थाभन भेदाधिकरणकभेदस्यैव अधि- करणरूपताङ्गीकरणीया न तु भेदमात्रस्य तथासत्यन्योन्याभावस्थैव विलयप्रसङ्गादिति दूषणं परास्तम् । द्रव्यगुणादिविषयकज्ञानव्यदिव्यत्वाभावसम्बन्धत्वे गुण इव द्रव्येऽपि द्रव्यत्वाभावबुद्धिप्रसङ्गः सम्ब. न्धात्मकज्ञानस्य द्रव्येऽपि विशेष्यतया सत्त्वादतो मात्रपदम् । आदिना इच्छादिपरिप्रहः । युक्तं चैतत् समवायनानात्ववादिनां नव्यानां मते अनन्तातिरिक्तनानासमवायकल्पनामपेक्ष्य क्लप्तस्वरूपाणामेव सम्बन्धत्वौचित्येन तन्मतेऽतिरिक्तसमवायस्यैवासिद्धिप्रसङ्गादिति मन्तव्यम् । अत्र चारित्यनेनास्व- रसोदावनं तद्वीजे तु तदधिकरणविषयकनानाज्ञानव्यक्तीनां सम्बन्धत्वकल्पनामपेक्ष्यैकस्यास्तद्य- केस्तथात्वे लाघवात् न विनिगमनाविरहः यत्किञ्चिदेकज्ञानब्यक्तरेव तधात्वे तज्ज्ञानव्यक्त्यभावदशायां सम्बन्धाभावेनाभावविशिष्टयुद्धधनुदयापत्तेः नित्यज्ञानव्यक्तस्तथात्वे च तस्याः सर्वविषयकत्वेन प्रतियोगि- मत्यप्यभाववबुद्धिप्रसङ्ग इति बोध्यम् ॥ ११ ॥